Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१७०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
स्त्रीषु लम्पटाः संभाषितुमपि न योग्यास्तर्हि तत्पूजायां तु कथैव का ? कषायपक्षिवृक्षेषु कृतघ्नेषु दुरात्मस्वेतेषु दानम् - ऊषरेषु जलवृष्टिवद् व्यर्थं भवति । हे राजन् ! आत्मानमाश्रितं च लोहनौकावद् भवसागरे पातयत्सु तेषु भक्तिं न कुरु" । चन्द्रगुप्त उवाच - "इदं त्वद्वचनं मे गुरुसम्मतं, तथाऽपि ते संयमिनो न सन्तीति मां
प्रत्यायय ।
ततश्चाणक्यो नगर एवं प्रघोषणामकारयत् - " राजा सर्वेषां पाषण्डिनां धर्मं श्रोष्यति” । ततो विचक्षणः स सर्वांस्तानाहूय नृपान्तःपुरसमीपतर एकान्ते देशे निवेशयामास । तदा चाणक्येनाऽग्रतोऽपि हि शुद्धान्तासन्नदिग्भागेऽलक्ष्यं सूक्ष्मं लोष्टचूर्णमक्षेपि ।
तत्र चाणक्येनोपदेशनार्थं प्रवेशिताः पाषण्डिनो विजनं स्थानं ज्ञात्वा राजान्तः पुराभिमुखं ययुः । ततः स्वभावेन स्त्रीलोला असंयता राजाङ्गनासमूहं गवाक्षविवरैर्द्रष्टुमारेभिरे । ते दुराशया राजस्त्रियः पश्यन्तस्तावत् तस्थुः यावद् राजा नाऽऽययौ । राज्ञि समागते तूपविविशुः । ततस्ते चन्द्रगुप्ताय धर्ममुपदिश्य पुनरन्त:पुरदिदृक्षयाऽऽगमनमिच्छन्तो जग्मुः । तेषु गतेषु चाणक्यश्चन्द्रगुप्तमुवाच - " हे वत्स ! त्वमिह पाषण्डिनां स्त्रीलम्पटतालक्षणं पश्य । गवाक्षविवरक्षिप्तलोचनैरजितेन्द्रियैस्तैस्त्वदागमनपर्यन्तं त्वदन्तःपुरमदर्शि । त्वं तेषां गवाक्षविवराधस्तात् स्पष्टं प्रतिबिम्बितामिमां पादपङ्क्त दृष्ट्वा प्रतीहि " ।
ततश्चाणक्यो राज्ञि सञ्जातप्रत्यये सति द्वितीयदिने तत्र धर्ममुपदेष्टुं जैनमुनीनप्याह्वयत् । अथ ते साधवः स्वाध्यायावश्यकेन नृपागमनमपालयन् । प्रथमत आसनेष्वेवोपाविशन् । ततश्च ते साधवो धर्ममुपदिश्येर्यासमितितत्परत्वाद् भूमिमेव पश्यन्त उपाश्रयं ययुः ।
१७१
परिशिष्टपर्व अष्टमः सर्गः ततश्चाणक्यो गवाक्षविवराधोभागे तं लोष्टचूर्णं यथास्थं दृष्ट्वा तच्चन्द्रगुप्तमदर्शयदुवाच च "एते मुनयः पाषण्डिवद् नाऽत्राऽऽजग्मुः, अन्यथा तदीयचरणप्रतिबिम्बानि कुतो न दृश्यन्ते ? अथ चन्द्रगुप्तराजः समुत्पन्नविश्वास: साधून् गुरून् मेने । विषयेषु योगविदिव पाषण्डिषु विरक्तो बभूव ।
प्रसिद्धधीगुणश्चन्द्रगुप्तलक्ष्मीलतामण्डपश्चाणक्य एवं नानाप्रकारैश्चिन्तयामास । अहं शनैः शनैश्चन्द्रगुप्तं विषाहारं साधयामि, यथाऽस्य रसायनं स्यात्, विषदश्च न प्रभवेत् । अथ महाबुद्ध्या बृहस्पतिरिव चाणक्यः प्रतिदिनमधिकाधिकं विषाहारमभोजयत् । ततश्चाऽन्येद्युश्चन्द्रगुप्तेन सह तस्य गुर्विणी दुर्धरानाम्नी राजी रागोत्कर्षेण भोक्तुमारेभे । चाणक्यो विषान्नं भुञ्जानां तां दृष्ट्वा गर्भविनाशशङ्कया त्वया किं कृतमिति शीघ्रमुवाच । राज्ञी विषभोजनमात्रेण पञ्चत्वं प्राप ।
ततश्चाणक्यो दध्यौ - "अस्या गर्भो न नश्यतु" इति तस्या मृतायास्तदानीमुदरमदारयत् । तस्माद् गर्भाच्छुक्तिपुटाद् मुक्तामिव गर्भमाचकर्ष । तस्य बालस्य मूर्धनि विषबिन्दुः सङ्क्रान्तश्चाणक्येन बिन्दुसार इत्यभिधायि । बिन्दुसारे तारुण्यं वयः प्राप्ते सति चन्द्रगुप्तः समाधिना मरणं प्राप्य दिवं जगाम । अथ मतिमांश्चाणक्यस्तद्राज्ये बिन्दुसारमस्थापयत् । सचिवाधीनसिद्धिः स चाणक्याज्ञाकरोऽभूत् ।
इतश्च चाणक्यः पूर्वं बिन्दुसारमाज्ञाप्य चतुरं सुबन्धुनामानं सचिवं कारयामास । स चाणक्ये स्वतन्त्रतामन्त्रिताभिलाषी मत्सरी चाणक्योच्छेदायैकान्ते बिन्दुसारं प्रतीदमुवाच - "हे राजन् ! अहं यद्यपि तव प्रमाणभूतो नाऽस्ति तथाऽपि तव परिणामहितं कथयामि,

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128