Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व - अष्टमः सर्गः
१४७
१४६
mmmmmmmmmmmmmmmmmmपाष्टशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मास । तेन दीनारग्रन्थिनोत्सर्पद्धृदयग्रन्थिनेव स मरणादपि दुःसहां दशां प्राप । असौ लोकं प्रतारयितुं सायं द्रव्यं तत्र क्षिपति, प्रातर्गृह्णातीति मन्त्री राजानमुवाच । राजा-'इदं छद्म साधु जात मिति मन्त्रिवरं निगदन् विस्मयस्मेरनेत्रः स्वगृहं ययौ ।।
अमर्षणो वररुचिः प्रतीकारं विचिन्तयन् चेटिकादिकं मन्त्रिणो गृहस्वरूपं पप्रच्छ । चेटी तस्येदं प्रोवाच-"श्रीयकविवाहे राजा मन्त्रिगृहे भोक्ष्यते । मन्त्रिणा नन्दाय दातुमत्र शस्त्रादि सज्ज्यते, यत: शस्त्रप्रियाणां राज्ञां शस्त्रमाद्यमुपायनं भवति । ततश्छलज्ञो वररुचिश्छलं समासाद्य चणकादि दत्त्वाऽऽवयं डिम्भानि त्वपाठयत्-"राजा तद् न जानाति यत् शकटाल: करिष्यति । नन्दं हत्वा तद्राज्ये श्रीयकं स्थापयिष्यति" । स्थाने स्थाने प्रतिदिनमेवं बालकाः पेठुः । जनश्रुत्या राजेदमश्रौषीत्, अचिन्तयच्च-"यद् बालका भाषन्ते, यच्च स्त्रियो भाषन्ते, या चोत्पातिकी भाषा, साऽन्यथा न भवति" ।
अथ राज्ञा तत्प्रत्ययार्थं राजपुरुष: प्रेषितस्तद्गृहे गत्वा यथा दृष्टं सर्वं तत् समागत्य राज्ञे व्यजिज्ञपत् । तत: सेवावसरे समागतस्य प्रणामं कुर्वतो मन्त्रिणो राजा पराङ्मुखस्तस्थौ । अथ तद्भावज्ञोऽमात्यो गृहमेत्य श्रीयकमुवाच-"राज्ञः केनाऽपि विद्विषन्निव अभक्तः ज्ञापितोऽस्मि, अस्माकमकस्मात् कुलक्षय उपस्थितः । हे वत्स ! मदीयं ममाऽऽदेशं त्वं कुरुषे तदाऽयं कुलक्षयो निवार्यते । अहं यदा राज्ञे शिरो नमयामि तदा त्वं मे शिरः खड्गेन छिन्द्याः, ततस्त्वं स्वाम्यभक्तः पिताऽपि वध्य" इति वदेः । ततः त्वं जरसा परलोकं जिगमिषौ मयि मृते चिरं मत्कुलगृहस्तम्भो भविष्यसि" । श्रीयकोऽपि रुदन्नेवं गद्गदस्वरमुवाच-“हे पितर् ! इदं घोरं कर्म
श्वपचोऽपि किं करोति ?" मन्त्र्यप्येवमुवाच-"एवं विचारयंस्त्वं शत्रूणामेव केवलं मनोरथान् पूरयसि । यम इवोद्दण्डो राजा यावत् सकुटुम्बं मां हन्ति, तावद् ममैकस्य नाशात् कुटुम्बं त्वं रक्ष । अहं तालपुटं विषं मुखे न्यस्य भूपतिं नस्यामि परासोर्मे शिरस्त्वं छिन्द्यास्ततः पितृहत्या ते न भविष्यति" । ततस्तातेनैवं बोधित: स तत् स्वीचकार, चकार च । धीमन्तो हि शुभपरिणामाय दारुणमिव लक्ष्यमाणमपि कर्म कुर्वन्ति ।
हे वत्स ! "त्वया किमिदं घोरं कर्म व्यधायि" इति नृपेण ससम्भ्रमं प्रोक्तः श्रीयक उवाच-"यदैवाऽयं स्वामिना द्रोही ज्ञातस्तदैव स निहतः, यतो भृत्यानां स्वामिचित्तानुसारेण प्रवर्तनं भवति । भृत्यानां दोषे स्वयं ज्ञाते विचारो युज्यते; स्वामिना ज्ञाते तु न विचार उचितः" ।
ततो नन्दराजः कृततातौदेहिकं श्रीयकमुवाच-सर्वव्यापारयुतेयं मुद्रा त्वया गृह्यताम् । अथ श्रीयको राजानं प्रणम्योवाच-"मम ज्येष्ठभ्राता पितृसमः स्थूलभद्रनामाऽस्ति । कोशाया गृहे पितृप्रसादाद् निर्बाधं भोगानुपभुञानस्य तस्य द्वादश वर्षाणि व्यतीयुः। राज्ञाऽऽहूय स स्थूलभद्र आदिष्टोऽमुमर्थं पर्यालोच्य करिष्यामी'त्युवाच ।
राज्ञाऽद्यैव पर्यालोचयेत्युक्तः स्थूलभद्रोऽशोकवनिकां गत्वा चेतसेति व्यमृशत्, नियोगिभिर्जनै रकैरिव शयनं, भोजनं, स्नानमन्येऽपि सुखहेतव उचितसमये नाऽनुभूयन्ते । नियोगिनां स्वपरराज्यचिन्ताकुलचेतसि पूर्णघटे जलानामिव प्रियाणामवकाशो न भवेत् । सर्वमपि स्वार्थं त्यक्त्वा राजार्थं कुर्वतामपि उद्घद्धानां

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128