Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 83
________________ परिशिष्टपर्व - अष्टमः सर्गः १५३ १५२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दृष्ट्वा गुरुरुत्थायाऽब्रवीत्-“हे दुष्करदुष्करकारिन् ! तव स्वागतमस्तु" । अथ ते साधवः सासूया इत्यचिन्तयन्-"गुरोरिदमामन्त्रणं मन्त्रिपुत्रताहेतुकं प्रतिभाति । यद्यसौ षड्रसाहारात् कृतदुष्करदुष्करो गीयते, तर्हि वयं द्वितीयवर्षे वेश्यागृहेऽवस्थानं प्रतिज्ञास्यामहे" । सामर्षास्ते महर्षय एवं हृदि संस्थाप्य संयमं कुर्वाणाः क्रमादष्टौ मासानयापयन् । उत्तमर्ण इव काले प्राप्ते गुरोरग्रे हृष्टः सिंहगुहावासी साधुरिति प्रतिज्ञामकार्षीत्-“हे भगवन् ! इमां चतुर्मासीमहं कोशावेश्यागृहे नित्यं षड्विधाहारं भुजानः समवस्थास्ये । गुरुरुपयोगेन स्थूलभद्रेण मात्सर्यादेतत् स्वीकरोत्ययम्" इत्यवगम्य समादिशत्-“हे भद्र ! अतिदुष्करदुष्करमभिग्रहं न कुरु, गिरिराज इव स्थिरः स्थूलभद्रस्तु तत् कर्तुं समर्थोऽस्ति" । ततो नहि मे दुष्करोऽप्येषोऽस्ति तर्हि कथं दुष्करदुष्करो भवितुमर्हति तदहमवश्यं करिष्यामि" इति स गुरुं प्रत्युवाच । गुरुरुवाच-"अनेनाऽभिग्रहेण प्राक्तनस्याऽपि तपसस्ते भ्रंशो भविष्यति" । यत आरोपितोऽतिभारो देहभङ्गाय जायते" । स मुनिर्गुरुवचनमनादृत्य वीरंमन्य: कोशावेश्याया कामकलापरिपूर्णं तद् निकेतनं जगाम । असौ तपस्वी स्थूलभद्रस्पर्धयाऽत्राऽगच्छतीति मत्वा भवे पतन्नयं मया रक्षणीय इत्युत्थाय सा ननाम । सा वेश्या तेन मुनिना निवासाय प्रार्थितां चित्रशालां तस्मै ददौ । स च मुनिस्तत्र प्राविशत् । लावण्यकोशभूता कोशाऽपि मध्याह्ने भुक्तषसाहारं तं परीक्षितुं समाययौ । स कमलाक्षी कोशां दृष्ट्वा शीघ्रं चुक्षोभ । तादृशी स्त्री, भोजनं च तादृशं किं विकाराय न भवेत् ? कोशाऽपि कामपीडया याचमानं तमेवमुवाच-"हे भगवन् ! वयं वेश्या धनदानतो वश्याः स्मः । मुनिरप्येवमुवाच-“हे मृगनेत्रे ! प्रसीद, वालुकासु तैलमिवाऽस्मासु किं द्रव्यं भवति ? ततः सा नवीनाय साधवे नेपालभूपालो रत्नकम्बल वितरति, 'तमानय' इति मुनि निर्वेदं प्रापयितुमुवाच । ततः स मुनिः निजव्रतमिव स्खलन् प्रावृट्कालेऽपि पङ्किलायां भूमौ बालवत् चचाल । तत्र गत्वा च राज्ञो रत्नकम्बलं प्राप्य वलितः । तस्मिन् मार्गे दस्यव आसन् । ततो दस्यूनां शकुनिरित्युवाच'लक्षमायाति' । दस्युराजः किमायातीति वृक्षस्थितं नरमपृच्छत् । स द्रुमारूढो नरः-‘एको भिक्षुक आगच्छन्नस्ति' कश्चित् तादृशोऽन्यो नाऽस्तीति चौरसेनापत्यग्रे जगाद ।। अथ साधुस्तत्र सम्प्राप्तः, तैश्चौरैविधृत्य निरूपितः, किमपि धनं तत्साधुपार्श्वे न दृष्ट्वा साधुस्तैर्मुमुचे । पक्षी पुनरेतल्लक्षं प्रयातीति व्याजहार । ततश्चौरपतिरुवाच-"साधो ! त्वं सत्यं ब्रूहि, किमपि ते पार्श्वे धनमस्ति ? तत: साधु:-"वेश्यार्थोऽयं रत्नकम्बलो वंशमध्ये निक्षिप्तोऽस्ति" इत्युवाच । तत: स चौरराजेन मुमुचे । स साधुस्ततः समागत्य कोशायै तं रत्नकम्बलं ददौ । सा गृहस्रोतःपङ्के तं निःशङ्कं न्यक्षिपत् । मुनिरप्येवमुवाच-“हे कम्बुकण्ठि ! महामूल्योऽसौ रत्नकम्बलः किमशुचिकर्दमे त्वयाऽक्षेपि ? अथ कोशाऽप्युवाच"हे मूढ ! त्वं कम्बलं शोचसि किन्तु गुणरत्नमयमात्मानं नरके पतन्तं न शोचसि" । मुनिस्तच्छ्रुत्वा जातवैराग्य इत्यवोचत-“हे भद्रे ! त्वयाऽहं साधु बोधितोऽस्मि; संसाराच्च साधु रक्षितोऽस्मि । हेऽनघे ! अतीचारभवानि स्वानि पापानि नाशयितुं गुरुपादपार्श्वेऽहं यास्यामि, तव धर्मलाभोऽस्तु" । वेश्याऽपि साधुमेवमुवाच-“हे मुने ! त्वयि मे दुष्कृतं मिथ्या, यतो ब्रह्मव्रतस्थयाऽपि मया त्वं खेदितोऽसि;

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128