Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 84
________________ १५४ परिशिष्टपर्व - अष्टमः सर्गः MAnnanoranAnamnnnnnnnnnnnnnnnnnnnni nounnanonmainamaAAAAAA mmannmannmannanamannamannannnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः युष्माकं बोधार्थं मयेयमाशातना कृता । सा त्वया क्षन्तव्या । गुरुवचनमाश्रय, शीघ्रं याहि । ततः स साधुरिच्छामीति वदन् सम्भूतविजयपार्श्वे गत्वाऽऽलोचनां गृहीत्वा पुनः शीघ्रं तपश्चकार । परेधुः समाधिमन्तः सम्भूतविजयाचार्यपादा मरणं साधयित्वा स्वर्ग ययुः । ___ अन्यदा तुष्टेन राज्ञा कोशाऽपि रथिने दत्ता । राजाधीनेति सा रागं विनाऽपि तं रथिनमाश्रयत् । सा वरवर्णिनी स्थूलभद्रं विहाय कोऽपि पुरुषो नास्तीति दिवानिशं तस्य रथिनो निकटे वर्णयामास । रथी गृहोद्याने गत्वा पर्यङ्के समुपविश्य कोशामनो रञ्जयितुं वक्ष्यमाणं स्वविज्ञानं तामदर्शयत् ? तथाहि-बाणेनाऽऽम्रलुम्बी विव्याध । तमपि पुनर्बाणेन तमपि पुड्खेऽन्येन बाणेने ति हस्तपर्यन्तं बाणपङ्क्तिरभूत् । क्षुरप्रेण वृन्तं छित्त्वा करेण बाणश्रेणिमुखस्थितां लुम्बीमाकृष्य कोशायै ददौ । साऽपि सम्प्रति मम विज्ञानं पश्येत्युक्त्वा सर्षपराशिं विधाय तदुपरि ननर्त । तद्राशौ सूची क्षिप्ता, तां सूची पुष्पपत्रैराच्छाद्य तदुपरि साऽनृत्यत् । सा वेश्या न सूच्या विद्धा, न च सर्षपराशिः क्षतोऽभूदिति चमत्कारस्तया दर्शितः । ___ ततो रथी जगाद-"अनेन दुष्करेणाऽहं तवोपरि तुष्टोऽस्मि, त्वं मां याचस्व, यन्ममाऽधीनं वस्त्वस्ति तदहं निश्चितं ते ददामि" । सोवाच-"मया किं दुष्करमकारि? येन त्वं रञ्जितो जातः, इदमपि नाऽधिकम् अस्मादप्यधिकमभ्यासेन किं दुष्करं भवति ? कि चाऽऽम्रलुम्बीच्छेदोऽयं न दुष्करः, नृत्तमपि न दुष्करं, स्थूलभद्रो यदशिक्षितं चकार तत्तु दुष्करं प्रतिभाति । तथाहि-यत्र मया सह द्वादशवर्षाणि भोगानभुक्त; तत्रैव चित्रशालायां सोऽखण्डितब्रह्मव्रतस्तस्थौ । स्थूलभद्रमुनि विना योगिनां चित्तं नकुलसञ्चाराद् दुग्धमिव स्त्रीसञ्चाराद् दुष्यति । स्थूलभद्रोऽखण्डितव्रतश्चतुर्मासी स्त्रीनिकटे यथा तस्थौ तथैकमपि दिनं कः स्थातुं शक्नोति ? लौहशरीरस्याऽप्यन्यस्य स्त्रीनिकटे षड्रस आहारश्चित्रशालावास, एकमपि व्रतभङ्गाय पर्याप्तम् । वरिव स्त्रिया: पार्श्वे धातुमया विलीयन्ते; स स्थूलभद्रमहामुनिवज्रमयोऽस्तीति मन्ये । महासत्त्वं कृतदुष्करदुष्करं स्थूलभद्रमुनि व्यावर्ण्य तदन्यं वर्णयितुं मुखमुद्रैव समुचिता। अथ रथिकः पप्रच्छ-"हे प्रिये ! त्वया यो वर्ण्यते स कोऽयं स्थूलभद्रनामा महासत्त्वशिरोमणिरस्ति ? साऽप्यूचे-आर्यपुत्र ! तवाऽग्रे यमहं वर्णयामि स नन्दनृपमन्त्रिशकटालपुत्रः स्थूलभद्राख्यो मुनिरस्ति" । एतच्छ्रुत्वा सम्भ्रान्तः कृताञ्जलिरित्युवाच-"तस्य स्थूलभद्रमहामुनेरहमधुना किङ्करोऽस्मि । अथ सा कोशा विरक्तं ज्ञात्वा धर्मदेशनां चकार । स सन्मतिर्मोहनिद्रां त्यक्त्वा प्रत्यबुध्यत । सा तं प्रतिबुद्धं बुधवा स्वाभिग्रहमकथयत् । स तच्छ्रुत्वा विस्मयोत्फुल्लनयन इदमुवाच"हे भद्रे ! स्थूलभद्रगुणवर्णनेन त्वयाऽहं प्रतिबोधितो भवत्यैव दर्शितं तस्य मार्गमद्य गमिष्यामि । हे भद्रे ! तस्य कल्याणमस्तु, त्वं स्वमभिग्रहं पालय" । स एवमुक्त्वा सगुरोः पार्श्वे गत्वा दीक्षां जग्राह । भगवान् स्थूलभद्रोऽपि तीक्ष्णं व्रतमपालयत् । तदा द्वादशवर्षप्रमाणो दुष्काल: समभूत् ।

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128