Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 62
________________ ११० परिशिष्टपर्व - पञ्चमः सर्गः त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः mmmmmmmmmmmmmmmmmmmmmmmm होमद्रव्यपूर्णानेकपात्रमृत्विग्गणावृतं सामिधेन्यर्पणतत्पराध्वर्यु यज्ञवाट गुर्वनुज्ञातौ तौ मुनी जग्मतुः । ___ अथ तौ मुनी भिक्षामदित्सुभिर्विप्रैर्विसृष्टौ गुरूपदिष्टमहो कष्टमित्यादि तारस्वरेण पेठतुः । तस्मिन् यज्ञे दीक्षित: शय्यम्भवाख्यो द्विजो यज्ञवाटद्वारदेशस्थित: तयोर्वचनमिदं शुश्राव । सोऽचिन्तयच्च-"इमे साधव उपशमप्रधानाः सन्तीति मिथ्यावादिनो नेति मे मनस्तत्त्वे शंसेते" इति सन्देहदोलारूढेन मनसा सुधीवरः स किं तत्त्वमित्युपाध्यायं पप्रच्छ । तत उपाध्यायस्तत्त्वमुवाच-स्वर्गमोक्षदा वेदास्तत्त्वं, वेदेभ्योऽन्यत् तत्त्वं नाऽस्तीति तत्त्वज्ञा विदुः । ततः शय्यम्भवोऽवोचत्-“यज्ञादिदक्षिणालोभाद् वेदास्तत्त्वमिति वदंस्त्वं मादृशान् नूनं प्रतारयसि । एते महर्षयो वीतद्वेषा वीतरागा निर्ममा निष्परिग्रहाः शान्ताश्चेति क्वचिद् मिथ्या न वदन्ति । त्वं गुरुर्नाऽसि, यत एतद् विश्वमाजन्म त्वया वञ्चितम् । हे दुराशय ! प्रत्युत त्वमद्य शिक्षणीयोऽसि । भो एवंस्थितेऽपि यथास्थितं तत्त्वं प्रतिपादय, नो चेत् तव शिरश्छेत्स्यामि, दुष्टनिग्रहे हत्या न दोषाय" इति स कोपात् खड्गमाचकर्ष । ततः स उपाध्यायमृत्युवाचनायात्तपत्र: साक्षाद् यम इवाऽलक्ष्यत । उपाध्यायोऽपीदं दध्यौ-"एष मां जिघांसुरस्ति, अतो यथास्थिततत्त्वकथनेऽयं समय उपस्थितः । इदमस्माकं वेदेष्वपि पठ्यते, तथाऽस्माकमाम्नायोऽप्ययं-"कथ्यं यथातथं तत्त्वं शिरच्छेदे हि नाऽन्यथा" । तस्मादस्मै यथातथं तत्त्वं शीघ्र प्रकाशयामि; यथाऽहं जीवामि, यतो-"जीवन्नरो भद्राणि पश्यति" । इति स्वभद्रं ध्यायन्नुपाध्यायः प्रोवाच-"अस्य यूपस्याऽधस्तादर्हतः प्रतिमा न्यस्ता वर्तते । अत्राऽधः स्थितैवाऽर्हतः प्रतिमा प्रच्छन्नं पूज्यते । तत्प्रभावेणा ऽस्माकमिदं यज्ञादिकर्म निर्विघ्नं सम्पद्यते । अर्हत्प्रतिमां विना महातपाः सिद्धपुत्रः परमार्हतो नारदो यज्ञमवश्यं विनाशयति । तत उपाध्यायो यूपमुत्पाट्य यथास्थितां तामहत्प्रतिमां दर्शयित्वेदमुवाच-“यस्य श्रीमदर्हत इयं प्रतिमा, तत्कथितो धर्मस्तत्त्वं, यज्ञादि तु विडम्बना वर्तते । श्रीमदर्हत्प्रणीतो जीवदयारूपो धर्मः, पशु-हिंसात्मके यज्ञे का धर्मसम्भावना ? एवं वयं महीयसा दम्भेन जीवामः । त्वं तत्त्वं विद्धि । मां मञ्च; त्वं परमाहतो भव । मया स्वोदरपूर्तये चिरं प्रतारितोऽसि । हेऽनघ ! अतः परं तवोपाध्यायोऽहं नाऽस्मि । शय्यम्भवोऽपि तं यज्ञोपाध्यायं प्रणम्योवाच-त्वं मम यथार्थतत्त्वप्रकाशनादुपाध्यायोऽस्येव, इति परमसन्तुष्टः शय्यम्भवस्तस्मै स्वर्ण-ताम्रपात्रादियज्ञोपकरणं ददौ । स्वयं तौ महर्षी गवेषयन् शीघ्रं निर्जगाम । तत्पदैरेव श्रीप्रभवस्वामिसमीपं ययौ । स प्रभवस्वामिपादान् सर्वान् मुनींश्च ववन्दे । तैश्च धर्मलाभाशिषाऽभिनन्दितः स उपाविशत् । कृताञ्जलिः शय्यम्भवः श्रीप्रभवस्वाम्याचार्यचरणानिदं व्यजिज्ञपत्-"भवन्तो मे मोक्षहेतुं धर्मतत्त्वं कथयन्तु"। प्रभवस्वाम्युवाच-"आदिमो धर्मोऽहिंसा, यथाऽऽत्मनि तथाऽपरस्मिन्नपि शुभोदर्कश्चिन्तनीयः, यत् प्रियं मितं तथ्यं परस्याऽबाधकं तद् वाच्यं, यतः परबाधा भवेत् तत् तथ्यमपि न वक्तव्यम् । अदत्तमर्थं न गृह्णीयाद् नित्यं सन्तुष्येत् । सन्तोषी जनो मोक्षसुखभागिवाऽस्मिन्नपि लोके सुखी । सर्वतो मैथुनं त्यजन् प्राज्ञ ऊर्ध्वरेता भवेत् । मैथुनं त्वत्र संसारविषवृक्षस्य दोहदः । सर्वपरिग्रहं मुक्त्वा

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128