Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
षष्ठः सर्गः श्रीयशोभद्रादिसूरिवराणां वृत्तान्तः
अथ पूरितदिग्यशाः श्रीमान् यशोभद्रसूरिरुपवासाद्यैर्विहिताहारो धरणीं विजहार । चतुर्दशपूर्वधरः सोऽर्हत्प्रणीतेन धर्मेण विश्वमन्वरञ्जयत् । तस्य मेधाविनौ भद्रबाहु सम्भूतविजयौ मुनी चतुर्दशपूर्वधरौ शिष्यौ बभूवतुः । श्रीमान् यशोभद्रः सूरिः श्रुतनिध्योस्तयोः स्वमाचार्यत्वमारोप्य परलोकं साधयामास ।
अथ जगद्भद्रङ्करो भद्रबाहुसूरिर्भुवि विहरन् क्षमाश्रमणसङ्घेन शोभमानो राजगृहं ययौ । तस्मिन् पुरे समानावस्था उद्यानवृक्षा सहैव वृद्धि प्राप्ताश्चत्वारो वणिजोऽभवन् । ते भद्रबाहुसूरिसन्निधौ जैनधर्मं शुश्रुवुः । कषायवह्निजलासारं प्रतिबोधं च लेभिरे । ते दान्तात्मानो गृहवासपराङ्मुखा श्रीभद्रबाहुपादान्ते सहैव प्राव्राजिषुः । तीव्रं तपस्तप्यमाना उपार्जितबहुश्रुता महीतले युगमात्रदत्तदृष्टयो विहरन्तः प्रियां तथ्यां मितां वाचं वदन्तः कुक्षिपाथेया नि निर्ममाः साम्यशालिनः सन्तुष्टा धर्मोपदेशतत्पराः करुणारससागरास्ते सरसि हंसा इव गुरुहृदि विविशुः । गुर्वनुज्ञयैकाकिविहारप्रतिमाधरास्ते भूयो राजगृहनगरं प्रापुः । तदा तत्र हिमर्तुर्भृशमभवत् ।
अथ तत्र तृतीये दिनप्रहरे भिक्षां कृत्वा निवृत्तास्ते वैभारपर्वतसमीपं गन्तुमुपचक्रमिरे । गच्छतां तेषां पर्वतगुहाद्वारे नगरारामे
परिशिष्टपर्व षष्ठः सर्गः
११७
आरामान्तिके पुरसमीपे च क्रमाच्चतुर्थ: प्रहरोऽभूत् । भिक्षां गमनं वा तृतीययामे कुर्वीत' इति हेतोस्ते तुर्ययामे प्रतिमाधरास्तत्रैव तस्थुः । यो गिरिगुहाद्वारेऽतिष्ठत् तस्याऽत्यन्तं शीतमजायत । य उद्याने तस्थौ तस्य तदपेक्षया किञ्चिद् मन्दं शीतमभूत् । य उद्यानसमीपे तस्थौ तस्य तदपेक्षया मन्दं शीतमभूत् । यस्तु पुरसमीपेऽस्थात् तस्य तु पुरोष्मणाऽत्यल्पतरं शीतमभूत् । चत्वारोऽपि श्रमणाः क्रमात् प्रथम-द्वितीय-तृतीय- चतुर्थप्रहरेषु शीतेन विपद्य स्वर्गं ययुः ।
उदायीनृपवृत्तान्तः
इतश्च चम्पानगर्यां श्रेणिकात्मजे कूणिके राज्ञि पञ्चत्वं गते तत्सुत उदायी नाम राजाऽभूत् । दुर्दिनेन चन्द्र इव निगूढतेजा पितृमरणशोकेनाऽऽक्रान्तः स राज्येऽपि प्रमोदं न प्राप । स कुलामात्यानुवाच - " अत्र समस्ते पुरे पितृक्रीडास्थानानि पश्यतो मे मनो व्यथते । सैवेयं सभा, यस्यां मे पिता क्षणे क्षणे मां क्रोडादपरित्यजन् सिंहासनमध्यास्त । इहाऽक्रीडत्, इहाऽरंस्त, इहाऽशेत मम पितेति सर्वत्र जलचन्द्रवत् पश्यामि । तातपादानग्रे स्थितानिव पश्यतो राजचिह्नधरस्य मे सुखमपि सदाऽस्तोकशोकः शल्यमिव दुःखाकरोति च ।
बहुदृष्टा बहुश्रुता अमात्यास्त अपि तु वाचंयमा इव शोकशङ्कुच्छिदा वाचा प्रोचुः- “इष्टवियोगेन कस्य शोको न स्यात्" । भवता स शोको भुक्तान्नवज्जरणीयः, अन्यथा ते लज्जा स्यात् । यह पुरे वसतस्ते शोकः स्यादेव, तस्मादन्यद् नगरं हे राजंस्त्वं निवेशय । तव पिता कूणिकोऽपि प्राग् राजगृहं पुरं विहाय पितृशोकेनेमां चम्पानगरीमकारयत् " । तत उदायी राजाऽपि नैमित्तिकवरानाहूय पुरनिवेशयोग्यं स्थानमन्वेषयितुमादिदेश ।

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128