Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
वैरष्टोत्तरशतेन वृत्तैः प्रववृते, मिथ्यादृष्टिरिति मन्त्री तं कदापि न प्रशशंस । ततस्तुष्टोऽपि राजाऽस्मै तुष्टिदानं न ददौ । तत्र वररुचिर्दानाप्रापणकारणं ज्ञात्वा तस्य मन्त्रिणः स्त्रियमाराधयितुं प्रारेभे । अन्यदिने सन्तुष्टया तया कार्यं पृष्टो वररुचिरुवाच - " तव स्वामी राजसमीपे मम काव्यं प्रशंसतु" । तदनुरोधेन तया विज्ञप्तः पतिरुवाच -“मिथ्यादृष्टेरस्य वचनं कथमहं प्रशंसामि ? तया साग्रहमुक्तो मन्त्री तद्वचस्तथा स्वीचकार । यतोऽन्ध - स्त्री - बालमूर्खाणामाग्रहोऽतिशयितो बलवान् भवति ।
१४४
ततो राज्ञोऽग्रे काव्यं पठतो वररुचेर्मन्त्रिवरोऽहो सुभाषितमिति प्रशशंस । ततो नरेशोऽष्टोत्तरशतं दीनारमस्मै ददौ। यतो राजमान्यस्याऽनुकूलया वाचाऽपि जीव्यते । प्रतिदिनमष्टोत्तरशते दीनारे दीयमाने किमेतद्दीयत इति मन्त्री राजानं विज्ञापयामास ।
राजोवाच - "हे मन्त्रिन् ! अहं च त्वत्प्रशंसयाऽस्मै ददामि यद्यहं स्वयं ददामि तर्हि पुरा कथं न ददामि ? मन्त्र्युवाच - "हे देव ! मयाऽस्य प्रशंसा न कृता । तदाऽहं परकाव्यानि प्राशंसिषम् । अयं परकाव्यान्यस्माकमग्रे स्वीकृत्य पठति" । ततो राजा किमेतत् सत्यमिति पप्रच्छ । एतत्पठितकाव्यानि पठन्तीः कन्या अपि वः प्रातर्दर्शयिष्यामि " इति मन्त्री जगाद ।
अथ मन्त्रिणः सप्त कन्या आसन्-यक्षा १ यक्षदत्ता २ भूता ३ भूतदत्ता ४ एणिका ५ वेणा ६ रेणा ७ एता सर्वा विदुष्य आसन् । तासां सर्वज्येष्ठा सकृदुक्तं धारयति स्म, इतरा यथाक्रमं द्वित्रादिवारक्रमाद् गृह्णन्ति स्म । मन्त्री ताः कन्या राजसमीपं द्वितीयदिने निनाय । स ताश्च जवनिकान्तरितास्तत्र समुपावेशयत् ।
परिशिष्टपर्व अष्टमः सर्गः
१४५
ततो वररुचिर्नित्यमिवाऽष्टोत्तरशतं श्लोकान् विरचय्य राजाग्रे जगाद । तास्तु कन्यास्तान् यथा ज्येष्ठमन्ववादिषुः । ततो वररुचे रुष्टो राजा दानं न्यवारयत् । यत: सचिवानामुपाया निग्रहानुग्रहसमर्था भवन्ति ।
ततो वररुचिर्गङ्गातटे गत्वा तज्जले यन्त्रं व्यधात् । तन्मध्येऽष्टोत्तरशतं दीनारं वस्त्रबद्धमस्थापयत् । असौ प्रात:काले गङ्गां स्तुत्वा पादेन यन्त्रमाक्राम्यत् । ततस्ते दीनारास्तत्पाणौ समुत्पत्य न्यपतन् । स एवं नित्यं चकार तेन लोको विस्मयं प्राप । तच्च राजा जनश्रुत्या श्रुत्वा मन्त्रिणे कथयामास । " यदीदं सत्यमस्ति तर्हि प्रातर्वयं स्वयं पश्यामः" इति मन्त्रिणोक्तो राजा तत्तथा स्वीचकार । मन्त्रिणा चर: शिक्षयित्वा प्रेषितस्तत्र । स शरस्तम्बविलीनः पक्षीवाऽनुपलक्षितोऽस्थात् । तदा वररुचिर्गङ्गाजले प्रच्छन्नीभूय गत्वा दीनाराष्टोत्तरशतग्रन्थि निधाय गृहं ययौ । ततश्च चरस्तदादाय वरमन्त्रिणे प्रच्छनं समर्पयामास ।
अथ मन्त्री रात्रौ व्यतीतायां गुप्तगृहीतदीनारग्रन्थिर्भूपेन सह गङ्गां ययौ । तदा वररुचिरपि गङ्गामागच्छत् । ततो मूढो वररुचिर्द्रष्टुकामं राजानं दृष्ट्वोत्कृष्टमानी गङ्गां सविस्तरं स्तोतुं प्रावर्तत । यदा वररुचिः स्तवान्ते पादेन यन्त्रमचालयत् तदा तदञ्जलौ दीनारग्रन्थिरुत्पत्य नाऽऽपतत् । ततः स गङ्गाजले करेण ग्रन्थिमन्वेषयामास । स तं ग्रन्थिमपश्यंस्तूष्णीकोऽस्थात् । यतो धृष्टो धूर्तो मौनभाग् भवति । तदा मन्त्रीत्युवाच - " किं तेऽद्य जाह्नवी न्यासीकृतमपि द्रव्यं न ददाति पुनः पुनरन्वेषयसि उपलक्ष्येदं स्वद्रव्यं गृहाण " इति कथयन् स वररुचिहस्ते दीनारग्रन्थिमर्पया

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128