Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 74
________________ १३४ परिशिष्टपर्व - सप्तमः सर्गः १३५ Anmunnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnilnnnnnnnnnnnnnnnnnnnnnnnnnnnnnina त्रिषष्टिशलाकापुरुषचरितम्-ग माकपचरितम-गद्यात्मकसारोद्धारः प्रभावितः स कपिलस्तस्यामेव रात्रौ श्रावकोऽभूत् । अथाऽऽचार्याः स्वैरवृत्तितयाऽन्यत्र विजहुः । ___अन्यदा वर्षाकाले जैनीभूतेन तेन ब्राह्मणेनाऽनुज्ञाताः तद्गृहे केचिदाचार्याः तस्थुः । अन्येद्युः कपिलस्य ब्राह्मणस्य पुत्रमुत्पेदे । स जातमात्र एव व्यन्तरीभिराक्रान्तः । मुनिभिः कल्पमानपात्राणामधोभागे श्रद्धालुना तेन ब्राह्मणेन स पुत्रो दधे । तेषां महाप्रभावाणामृषीणां पात्रजलेनाऽभिषिक्तं बालं व्यन्तर्यः शीघ्रं मुमुचुः । तदा कपिलः श्रावको मुनिपात्रजलसिक्तस्य नीरोगस्य बालकस्य 'कल्पक' इति नाम चकार । तत्प्रभृति तद्गृहे व्यन्तरीदोषः कदाऽपि नाऽभूत् । ततश्च कपिलः पुत्रसन्तानसमृद्धोऽभूत् । क्रमयोगेन मृतपितृक: कल्पकः पुरे एकः समस्तविद्यास्थानज्ञः कीर्तिपात्रमभूत् । स गर्भश्रावकत्वेन सर्वदा सन्तोष्यधिकपरिग्रहेच्छामपि न चकार । कुलीना रूप-लावण्यवतीरपि कन्या: प्रार्थ्य दीयमाना अपि न परिणिनाय । कल्पको वटुवृतः पुरे परिभ्रमन् पौरजनानामादरणीयोऽभवत् । यतो 'विद्वान् सर्वत्र पूज्यते' । इतश्च तस्य कल्पकस्य गमना-ऽगमनमार्गे एको ब्राह्मणो न्यवसत् । तस्यैका कन्याऽजनि । अत्यन्तरूपवतीमपि तां न कोऽप्युपायंस्त । यतस्तस्या रूपलक्ष्मीर्जलोदररोगेण दूषिताऽऽसीत् । तेन हि रोगेन जलभृतदृतिप्रायं तस्या उदरमजनि । तेन सा कन्याऽपि गर्भिणीवेतस्ततश्चक्रमणेऽप्यक्षमा जाता । तादृश्यपि च सा लतेव समये पुष्पवत्यभूत् । ततश्च विषण्णा तन्माता तत्पितुः कथयामास । तच्छ्रुत्वा ब्राह्मणो भार्यामूचे-"अयमावयोर्दोषो यतः सा नोद्वाहिता" । कन्याऽप्येषत॒मत्यभूत् । अस्याः परिणेत्रभावाद् रजोधर्मे व्यर्थीभूते आवयोभ्रूणहत्यापापमुपस्थितमिति किं कुर्मः ? इमां जलोदरिणी कोऽपि न वृणुते । तस्माद् वाक्छलेन मोहयित्वा कस्मैचिदेषा कन्या दातव्या । वाक्छलेनाऽपि कल्पकं विहायाऽन्यः कोऽपि नरो न ग्राह्यः । स एकः सत्यप्रतिज्ञोऽस्ति, अतस्तदर्थमेव प्रयतामहे । ततस्तेन ब्राह्मणेन स्वगृहाग्रे एका कूपिकाऽखानि । कल्पकागमनकाले च सा कन्या तत्र न्यक्षेपि । पुनः कल्पकमागच्छन्तं दृष्ट्वा स ब्राह्मणो पूच्चकार-“यो मे पुत्री कूपिकात उद्धरिष्यति, तस्मायेव वराय कन्यामहं दास्यामी"ति । दयालुः कल्पकोऽपि तत्पितुरुत्तरां वाचमश्रुत्वैव शीघ्रमेव तां कन्यां कूपिकात आचकर्ष । ततस्तत्पितोवाच-"त्वमिमां कन्यां परिणय । यतः कूपिकात उद्धारकाय मयैषोच्चैः प्राक्कल्पिता, त्वं चैतस्याः तदनिषेधेनैवोद्धारे प्रवृत्त इति तवैतदनुमतमेव, यतो “अनिषिद्धं वस्त्वनुमतं भवती"ति न्यायो वर्तते । विद्यास्थानानां विधातेव त्वं, न्यायविज्ञशिरोमणिरसि । पुनश्च सत्यप्रतिज्ञोऽप्यसि । अतो हे भ्रातर् ! यदुचितं तत् कुरु इति । कल्पकोऽचिन्तयत्-'अनेन बुद्धिप्रभावेण छलितोऽहमस्मि, कि करोमि ?' इति । एवं बहु विचिन्त्य स्त्रियं परिणेतुमकामयमानोऽपि तामुद्वोढुं स्वीचकार । अथ कलाकलापसमुद्रागस्तिः स कल्पकः आयुर्वेदोक्तौषधैस्तां नीरुजं कृत्वा परिणिन्ये । ___अथ नन्दनृपः कल्पकं पण्डितं मतिमन्तं श्रुत्वा तमाहूय "ममाऽमात्यो भवे"ति प्रार्थयामास । कल्पको राजानमुवाच"राजन् ! ग्रामवस्त्रादधिकमन्यत्परिग्रहमहं नेच्छामि । किं च

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128