Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 82
________________ १५१ MAMAnnanoonamnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn परिशिष्टपर्व - अष्टमः सर्गः १५० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स भट्टोऽपि स्वकमलं घ्रातुं नासाग्रेऽनैषीत् । ततो रात्रिपीतां चन्द्रहाससुरां स सद्योऽवमत् । अमुं मद्यपं ब्राह्मणाधम बन्धवधयोग्य धिक् इति सर्वैराक्रुश्यमानो वररुचिः सभातो निःससार । तेन याचिता ब्राह्मणा तापितत्रपुणः पानं मद्यपानपापनाशकं प्रायश्चित्तमुपादिशन् । वररुचिर्मूषया तापितं वपु पपौ, ततस्तत्प्रदाहभयादिव स प्राणैः सद्योऽमुच्यत । श्रुतसागरपारङ्गतः स्थूलभद्रोऽपि सम्भूतविजयाचार्यपार्श्वे प्रव्रज्यां पालयामास । अन्यदा वर्षासमये समागते मुनयः सम्भूतविजयं गुरुं मस्तकेन प्रणम्येत्यभिग्रहानग्रहीषुः । तत्रैको मुनि:"अहं सिंहगुहाद्वारे कृतकायोत्सर्ग उपोषितश्चतुर्मासीमवस्थास्ये, द्वितीयो मुनि:-अहं दृष्टिविषसर्पबिलद्वारे कृतकायोत्सर्ग उपोषितश्चतुर्मासी यावत् स्थास्यामि," तृतीयो मुनि:-"कृतकायोत्सर्ग उपोषित: कूपमण्डूकासने चतुर्मासी स्थास्यामीति स्वीचकार । गुरुर्यावद् योग्यांस्तान्मुनीननुमेने तावत् स्थूलभद्रो गुरुमुपेत्य नत्वैवमुवाच-"हे प्रभो ! कोशावेश्यागृहे या विचित्रकामशास्त्रोक्तकरणालेख्यवती चित्रशालाऽस्ति तत्र कृततपःकर्मविशेष: षड्रसान् भुञ्जानश्चतुरो मासानहं स्थास्यामीत्यभिग्रहो मे" | गुरुरुपयोगात् तं योग्यं मत्वाऽनुमेने । ततः सर्वे साधवः प्रतिज्ञातं स्वं स्वं स्थानं जग्मुः । त्रयोऽमी सिंहसर्पारघट्टका: शान्तांस्तीव्रतपोनिष्ठांस्तान् मुनिवरान् दृष्ट्वा शान्तिमशिश्रियन् । स्थूलभद्रोऽपि कोशावेश्यालयं जगाम । कोशाऽपि तदग्रतः कृताञ्जलिरभ्युदस्थात् । असौ प्रकृत्या रम्भास्तम्भ इव सुकुमार उरुणा व्रतभारेण खिन्नोऽत्राऽऽगच्छदिति विचिन्त्य सा जगाद-"स्वामिन् ! तव स्वागतमस्तु, समादिश, तव कृतेऽहं कि करोमि ? यतो मम शरीरं धनं परिजनः सर्वमेतत् तवैव" । ततः स्थूलभद्रोऽपि चतुर्मासी निवासायेयं चित्रशाला मेऽर्प्यताम्" इत्युवाच । साऽप्यूचे-"गृह्यतामिति, भगवानपि स्वबलवत्तया कामस्थाने धर्म इव तथा परिष्कृतायां चित्रशालायां प्राविशत् । अथ सा षड्रसाहारभोजनानन्तरं मुनेः क्षोभाय कृतविलक्षणशृङ्गारा समुपाययौ । तस्याग्र उपविष्टा सा काचिदप्सरा इव मुहुर्हावभावादिकं सम्यक् चकार । पुनः सा प्राक्तनानि तानि तानि करणानुभवक्रीडोद्दामानि सुरतानि वारं वारं स्मारयामास । तया तस्मिन् मुनिवरे क्षोभाय यद् यद् विदधौ तत् तद् वजे नखविलेखनमिव व्यर्थमभूत् । सा प्रतिदिनं तं मुनि क्षोभयितुं प्रायतिष्ट । किन्तु महामनाः स मुनिवरो मनागपि नाऽक्षुभ्यत्, प्रत्युतोपसर्गकारिण्या तया महामुनेानानलो जलेन मेघवह्निरिव प्रादीप्यत । ततो-“हे प्रभो ! त्वयि पूर्वमिव रन्तुकामां मां धिक्" इत्यात्मानं निन्दन्ती सा तस्य चरणकमलयोरपतत् । सा तस्य मुनेरिन्द्रियविजयप्रकर्षेण चमत्कृता श्रावकत्वं प्रपेदे, इममभिग्रह चाऽग्रहीत्-"राजा यदि मां तुष्टः सन् कस्मैचिद् ददाति तदा तमेकं पुरुषं विनाऽन्यं न सेविष्य, इति मे नियमः" । __ अथ वर्षासमये व्यतीते त्रयोऽपि साधवो निढाभिग्रहाः क्रमाद् गुरुपादसमीपं समुपागमन् । सिंहगुहासाधुरागच्छन् 'अहो दुष्करकारक' इति सूरिणा किञ्चिदुत्थाय स्वागतमूचे । तथाऽन्यावपि समायान्तौ सूरिणोक्तौ, प्रतिज्ञानिर्वाहे समानौ स्तः, स्वामिसत्कारोऽपि तुल्य एवाऽस्ति । अथ स्थूलभद्रं समायान्तं

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128