Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व - अष्टमः सर्गः
१५८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ससुहृत्पुत्रं सबलवाहनं नन्दं महावायुस्तरुमिवोन्मूलयिष्यामि । आध्मातताम्रताम्रमुखः क्रुधाग्निरिव ज्वलंश्चाणक्यः सभ्रूक्षेपं शीघ्रं नगराद् निःससार । धीमच्छिरोमणिश्चाणक्य एवं चिन्तयामासयद् बिम्बान्तरितो राजाऽहं भविष्यामि, 'राज्ययोग्यं कञ्चिन्नरं पश्यामि' इत्यभिमानात् स भूमौ बभ्राम । यतोऽभिमानिनोऽपमानं न विस्मरन्ति । ___अन्यदा चणेश्वरीकुक्षिजन्मा स ब्राह्मणो नन्दराजस्य मयूरपोषका यत्र न्यवात्सुस्तत्र ययौ । चाणक्यः परिव्राजकवेषधारी संस्तस्मिन् मयूरपोषकग्रामे भिक्षार्थं प्राविशत् । तदा मयूरपोषकवरस्याऽऽपन्नसत्त्वायाः कन्यायाश्चन्द्रपानाय दोहदोऽभूत्, तत्कुटुम्बेन स दोहदश्चाणक्याय कथितः । कथमसौ पूरणीय इति पृष्टश्चाणक्य उवाच-"यद्येतस्या जातमात्रं बालकं मम दत्थ, तदाऽहमस्याश्चन्द्रपानदोहदं पूरयाम्येव" । अस्या अपूर्णे दोहदे गर्भनाशो मा भूदिति तन्माता-पितरौ चाणक्यवचनं स्वीचक्रतुः ।
अथ चाणक्यः सच्छिद्रं तृणमण्डपं व्यरचयत् । तदूर्वे पिधानधारिणं नरं गुप्तममुचत् । तस्याऽधः पयसा भृतं स्थालं रचयामास । कार्तिकपूर्णिमामध्यरात्रौ तत्र चन्द्रः प्रत्यबिम्बत । तत्र सङ्क्रान्तं तं पूर्णचन्द्रं गुर्विण्या अदर्शयत् । पिबेत्युक्ता सा विस्मेरमुखी तं पातुमारेभे । सा यथा यथाऽपिबत् तथा तथा गुप्तपुरुषस्तृणमण्डपगतं तच्छिद्रं पिधानेन प्यधात् । एवं दोहदे पूरिते समये सा पुत्रमजीजनत् । पितरौ तस्य नाम 'चन्द्रगुप्त' इति चक्रतुः । मयूरपोषककुलकैरविणीचन्द्रः स चन्द्रगुप्तो दिने दिने चन्द्र इव व्यवर्धत, चाणक्योऽपि सुवर्णोपार्जनबुद्ध्या परिभ्रमन् धातुवादविशारदानन्वेषयितुं प्रारेभे ।
___इतश्च चन्द्रगुप्तो बालकैः सह प्रत्यहं क्रीडंस्तेभ्यो ग्रामादिकं भूप इव सदा प्राप । बालकान् हस्तीकृत्याऽश्वीकृत्य चाऽऽरुरोह । प्रायोभाविनी लक्ष्मीरिङ्गितैरपि सूच्यते । क्रमेण चाणक्यः परिभ्रमंस्तत्रैवाऽगात् । चन्द्रगुप्तं तादृशचेष्टं दृष्ट्वा विस्मितोऽभूत् । चाणक्यस्तं परीक्षितुमेवमुवाच-“हे राजन् ! त्वया मह्यमपि किञ्चन दीयताम्" । चन्द्रगुप्तोऽप्युवाच-“हे ब्राह्मण ! त्वं इमा ग्रामगवीर्यथारुचि गृहाण, मद्दत्ताः को निषेत्स्यति ?" चाणक्यः स्मित्वोवाच-"इमा गाः कथं गृह्णामि ? अहं गोस्वामिभ्यः परं बिभिमि, यतस्ते मां मारयिष्यन्ति" ।
चन्द्रगुप्तोऽप्युवाच-"त्वं मा भैषीः, तुभ्यं मया गाव: प्रदत्ता गृह्यन्तां, यतः पृथिवी वीरभोग्याऽस्ति" । विज्ञानवानपि चाणक्योऽचिन्तयत्-"अहो ! असौ विज्ञानवानस्ति । अतस्तत्समीपस्थान् बालकान् पप्रच्छ-"असौ बालकः कोऽस्ति ?" ते बाला ऊचुः"परिव्राजकपुत्रोऽसौ, मात्रा निजोदरस्थ एव परिव्राजकाधीनीकृतः"। चाणक्योऽपि स्वयं लब्धं तं ज्ञात्वा बालकमुवाच"यदीयस्त्वं स एषोऽहमस्मि, त्वमागच्छ, तुभ्यं राज्यं ददामि" । चन्द्रगुप्तोऽपि राज्यलाभाय तदङ्गुलौ ललाग । चाणक्योऽपि तमादाय चौर इव शीघ्रं पलायाञ्चक्रे ।
ततश्चाणक्यो धातुवादोपार्जितेन द्रव्येण नन्दमुन्मूलयितुं पत्त्यादिसामग्री सङ्कलय्य पत्त्यादिसर्वबलेन पाटलीपुत्रनगरं चतुर्दिशमवेष्टयत् । ततो निर्गत्य नन्दराजस्तदाऽल्पसारं सर्वं चाणक्यशिबिरमजमारणलीलया कुट्टयामास । ततः समयविदौ चाणक्य-चन्द्रगुप्तौ पलायाञ्चक्राते । यतो 'नंष्ट्वाऽपि प्राणान् रक्षेत्, आत्मनि सति लक्ष्य: पुनरागच्छन्ति' इति नीतिरस्ति ।

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128