Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 69
________________ १२४ परिशिष्टपर्व - षष्ठः सर्गः १२५ Anamnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnine mnnnnnnnnnnnnnnnnnnnar त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कथयामासुः-"यद्यत् सुखकारणं स स्वर्ग इति" । एवं पाखण्डिकथितं स्वर्गस्वरूपं पुष्पचूलिका नाऽमन्यत, यतः सा स्वप्नदृष्टस्वर्गस्वरूपाऽभूत् । ततो राज्ञा पृष्टोऽनिकापुत्रो देवस्थितिमुवाच"मनश्चिन्तितकार्याणि सिध्यन्त्येव, आरामाः कल्पवृक्षभूषिताः, वाप्यः स्वर्गपङ्कजशोभिताः, देव्यश्चित्तानुवर्तिन्यो रूपवत्य: कलाविज्ञाः, यथादिष्टकारिण आभियोगिका देवाः । तथेच्छामात्रेण मनोहरसङ्गीतनाटकाभिनयोत्सवाः । शाश्वतविमानानि च सुन्दररत्नगृहाणि । देवाश्च सदा सर्वशक्तिधारिणः । इत्थं व्यन्तरपुरादारभ्याऽऽनुत्तरविमानपर्यन्तस्थानां देवानां सुखानि न वर्णयितुं शक्यानि । ___ तच्छ्रुत्वा पुष्पचूलोवाच-"यूयं यदीदृशं जानीध्वे, तत् किं सर्वे स्वर्गाः स्वप्ने ददृशिरे भवद्भिः ?" मुनिरुवाच-"कल्याणि ! जिनागमामृतपानप्रभावाद् वयं स्वर्गसुखानि ज्ञेयान्तराणि च विद्मः"। तच्छ्रुत्वा राज्ञी 'जैनं वचनं प्रमाणमिति निश्चित्य पुनर्मुनि पप्रच्छ"भगवन् ! केन कर्मणा स्वर्गः प्राप्यते ?" सूरिरुवाच-"भद्रे ! यस्य संसारिणोऽर्हति देवे गुरौ साधौ च श्रद्धातिशय: तस्य स्वर्गप्राप्तिरत्यन्तं सुलभा" । पुनर्मुनिना चारित्रधर्मे कथिते सति सा राज्ञी लघुकर्मत्वाद् भवोद्विग्नैवमुवाच-"भगवन् ! स्वपति पृष्ट्वा तवैव पादमूले नरदेहतरुफलं व्रतं ग्रहीष्यामि" इत्युक्त्वा तमृर्षि नत्वा विसृज्य च राजानमापृच्छत् । राजाऽपीदमुवाच-"वरवणिनि ! त्वां व्रतार्थं तदाऽनुमन्ये, यदि व्रतं गृहीत्वा मद्गृह एव भिक्षामादत्से" । तथेति स्वीकृत्य स्त्रीचूडामणिर्महाशया सा पुष्पचूला याचकेभ्यः कल्पलतेव दानं ददती राज्ञा कृतनिष्क्रमणोत्सवाऽन्निकापुत्रपादान्ते दीक्षामग्रहीत् । गुर्वाज्ञावशंवदा च सा सर्वां शिक्षामग्रहीत् । यतः शुद्धात्मनामपि तपः सामाचारीप्रधानं भवति । अन्यदाऽन्निकापुत्रो भविष्यदुर्भिक्षं ज्ञात्वा गच्छं देशान्तरे प्रेषयत् । यतः स एव देशो यत्र जीविका लभ्यते । गच्छोऽपि द्वादशाब्दकमशिवं भावीति शास्त्राद् गुरूपदेशाच्च ज्ञात्वाऽन्यत्राऽगमत् । सूरयश्च जड्याबलस्य परिक्षीणत्वात् परिवारं विनाऽपि तत्रैवाऽङ्गीकृतपरीषहा अस्थुः । पुष्पचूला च प्रतिदिनं भक्त-पानादिकमन्त:पुरादानीय पित्रे पुत्रीव गुरवे भक्त्या ददौ । अन्येधुरनन्यमनसः सदा संसारनि:सारतां भावयन्त्यास्तस्याः पुष्पचूलाया अपूर्वकरणक्रमाद् गुरुशुश्रूषाप्रभावाद् मुक्तिसम्पत्तिनिदानं केवलं समुदपद्यत । एवं सत्यपि सा विशेषतो गुरोर्वैयावृत्त्यं चकारैव । उक्तश्चाऽयमर्थ आगमे"यः पुरा यस्य कृत्यं प्रयुञ्जानोऽभूत्, स केवल्यपि तस्य तत्कृत्यं प्रयुञ्जीत, यावत् स न ज्ञातो भवति" । किं च पुष्पचूला सूरिचिन्तितं सर्वं केवलज्ञानसम्पदा विज्ञाय समपादयत् । तेन च जातविस्मयः सूरिस्तामपृच्छत्-"वत्से ! त्वं ममाऽभिप्रायं कथं जानासि, यद् मच्चिन्तितं सर्वं सम्पादयसि ?" पुष्पचूलोवाच-"भवदीयप्रकृतिमहं जाने, यतो यो यस्य समीपे तिष्ठति स तस्य प्रकृति जानाति" । अन्यदा साऽऽर्यिका मेधे वर्षत्यपि पिण्डमानैषीत् । तत: सूरिः पप्रच्छ-"त्वं श्रुतज्ञाऽसि, तर्हि वृष्टौ किमिदमुचितमस्ति ?" सोवाच-“यत्र मार्गेऽचित्त एवाऽप्कायोऽभूत्, तेनैवाऽहमगमम् । तस्मादत्र विषये मम कृते प्रायश्चित्तप्राप्तिर्नाऽस्ति" । ततः सूरिणा 'अचित्ताप्कायं मार्ग त्वं कथं वेत्सी'ति पृष्टा पुष्पचूलोवाच- भगवन् ! केवलमुत्पन्नमस्ति ।

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128