Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 81
________________ १४८ परिशिष्टपर्व - अष्टमः सर्गः १४९ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः काका इव पिशुना उपद्रवन्ति । यथा राजार्थे स्वदेहद्रव्यव्ययेनाऽपि प्रयत्यते, तथा धीमता स्वार्थे किं न प्रयत्यते ? एवं विचिन्त्य स पञ्चमुष्टिभिः केशोत्पाटनं चकार । अथ रत्नकम्बलदशाभी रजोहरणमपि चकार । ततः स महाभागः सभायां राजानमुपगम्याऽऽलोचितमिदमित्युक्त्वा"धर्मलाभोऽस्तु" इत्युवाच । ततो गुहाया: सिंह इव महासारः संसारगजरोषणः स राजगृहाद् नि:ससार । किमेष च्छलं विधाय वेश्यागृहं यातीति अप्रत्ययाद् राजा गवाक्षेणाऽपश्यत् । शवदुर्गन्धेऽपि प्रदेशेऽनाच्छादितनासिकं यान्तं स्थूलभद्रं दृष्ट्वा राजा शिरोऽधूनयत् । अहो ! अयं भगवान् वीतरागोऽस्ति, मां धिग् यदस्मिन् मया कुचिन्तितम् । नन्दस्तमभिनन्दयन् स्वमुच्चैर्निनिन्द । स्थूलभद्रोऽपि श्रीसम्भूतिविजयपाधै गत्वा सामायिकोच्चारपुरस्सरं दीक्षामग्रहीत् । ततो नन्दो राजा श्रीयकं हस्ते गृहीत्वा निःशेषव्यापारे मुद्राधिकारे सगौरवं स्थापयामास । श्रीयकोऽपि सावधान: प्रकृष्टनयपाटवात् साक्षाच्छकटाल इव सदा राज्यचिन्तां चकार । विनीत: स कोशाया वेश्याया गृहे नित्यमपि ययौ । कुलीनैर्धातुः स्नेहात् तत्प्रियाऽपि बहु मन्यते । स्थूलभद्रवियोगपीडिता सा श्रीयकं दृष्ट्वा रुरोद, यत इष्टजने दृष्टे सति दुःखपीडिता दुःखं धर्तुं न शक्नुवन्ति। ततः श्रीयकस्तामुवाच-“हे आर्ये ! वयं किं कुर्मः ? असौ पापो वररुचिरस्माकं पितरमघातयत्, समयोत्पन्नवज्राग्निप्रदीपनवत् तत स्थूलभद्रवियोगं च सम्पादयामास । हे मनस्विनि ! असौ खलो यावत् तव भगिन्यामुपकोशायामनुरक्तोऽस्ति तावत् कञ्चित्प्रतीकारं त्वं चिन्तय । तस्मात् त्वं तामादिश यत् कथमप्यसौ वररुचिर्मद्यपानरुचिस्त्वया विधीयतामिति । ततः साऽतिप्रियवियोगाद् वैराद् देवरस्य चातुर्यात् तत्प्रतिज्ञायोपकोशां समादिदेश । कोशानिदेशेनोपकोशा तं तथाऽकथयत् यथाऽसौ सुरां पपौ । स्त्रीपराधीनैः किं न क्रियते ? वररुचिर्भट्टोऽथ मद्यपानं स्वैरं कारितः" इत्युपकोशा रात्र्यतिगमे कोशायै कथयामास । अथ श्रीयकोऽपि तत् कोशामुखात् सर्वमशृणोत्, अमन्यत च "पितृवैरस्य प्रतीकारो विहित" इति । शकटालमहासचिवमरणात् प्रभृति सोऽपि वररुचिर्भट्टो राजसेवावसरतत्परो बभूव । स प्रतिदिनं राजकुले सेवासमये गच्छन् राज्ञा राजपुरुषादिभिश्च सगौरवमदृश्यत । ___ अन्यदा नन्दनृपो मन्त्रिगुणस्मरणविह्वल: सभायां श्रीयकसचिवं सगद्गदमेवमुवाच-“इन्द्रस्य बृहस्पतिरिव भक्तिमान् शक्तिमान् धीमान् शकटालो मे मन्त्रीबभूव । असौ दैवाद् मृतः, अहं किं करोमि ? तेन विना स्वस्थानं शून्यमिवाऽहं मन्ये । श्रीयकोऽप्येवमवोचत्-“हे राजन् ! इह किं विदध्महे ? मद्यपायी वररुचिरिदं सर्वमकार्षीत् । सत्यमेव वररुचिर्मद्यं पिबतीति राज्ञोक्ते श्रीयकोऽमुं श्वो दर्शयिताऽस्मीति प्रत्युवाच । श्रीयको द्वितीयदिने सभां गतानां सर्वेषां शिक्षितेन स्वपुरुषेणोत्तममेकैकं कमलमर्पयामास । तदा मदनफलरसभावितं कमलं दुष्टवररुचेरर्पयामास । कुतस्त्यं विलक्षणामोदमिति वर्णयन्तो राजादयः स्वं स्वं कमलं घ्रातुं नासाग्रे निन्युः ।

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128