Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व - षष्ठः सर्गः
१२१
mnannnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn
१२०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्नेहसागरचन्द्रं तं लेखमवाचयत् । निरन्तरक्षरन्नेत्रजलेनाऽऽसिञ्चदचिन्तयच्च-'मां धिग्धिक्, पितरौ मे विस्मृतौ, अहं विषयमग्नोऽस्मि । पुनर्मम पित्रोरीदृशी दशाऽस्ति ? अहं किं करोमि, कथं यामि ? मम पत्न्यपत्यदृश्वरी न । निजवाक्पाशबद्धस्य मे का गतिर्भविष्यति ?
तदुःखदुःखिताऽनिकाऽपि भवन्ती तन्नयनप्रमार्जनेन स्ववस्त्रं क्लेदयन्ती सद्य एवं जगाद-"केन प्रहितोऽयं लेखस्त्वन्नेत्रचन्द्रकान्तयोर्दुरिं जलं द्रावयंश्चान्द्रीं कलां कलयति । तव निष्कलापं मुखं गगनेन्दुवद् दृष्ट्वाऽश्रुपूरोऽयं दुःखजो न तु हर्षज इत्यहं निश्चिनोमि । ततः स्वकीयदुःखनिवेदनेन मामपि तत् सम्भावय । भवद्दुःखविभागधुरीणता ममाऽप्यस्तु । परं चाऽनिकापतिर्दुःखी सन् किमप्युत्तरं न ददौ, अपि तु तं लेखं स्वनेत्रजलैः स्नपयन्नेव तस्थौ। अन्निकाऽपि तं लेखमादाय स्वयमवाचयत् । तदुःखकारणं सद्योऽज्ञासीत्, न्यगदच्च-“हे आर्यपुत्र ! सर्वथा दुःखं मा कार्षीः, शीघ्रमहं भ्रातरं बोधयिष्यामि त्वदीप्सितं कारयिष्ये च ।।
सा नितरां कुपितेव स्वभ्रातरं गत्वोवाच-“हे भ्रातविवेकिन् ! इदं त्वया किमकारि ? तव भगिनीपतिः स्वकुटुम्बवियोगेन क्लिश्यते । अहमपि श्वश्रू-श्वशुरपादानां दर्शनायोत्कण्ठिताऽस्मि । तस्मात् त्वं मत्पत्तिं स्वस्थानं गन्तुमादिश । अहमपि तमनुगमिष्यामि; यतो मे प्राणास्त्वदधीनाः सन्ति । अयं वाग्बद्धः स्थास्यत्येव, अहं तु श्वशुरौ प्रणन्तुमेकाकिन्यपि यास्यामि । तदनेन किं कार्यम्," इत्याग्रहपूर्वकं मुहुर्मुहुरुक्तो जयसिंहो देवदत्तमुत्तरमथुरां प्रति प्रयातुमन्वमन्यत ।
तत: स वणिक्पुत्रस्तस्या नगर्या निर्ययौ । अन्निकाऽपि तं रात्रिश्चन्द्रमिवाऽन्वगच्छत् । तदाऽन्निकाऽतिनिकटप्रसवा गुर्वी बभूव, इति सा मार्गे एव सुलक्षणं पुत्रमसूत । अस्य सुतस्य नाम स्थविरौ पितरौ करिष्यत इति तौ दम्पती स्वमनीषया नैव चक्रुः । तदनुगामी परिजनस्तं बालं मुदा लालयन्नन्निकापुत्र इति पथि समुल्लापनेन जगौ।
अथाऽनिकापतिरुत्तरां मथुरां जगाम, तौ पितरौ ववन्दे च । ताभ्यां मूनि सोऽचुम्बि च । मम देशान्तरोपार्जनेयमुपादीयतामिति कथ्यमानः स हृष्टयोः पित्रोर्बालकं समर्पयामास । इयं वधूर्युष्माकम्, अयं च मत्पुत्रो वधूकुक्षिजातः" इति भक्तिबन्धुरया वाचा सम्बन्धं न्यवेदयत् ।
तस्य पुत्रस्य नाम पितरौ सन्धीरणेति चक्रतुः, अन्निकापुत्र इति तु लोकनाम्ना स प्रसिद्धोऽभूत् । कुटुम्बेन लाल्यमानो वर्धमानोऽनिकापुत्रश्चतुर्वर्गार्जनसुखं मध्यमं वयः प्राप । धीधनः स यौवनेऽपि तृणमिव भोगानपास्य जयसिंहाचार्यपाधै परिव्रज्यामग्रहीत् । स व्रतिवरः खड्गधारातीक्ष्णव्रतेन निजान् दारुणकर्मकण्टकान् दारयामास । सोऽतितीव्रेण तपोवह्निना कर्ममहामलं दग्ध्वा वह्निशौचांशुकमिवाऽऽत्मानमशोधयत् । क्रमेण परिणतचारित्र-ज्ञानदर्शन: स स्वगच्छकमलसूर्य आचार्यवर्यधुर्योऽभूत् ।
स मुनिर्वृद्धत्वे सपरिवारो विहरन् गङ्गातीरालङ्कारं पुष्पभद्रनाम पुरं ययौ । तत्र पुरे पुष्पकेतुनामा राजाऽभूत् । तस्य पत्नी पुष्पवती नाम्नी कामस्य रतिरिव बभूव । पुष्पवत्या युग्मजी

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128