Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धार:
तत्र गतश्च सोऽवन्तीनरेशमसेवत् । अवन्तीपतिरपि उदायिनो नित्यमसहनोऽभूत् । सेवकः स राजपुत्रस्तमवन्तीपतिमुवाच - "देव ! अहमुदायिनं तवाऽऽज्ञया साधयिष्यामि । त्वया ममाऽव्यभिचारिणा सहायकेन भाव्यम् । यतः को निजप्राणांस्तृणीकृत्य व्यर्थं साहसं कुर्यात्”, तथेति स्वीकृतवत्यवन्तीनाथे स राजपुत्रः पाटलिपुत्रमुपेत्योदायिनः सेवकोऽभूत् । स दुरात्मा नित्यं पश्यन्नपि उदायिनृपस्य छिद्रं मान्त्रिकं व्यन्तर इव न प्राप । स परमार्हतस्योदायिनो गृहे सदाऽस्खलद्गमनान् जैनमुनीनेव ददर्श ।
१२८
अथ स उदायिनो राजकुले प्रवेशमाकाङ्क्षन् एकस्य सूरे: सन्निधौ परिव्रज्यामग्रहीत् । सकपटं चाऽनतीचारं व्रतं पालयन् मुनींस्तथाऽऽराधयाञ्चक्रे यथा ते मुनयस्तन्मयतां प्रापुः । तस्य दम्भप्रधानं श्रामण्यं नाऽलक्षि । यतः सुप्रयुक्तस्य कपटस्याऽऽन्तं ब्रह्माऽपि न गच्छति ।
अथोदायी प्रत्यष्टमी - चतुर्दश्यां पौषधं गृह्णाति स्म । सूरयश्च तत्समीपे धर्मकथार्थं निवसन्ति स्म। एकदा पौषधदिवसे विकाले सूरयो राजकुलं प्रतिचेलुः । स कपटश्रमणश्चाऽपि प्राप्तविश्वासानां सूरीणामाज्ञया तदुपकरणानि गृहीत्वा भक्तिनाटितकं कुर्वन् छलं मनसि सन्धाय सह चलितवान् । उदायिनं जिघांसुश्च चिरगोपितां कङ्कमय कर्त्तरिकां गृहीत्वा प्रच्छन्नं धारयामास । चिरप्रव्रजितस्याऽस्य शमः परिपक्वो भवेदिति विश्वस्तः सूरिस्तेनैव सह राजकुलं ययौ ।
तत्र राजकुले च सूरिर्धर्मं व्याख्यायाऽस्वपत् । राजाऽपि स्वाध्यायखिन्नो महीतलं प्रतिलिख्याऽस्वपत् । स पुनर्दुरात्मा
परिशिष्टपर्व षष्ठः सर्गः
१२९
मायाश्रमणः जाग्रदेव तस्थौ । यतो रौद्रध्यानवतां नृणां भीतेव निद्रा नाऽऽगच्छति। प्राप्तावसरश्च स कपटसाधुः सुप्तस्य राज्ञो गलकन्दले लोहमयीं यमजिह्वासमां तां कर्त्तरिकां निचिक्षेप । तया च कर्त्तरिकया कदलीकाण्डकोमलो राज्ञः कण्ठोऽकर्त्ति । ततो घटकण्ठाज्जलमिव रक्तं निर्ययौ । स च पापीयान् कायचिन्ताच्छलेन तदैव ततो निर्जगाम । यामिकैरपि यतिरिति न जल्पितः ।
इतश्च राज्ञस्तेन शोणितेन सिक्ताः प्रबुद्धाः सूरयोऽपि निर्नालकमलमिव कृत्तं राजमूर्धानमद्राक्षुः । तच्च कपट श्रमणम पश्यन्निदमचिन्तयन्–“तस्यैव कपटव्रतिन इदं कर्म भवेत्, यतोऽत्र सम्प्रति स न दृश्यते । रे दुष्ट ! किमकार्यमकार्षीः ? यदयं धर्माधारो नृपतिस्त्वया निहतः अथ च प्रवचनस्याऽपि मालिन्यमधाः । यस्मादयं दुष्टो मया दीक्षितः स्वेन सहाऽऽनीतस्तस्माद् मत्कृतं प्रवचनमालिन्यमागमत् । तस्मादहं दर्शनम्लानिं स्वघाताद् अपनुदामि । राजा गुरुश्च केनाऽपि हताविति लोकवाग् लोके प्रथताम् " । तदेवं निश्चित्य सूरिर्भवचरमप्रत्याख्यानं कृत्वा तां कर्त्तरिकां कण्ठे न्यस्य पञ्चत्वमगमत् ।
अथ प्रातःकालेऽन्तः पुरशय्यापालिकास्तत्राऽऽगता: तदमङ्गलं दृष्ट्वा वक्षस्ताडयन्त्यः पूच्चक्रुः । तदा सर्वो राजपुरुषादिर्मिलितोऽचिन्तयत्-“राजा गुरुश्च क्षुल्लकेन निहतावत्र न सन्देहः । हन्ताऽन्यो यदि, तर्हि स क्षुल्लक एव प्रथमं कथयेत् ? अत एव महासाहसं कृत्वा स पलायाञ्चक्रे । वैरी वा वैरिपुत्रो वा वैरिणा प्रेषितो वा कोऽपि कपटव्रतीभूय विश्वस्तं राजानमवधीत् । सूरिर्नृपस्य पिता इव, राजाऽपि सूरेः पुत्र इवाऽऽसीदिति सूरिणा स

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128