Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 60
________________ १०६ त्रिषष्टिशलाकापुरुषचरितम्-गधा परिशिष्टपर्व - चतुर्थः सर्गः १०७ namannnnnnnnnna भूमिगतो मेघ इवाऽलक्षि । तथाऽऽरूढसादिनो नृत्यन्त इव वल्गन्तो मुखाग्रस्पृष्टजानवो लक्षशोऽश्वास्तं गजं प्रावतुः । तत्पुरो विजयसूचकानि तूर्यवर्याण्यनेकशो तदायुक्तैः पुरुषैः परस्परं संवलितशब्दमवाद्यन्त । तूर्याणामभित: प्रतिध्वनिभिरपौरुषेयं शब्दायमानमुद्दामं वाद्यान्तरं नभोऽभवत् । अथ सपरिच्छदो राजा श्रीसुधर्मस्वामिगणधरचरणकमलशोभितं वनोद्देशं प्राप । राजशिरोमणिः कुम्भोपरि सृणिदण्डप्रहारेण उपवेशिताद् गजाद् रज्जु गृहीत्वाऽवततार । त्यक्तपादुको दूरीकृतच्छत्रचामरो महाभुजो भूपो वेत्रिबाहुमपि विहाय वन्दारूञ्छावकान् पश्यन् उद्यद्रोमाञ्चकञ्चुकं स्वं भक्त्या साधारणजनसमं मन्यमानः श्रीसुधर्मस्वामिनं दृष्ट्वा बद्धेनाऽञ्जलिना मुकुटोपरि मुकुटीकुर्वाण: दूरादपि ववन्दे । भक्ताग्रगण्यो राजा तं नत्वा तत्पुरतस्तन्मुखदत्तदृष्टिस्तच्छिष्यपरमाणुरिवोपविवेश । ततः प्राणिकारुणिको गणधरः श्रोतृश्रोत्रामृतप्रपां धर्मदेशनामकरोत् । देशनावसाने गणभृच्छिष्यान् पश्यन् राजा जम्बूस्वामिनमुद्दिश्य परमेश्वरं पप्रच्छ-"हे भगवन् ! एतस्य महर्षे रूपं सौभाग्यं तेजश्च सर्वमप्यद्भुतं दृश्यते; तथाहि अस्य केशा यमुनातरङ्गकुटिलश्यामलाः, नेत्रे श्रवणान्तविश्रान्ते, नासा नालकमले इव, श्रवणे नेत्रसरस्तीरस्थे शुक्तिके इव, कण्ठः कम्बुसमः, वक्षस्थलं कपाटोपमं, बाहुदण्डौ सरलावाजानुलम्बिनौ दी?, मध्यदेशो मुष्टिग्राह्यः, जानुयुगलं गजबन्धनकाष्ठमिव, जङ्के हरिणीजड्यासमे, पाणिपादं कमलमिव । एतस्य रूपसम्पदं मादृशो वक्तुं किं शक्नोति ? अस्य महाभाग्यस्य सौभाग्यं वाग्गोचरतां नैति, यदेनं बन्धुवत् पश्यतो मे मनः प्रीयते । अयं महातेजाः कोऽस्ति ? तथा तेजसाऽस्य यादृशं रूपमस्ति तद् द्रष्टुं न शक्यते । अस्य महामुनेरधृष्यं चाऽभिगम्यं च तेजः, किं सूर्याचन्द्रमसोस्तेज एकत्राऽऽकृष्य पिण्डीकृतम् ? अस्य तपोनिधेस्तेज:पुज: कियत् कथ्यते, यत्पादनखकिरणानामपि विद्युद् दासीव लक्ष्यते" । श्रीज्ञातपुत्रो यथा पुरा श्रेणिकायाऽऽचष्टे तथा सुधर्मस्वामी जम्बूप्राग्भववृत्तान्तमस्मै जगाद । "राजन् ! पूर्वजन्मतपसाऽस्यैतादृशानि रूप-सौभाग्य-तेजांसीक्ष्यन्ते" । स एव परमेश्वर उवाच"राजन् ! अयमन्तिमशरीरश्चरमश्च केवली वर्तते । अस्मिन्नेव भवे सेत्स्यति" । पुन: सुधर्मस्वामिनेदमुक्तम्-"जम्बूनाम्नि शिवं गते मन:पर्यायो न भावी, परमावधिश्च न भावी, आहारकवपुर्लब्धिर्न, तथा जिनकल्पो न, पुलाकलब्धिन, क्षपकश्रेणिरोहणं न, तथा क्वचिदपि उपरितनं संयमत्रयं न, एवमग्रेऽपि हीनहीनतद्धिता भविष्यति" । राजैवं श्रीसुधर्मस्वामिवचनं श्रुत्वा तच्चरणकमले वन्दित्वा चम्पापुरीं ययौ । सुधर्माऽपि सपरिच्छदस्तत्स्थानाच्छ्रीमहावीरप्रभुपादान्तिके जगाम, तत्समं च विजहार । जम्बूस्वामिनः केवलज्ञानं निर्वाणं च श्रीसुधर्मस्वामिना पञ्चाशदब्देन व्रतं गृहीतम् । चरमार्हतः शुश्रूषा त्रिंशदब्दी चक्रे । श्रीमहावीरे मोक्षं गते गणधरवरः श्रीसुधर्मस्वामी छद्मस्थः सन् द्वादश वर्षाणि तीर्थं प्रवर्तयंस्तस्थौ । ततो द्वानवत्यब्दीप्रान्ते प्राप्तकेवलो भव्यप्राणिनो बोधयन्नष्टवर्षी पृथिवीं विजहार । निर्वाणसमये प्राप्ते सति पूर्णवर्षशतायुषा

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128