Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
Hamannmannnnnnnnnnnmmmmmmmmmmmmmmmm
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्वशरीरेऽपि निःस्पृहो विद्वान् यद्यपुनर्भवमिच्छेदात्मारामो भवेत् । अहिंसा-सूनृता-ऽस्तेय-ब्रह्मचर्या-ऽकिञ्चन्य[अपरिग्रह] रूपैः पञ्चभिव्रतैर्भवादात्मानमुद्धरेत् ।
शय्यम्भवस्तत्त्वं ज्ञात्वा सद्यो भवोद्विग्नोऽभूत् । तत: स प्रभवस्वामिपादान् नत्वैवं विज्ञपयाञ्चकार । ममाऽसद्गुरुवचनेनाऽतत्त्वे तत्त्वबुद्धिश्चिरमभूत् । यतः पीतोन्मत्तो मृत्पिण्डमपि स्वर्णमेव पश्यति, तस्माज्ज्ञाततत्त्वस्य मे भवकपे निपततो हस्तावलम्बनसमा दीक्षा दीयताम् ।
ततः प्रभवस्वामी संसारशत्रुभीतं तं शय्यम्भवद्विजोत्तमं परिव्राजयामास । स महाशयस्तपस्यन् परीषहेभ्यो नाऽभैषीत्, प्रत्युत दिष्ट्या कर्म क्षिपामीति परमोत्साही बभूव । स तुर्य-षष्ठा-ऽष्टमादीनि दुष्कराणि तपांसि तपनवत् तेजोभिरतिभासुरस्तेपेतराम् । स गुरुशुश्रूषां कुर्वाणो गुरुप्रसादत: क्रमेण चतुर्दशपूर्वधरोऽभूत् । ततः प्रभवस्वामी श्रुतज्ञानादिना स्वतुल्यं रूपान्तरमिव तं स्वपदे संस्थाप्य परलोकं साधयामास ।
* * * शय्यम्भवो यदा पर्यव्राजीत् तदा सर्वो लोकस्तत्पत्नीं युवति दृष्ट्वाऽनुशोचन्निदमुवाच-"अहो ! शय्यम्भवो भट्टो निष्ठुरशिरोमणिः, यः स्वां भार्यां युवति सुशीलामपि तत्याज, स्त्रीगणः पति विना पुत्राशयैव जीवति, अस्याः पुत्रोऽपि नाऽजनि, तत्कथमियं निर्वक्ष्यति" । लोकस्तामपृच्छत्-“हे शय्यम्भवप्रिये ! तवोदरे काऽपि गर्भसम्भावनाऽस्ति ? साऽपि 'मनाक्' इति कथनीये 'मणयं' इति प्राकृतभाषया जगाद । तदा हि साऽल्पगर्भाऽऽसीत् । तस्या गर्भः
परिशिष्टपर्व - पञ्चमः सर्गः प्रत्याशेव शनैः शनैर्ववृधे । पूर्णे समये तन्मानससमुद्रचन्द्रः पुत्रोऽजनि । तदानीं ब्राह्मण्या 'मणयं' इत्युत्तरं कृतमिति तस्याऽपि सुतस्य नाम 'मणक' इत्यभूत् । स्वयं मात्रा स्वयं धात्र्या ब्राह्मण्या पाल्यमानः स बालकः क्रमेण पादचङ्क्रमणसमर्थो बभूव ।
सोऽतीतेऽष्टमवर्षे मातरं पप्रच्छ-"हे मातर्मम पिता क्व नामाऽस्ति ? यतस्त्वं वेषेणाऽविधवाऽसि" | माताऽपि कथयामास"हेऽर्भक ! तव पिता यदा प्रवव्राज तदा त्वमुदरस्थ आसी: । मया पालितोऽसि । हे आयुष्मन् ! त्वं यथाऽदृष्टपूर्वी पितरमसि, तथा तव पिताऽपि त्वामदृष्टपूर्वी विद्यते किल । तव पिता याज्ञिक: शय्यम्भवनामाऽभवत् । स कैरपि धूर्तश्रमणैः प्रतार्य पर्यव्राज्यत" ।
ततः शय्यम्भवर्षेः पितुर्दर्शनायोत्कण्ठितोऽसौ बालको निजजननी छलयित्वा गृहाद् निर्जगाम । तदा शय्यम्भवाचार्यो विहरन् चम्पायामासीत् । बालोऽपि पुण्यराशिनाऽऽकृष्ट इव तत्रैव ययौ । कायचिन्तादिना पुरपरिसरे गच्छन् सूरिर्दूरादायान्तं कमलनयनं बालमपश्यत् । तं बालं पश्यतः शय्यम्भवस्य चन्द्रं समुद्रस्येव स्नेहातिशयेनाऽधिकतर उल्लासो बभूव । बालकोऽपि तं मुनिचन्द्र दूराद् दृष्ट्वा सद्यः कुमुदकोषवत् प्रफुल्लमुखोऽभूत् । ___आचार्योऽपि परमहर्षितस्तं बालं पप्रच्छ-"त्वं कोऽसि ? कुत आयासि ? कस्य वा पुत्रः ? कस्य वा पौत्रोऽसि ? स बालोऽभिदधे-"अहं राजगृहादागतोऽस्मि, वत्सगोत्रब्राह्मणस्य शय्यम्भवस्य पुत्रोऽस्मि, मम गर्भस्थितस्य पिता प्राव्राजीत् । तमन्वेषयितुं पुरात् पुरं बम्भ्रमीमि, यदि शय्यम्भवं मे पितरं भवन्तो जानते तर्हि पूज्यपादाः प्रसद्य स क्वाऽस्ति? इति वदन्तु । यद्यहं पितरं द्रक्ष्यामि तदा तत्पादपार्श्वेऽहमपि परिव्रजिष्यामि । तस्य या गतिः सा मेऽपि ।

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128