Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 89
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मुञ्च । तव परिणयनशल्यं त्वया सह यातु, एवमादिष्टा सा शीघ्रं रथादुत्तीर्य यावच्चन्द्रगुप्तस्य रथवरमारोढुं प्रक्रान्तवती चन्द्रगुप्तरथस्य नवारका यन्त्रक्षिप्तेक्षुवदभज्यन्त । असावमङ्गलकरी केयं मद्रथमायाति ? इति रथमारुरुक्षं तां चन्द्रगुप्तो निवारयामास । चाणक्योऽप्युवाच - "हे चन्द्रगुप्त ! इमां मा निवारय, इदं शकुनं शुभाय, अन्यथा त्वं मा मंस्थाः । हे वत्स ! अनेन शकुनेन तव वंशो नव पुरुषयुगानि यावदधिकाधिकां वृद्धिमेव गमिष्यति” । १६४ ततश्च नन्दगृहे चन्द्रगुप्त - पर्वतौ प्रविष्टौ विपुलां नन्दसम्पत्तिं संविभक्तुमारेभाते । तत्रैका कन्या सर्वस्वमिव रक्षिताऽभूत्। नन्दभूपस्तां विषेणोपाजीवत् । पर्वतकस्य तस्यामनुरागस्तथा बभूव यथा तां हृदये ध्यातव्यदेवतावदस्थापयत् । चाणक्यस्तां पर्वतायैव ददौ । तदैव च विवाहमङ्गलमारेभे । तदा होमाग्नितापोत्पन्नतत्स्वेदजलसङ्गमात् पर्वतकेऽपि तस्या विषं सञ्चक्राम । तदा पर्वतकः सङ्क्रान्तविषवेगार्तः शिथिलीभूतसर्वाङ्गः संश्चन्द्रगुप्तमुवाच-अहं पीतविष इव वक्तुमपि नोत्सहे; हे वत्स ! मां परित्रायस्व, अहं म्रिये नाऽत्र संशयः " । मान्त्रिका मान्त्रिका वैद्या वैद्या इत्यनुभाषिणं चन्द्रगुप्तं चाणक्यः कर्णे भूत्वैवमन्वशात् - "औषधं विनैष ते व्याधिर्याति तहि यातु, मौनं कुरु, इममुपेक्षस्व, अमुं विना ते कल्याणं भवतात् । अर्धराज्यहरं मित्रं यो न हन्यात् स हन्यते इति हेतोरयं मारणीयः, यदि स्वयमयं म्रियते तर्हि त्वं पुण्यवानसि " । बुद्धिमदग्रेसरश्चाणक्य उत्क्षिप्तभृकुटीभङ्गश्चेष्टयैवमनुशिष्य चन्द्रगुप्तं वारयामास । ततश्च पर्वतकः पञ्चत्वं प्राप । तदा समस्तं तद्राज्यं चन्द्रगुप्तस्यैवा परिशिष्टपर्व अष्टमः सर्गः ऽभवत् । एवं च श्रीमहावीरनिर्वाणात् पञ्चपञ्चाशदधिके वर्ष व्यतीते चन्द्रगुप्तो राजाऽभूत् । **** १६५ एकदा केऽपि नन्दानुजीविनो गुप्ते प्रदेशे स्थिताः पुरुषाश्चन्द्रगुप्तराज्ये चौर्यं चक्रुः । अथ चाणक्यः कञ्चित् पुररक्षाक्षमं पुरुषं पश्यन्नेकस्य कौलिकस्य गृहमगच्छत् । तदा स मत्कोटकदरीषु वह्नि क्षिपन्नासीत् । चाणक्यस्तं पप्रच्छ किं करोषि ? तदा स उवाचमत्पुत्रोपद्रवकरान् दुष्टानिमान् मूलादुन्मूलयामि । दुष्टानामन्यन्नोचितम् । अहो ! धीव्यवसायाभ्यामयं कौलिकः प्रकृष्टोऽस्ति" इति चिन्तयंचाणक्यश्चन्द्रगुप्तमुपययौ । शिक्षाविचक्षणश्चाणक्यः कौलिकमाह्वाय्य चन्द्रगुप्ताद् नगराध्यक्षं कारयामास । ते चौरा नन्दपुरुषास्तेन विविधैर्भोजनादिभिर्विश्वास्य जघ्निरे, चाणक्यस्य बुद्धिर्वृथा न भवति स्म । इतश्च चाणक्यो यस्मिन् ग्रामे पुरा भिक्षां न प्राप, तद्वासिनः कुटुम्बिन आह्वयत् । तदा तेषां क्षुद्रबुद्धयोत्पन्नकोपश्चाणक्य"आम्राणां वंशानां वृतिं कुरुत" इत्यादिदेश । ततश्चाणक्यनिर्देशेन तैस्तद्ग्रामकुटुम्बिभिराम्राणां तरूणां वंशीश्छित्त्वा वृतिश्चक्रे । ततश्चाणक्यो - " रे रे मूर्खाः ! मया वंशीनामाम्रैर्वृतिः क्रियतामित्यादेशि " इति वदंश्चुक्रोध । कृत्रिममिमं दोषमुत्पाद्य तेषां कुटुम्बिनां सबालवृद्धं ग्रामं रुषाऽज्वालयच्च । अन्येद्युश्चन्द्रगुप्तस्य कोशो नास्तीति चिन्तया चाणक्यो दीनारै: स्थालमापूर्य लोकं प्रत्युवाच - "अहो जनाः ! मया सहाऽक्षैर्दीव्यन्तु", यो मां जेष्यति स दीनारपूरितमिदं स्थालं पणं

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128