Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१४२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ कल्पकः स्वस्थानमगात् । स सान्धिविग्रहिकस्तु तद्भावमविदन् विलक्षः स्वशिबिरं ययौ । स सान्धिविग्रहिकः स्वैः पृष्टो व्यषीदत् अवोचच्च-कल्पकद्विजोऽसम्बद्धप्रलापी वर्तते । तैः पुनः पुनः पृष्टः स न किञ्चिदपि जगाद । तद्भावं नाऽज्ञासिषमिति ब्रुवन् स जिहाय । कल्पकेनाऽयं मे सान्धिविग्रहिको मिलितोऽस्तीति निश्चित्य ते सामन्त-भूपतयो दिशो दिशं पलायन्त । ततः पलायमानानां तेषां हस्त्यश्व-रत्नकोशादि कल्पकशासनाद् नन्दराज आच्छिद्य जग्राह । नन्दोऽपि प्राक्तनं दुष्टमन्त्रिणं भक्तस्य कल्पकस्याऽयमनर्थकारीति क्रोधेन निजग्राह ।।
नन्दश्रियां पालनेऽन्तःपुररक्षक इव सुधीर्नयोपायनदीसमुद्रो मन्त्रिवरः कल्पकः पृथिवीं नन्दनृपाज्ञानियन्त्रितां चकार ।। ७ ।। इति परिशिष्टपर्वणि कल्पकामात्यवर्णनात्मकः
सप्तमः सर्गः॥७॥
अष्टमः सर्गः शकटालमन्त्रिणः श्रीस्थूलभद्रस्य च वृत्तान्तः
धीनिधिः पुनरुत्पन्नानेकपुत्रः स कल्पको नन्दनृपस्य मुद्राव्यापारं सुचिरमन्वशात् । कालक्रमेण नन्दवंशे सप्त नन्दा राजानोऽभूवन् । तेषां मन्त्रिणः कल्पकवंशोद्भवा बभूवुः । ततस्त्रिखण्डपृथिवीपतिः श्रीपतिरिवोन्मूलितद्विषत्कन्दो नन्दो नवमो राजा बभूव ।
विशाल: श्रीमान् सङ्कटरहितो धीमान् कल्पकवंशोत्पन्नः शकटाल इति नवमनन्दराजस्य मन्त्री बभूव । तस्य लक्ष्मीरिव वपुष्मती शीलालङ्कारधारिणी लक्ष्मीवतीनाम्नी पत्नी बभूव, तयोः विनयी सूक्ष्मबुद्धिश्चन्द्र इव स्थूलभद्रनामा ज्येष्ठः पुत्रोऽभूत् । तथा तयोर्भक्तो नन्दनृपहृदयामन्दानन्दगोशीर्षचन्दनः श्रीयको नाम कनिष्ठो नन्दनोऽभूत् । तत्र पुर एका वेश्या रूपश्रियोर्वशीव वशीकृतजगच्चेता जीवनौषधि: कोशानाम्नी बभूव । तस्या गृहे तन्मना: स्थूलभद्रो द्वादशवर्षाणि दिवानिशं विविधान् भोगान् भुञ्जानो न्यवात्सीत् । नन्दराजस्य द्वितीयहृदयमिव विश्वासपात्रं श्रीयकोऽङ्गरक्षको बभूव ।
तत्र कवीनां वादिनां वैयाकरणानां च शिरोमणिर्वररुचिनामा ब्राह्मण आसीत् । स सुधी राजानुरञ्जनेऽनुदिनं स्वकृतैर्नवन

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128