Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 76
________________ १३८ परिशिष्टपर्व - सप्तमः सर्गः १३९ minanninnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः निगृह्ये, तावत् स्वयमेव राजसमीपं यामि" । एवं विचिन्त्य स शीघ्रं नन्दसमीपं ययौ । नन्दोऽपि सानन्दस्तं गौरवास्पदं चकार । इङ्गितज्ञशिरोमणिश्च स नन्दोऽपि साकाक्षं कल्पकं ज्ञात्वा तं भृशमभ्यर्थ्योवाच-"ममाऽमात्यपदमादत्स्वे"ति । कालवित् सुधी: कल्पकः स्वापराधप्रतीकारं चिकीर्षु राजवचः स्वीचकार । प्रमुदितो नन्दोऽपि स्वमात्मानं कृतकृत्यं मन्यमानः स्वमनोमयूरमेघ कल्पकं कल्पयामास । हृदयस्य शल्यभूतांश्च स्वार्थसंशयानागतं विद्यागुरुमिवेष्टं कल्पकं पप्रच्छ । महाबुद्धिः कल्पकोऽपि तत्कृतसन्देहलोष्टपेषणमुद्रैर्वाक्यैनन्दं प्रीणयामास । तदाऽन्यायं पूत्कर्तुमागतो रजकसयो राज्ञा प्रदत्तगुरुगौरवं कल्पक ददर्श । रजकास्तथास्थितं कल्पकं दृष्ट्वा भयात् निवृत्य ययुः । यतोऽनर्थस्य प्रतीकारो राजमान्यता । महीपतिश्च प्राक्तनामात्यमपसार्य यथोचितं मुद्राकरेण्वादि कल्पकाय ददौ । तत: स सकलनृपेभ्य आसमुद्रमपि लक्ष्मीरुपायहस्तैराकृष्य नन्दाधीना अकरोत् । लक्ष्मीवशीकारमान्त्रिके तस्मिन्नेवाऽमात्ये नन्दनृपस्य लक्ष्मीनिर्झरवारिवदक्षयाऽभूत् । तस्य बुद्धिजलेन सिक्तो राजविक्रमवृक्षः सुरभीकृतभुवनं यशःपुष्पं सुषुवे । नन्दराजप्रतापाग्ने: परां वृद्धिमुत्पादयन् सचिवस्य बुद्धिप्रपञ्चो महापवनोऽनुदिनं ववौ । ___इतश्च परिभ्रष्टः पुरातनमन्त्री तटस्थोऽपि भूत इव कल्पकस्य छिद्रं गवेषयामास । स दुष्टस्तत्प्रवृत्तिजिज्ञासया कल्पकचेटी वस्त्राऽऽभरणादिभिरावर्जयितुमारेभे । साऽपि लोभाभिभूतात्मा कल्पकगृहे प्रतिदिनं क्रियमाणं कथ्यमानं च पुरातनमन्त्रिणः कथयामास । कल्पकस्य बहवः पुत्रा बभूवुः । यत: परमार्हताः प्रायेण पुत्रवन्तो भवन्ति । एकदा स एकस्य पुत्रस्य विवाहमङ्गलमारेभे । तदा तत्र सान्त:पुरं राजानं निमन्त्रयितुमिच्छन् स राज्ञः स्वागतचिकीर्षया तद्योग्यान् मुकुट-च्छत्र-चामरान् कारयितुमारेभे । तत् सर्वं तथैव कल्पकचेटी स्थानच्युतामात्याय कथयामास । "मयाऽवसरो लब्ध" इति विचार्य सोऽपि भूपं शीघ्रं व्यजिज्ञपत् । तथाहि-“हे राजन् ! अहं साम्प्रतममात्यो नाऽस्मि, नाऽपि च तव मान्योऽस्मि, तथाऽप्यहं कुलीनोऽस्मि, अतः स्वामिनो हितं वच्मि, यत् त्वत्प्रियमन्त्रिणा कल्पकेन यदारब्धं तच्छृणु । अधुना स छत्रादीन् राजालङ्कारान् कारयति । प्रभुः स्वयं ममैतत्कथनेन तदाशयं जानीताम् । यत एककणेनाऽपि बुद्धिमन्तो द्रोणपरिमिततण्डुलादेः पाकं जानन्ति । स्वामिदत्तेन ग्रासेन वर्धितोऽस्मीति तव हितमिदं वच्मि । न पुनः कल्पके स्थानापहरणप्रयुक्ता शत्रुताऽस्ति । अहं कदाचिद् मत्सरेणाऽसत्यमपि कथयामि, तथाऽपि सत्यं मिथ्या वा तदिति चरैर्विद्धि, यतो राजानश्चरदृष्टयो भवन्ति" इति । ततो राज्ञा प्रेषिताश्चराः कल्पकगृहे गत्वा तदुदितं दृष्ट्वा च राजेऽकथयन् । ततो नन्दनृपेण सकुटुम्बोऽपि कल्पकोऽन्धकूपकारायां सतिरस्कारं सद्यश्चिक्षिपे । भोजनार्थं च सपरिवाराय कल्पकाय प्रसृतिद्वयपरिमितं कोद्रवौदनं पय:कमण्डलुं च कूपेऽक्षेपयत् । कल्पकोऽत्यल्पमन्नं दृष्ट्वा कुटुम्बमिदमुवाच। अस्याऽन्नस्य कणशोऽपि विभागो दुष्करः, कवलानां तु का कथा ? यतः उदरपूर्तिः कवलशतेन भवेत्, तत्कणमात्राणि भुञ्जाना यूयं सर्वे

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128