Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 72
________________ १३० परिशिष्टपर्व - षष्ठः सर्गः १३१ mnnnnnnnnnnnnnnnnnnnar त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः धर्तुं वारयितुं वा प्रचक्रमे, अत एव तप:क्षामशरीरः सूरिर्दुरात्मना तेन तथा कुर्वन् भूतले नृप इव निपातितः । विनयच्छलेन स सूरिरपि तेनाऽवञ्चि । तत एव स सूरिस्तस्मै दुष्टाय दीक्षां ददौ । यतो धूतैः को न वञ्च्यते ? केऽपि नृपभटा: निशि नष्टं तं न प्रापुः । यत:-'य: क्रमेणाऽपि त्यक्तः स क्रमशतेनाऽपि त्यक्तः' । तदनन्तरं प्रधानपुरुषा अश्रूणि मुञ्चन्तो राज-सूर्योः शरीरसंस्कार चक्रुः। इतश्च स दुष्ट उदायिघातक उज्जयिनी पुरीं प्राप्तवान् । यथा चोदायिनृपतिर्हतस्तथैव राजे न्यवेदयच्च । तच्छ्रुत्वाऽवन्तीपतिरुवाच-"रे पाप ! यस्त्वमियता कालेन परिव्रज्यां गृहीत्वाऽपि मुनिनिकटे स्थित्वाऽपि अहर्निशं धर्मोपदेशान् श्रुत्वाऽपि दुष्टधीरीदृशं कर्माऽकार्षीः ? स त्वं मे हितः कथं भवेः ? त्वमद्रष्टव्यमुखोऽसि, शीघ्रमितोऽपसर" इत्येवं राजा तं बहु निर्भय॑ स्वनगराद् निरवासयत् । तत्प्रभृत्येवाऽभव्यशिरोमणिः स जगत्युदायिमारक इति ख्यातोऽभूत् । नन्दस्य राज्याभिषेकः अथ तस्मिन्नेव नगरे एकस्य नापितस्य वेश्याकुक्षिजातो नन्दाभिधानः पुत्रोऽजनि । स नापितकुमारः प्रात: स्वप्ने स्वैरन्त्रैः परिवेष्टितं पाटलिपुत्रं ददर्श । तद् दृष्ट्वा प्रबुद्धः स नन्द उपाध्याय तं स्वप्नं पप्रच्छ । तद्विज्ञः उपाध्यायोऽपि तं स्वगृहे निनाय । स प्रसन्नो नन्दं भूषणादिभिर्भूषयामास । स्वकन्यां तेन परिणाययाञ्चकार च । उपाध्यायो नवीनं जामातरं तं नन्दं शिबिकायामधिरोप्य पुरे परिभ्रमयितुमारेभे । अत्राऽन्तरे मन्त्रिभि"रुदायी पुत्रगोत्रहीन: परलोकमगादि"ति तत्स्थाने को राजा भवेदिति परीक्षणार्थम् पञ्चदिव्यानि अभिषिक्तानि । एक: पट्टहस्ती, द्वितीयः प्रधानाश्वस्तृतीयं छत्रं, चतुर्थः कुम्भः, पञ्चमं चामरद्वयमिमानि पञ्चरत्नानि दिव्यानि अखिले राजकुले भ्रेमुः । ततस्तानि दिव्यानि राजकुलाद् बहिर्जग्मुः । तैश्च शिबिकास्थोऽसौ नन्दोऽदर्शि । तदा शारदमेघवद् गर्जितः पट्टहस्ती शुण्डमुत्थाप्य पूर्णकुम्भेन नन्दं सद्योऽभ्यषिञ्चत् । तमुत्थाप्य च सद्यः स्वस्कन्धेऽध्यरोपयत् । अश्वो हर्षाद् मङ्गलं प्रस्तुवन्निवाऽहेषत। छत्रं च प्रभाते कमलमिव सद्यो विकसितमभूत् । स्फुरायमाणौ चामरौ नृत्यन्ताविवाऽलुठताम् । ततः प्रधानपुरुषैः पौरैः जनपदेन च नन्दस्याऽभिषेकमहोत्सवः सानन्दं चक्रे । वर्धमानस्वामिनिर्वाणदिनात् षष्टिवत्सर्यां व्यतीतायां नन्दो राजाऽभूत् ।। ततः केचित् सामन्ता गन्धितबुद्धयो "असौ नन्दो नापितपुत्र" इति हेतोस्तं न नेमुः । नन्दोऽपि तेषां मनोभावं परीक्षितुमप्रकटितस्वाभिप्राय: सन् राजसभातो बहिभरि शालाया हस्तीव निर्ययौ । माता धात्री बालभृद् वा बालेन सहाऽपि गच्छत्येव, नन्देन समं तु कोऽपि नाऽगात् । ते सामन्ताः यथावस्थितमेव तस्थुः । पुना राजसभायामागत्य सिंहासने समुपविश्य च नन्दः स्वारक्षकान् जगाद-“हे आरक्षकाः ! युष्माभिरमी निहन्यन्तामि"ति । किन्तु ते आरक्षका अपि परस्परं चक्षुरेव ददृशुः, भूताविष्टस्याऽवलोकनादिव सोपेक्षं स्मितं नाटयामासुश्च । नन्दश्च आरक्षकानपि तत्सम्बन्धिनो विज्ञाय सभाद्वारद्वा:स्थौ पुत्तलको शीघ्रं ददर्श । कयाचिद् नन्दपुण्याकृष्टदेव्याऽधिष्ठितौ तौ

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128