Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 58
________________ परितम-गद्यात्मकसारोद्धारः त्रिषष्टिशलाकापुरुषचरितम्-गद्या परिशिष्टपर्व - तृतीयः सर्गः । १०३ mmmmmmmmmmmmnanamannamanennnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn nanamannmmmmmmmmmmmmmmmmmmmmmmmmanane प्रभवोऽपि पितॄनापृच्छ्य तत्र समागतो जम्बूकुमारमनुगच्छन् परिव्रज्यामग्रहीत् । स प्रभवः श्रीजम्बूस्वामिचरणकमलमरालोऽभवत् । यतो गुरुणा तस्यैव शिष्यत्वेन समर्पितः । ततो जम्बूमुनिः श्रीसुधर्मस्वामिगणधरपादारविन्दमिलिन्दः दुःसहान् परीषहानगणयन् पृथिवीं व्यहार्षीत् ॥ ३ ॥ इति परिशिष्टपर्वणि स्थविराकथादिललिताङ्गकथापर्यन्तसपरिवारश्रीजम्बू-प्रभवप्रव्रज्यावर्णनात्मकः तृतीयः सर्गः ॥३॥ अथ जम्बूस्त्रियो विज्ञातदृढनिर्णया: प्रतिबुद्धाः क्षमयित्वैवं जगदु:-“हे नाथ ! त्वं स्वयं यथा निस्तरसि तथाऽस्मानपि भवाद् निस्तारय, यतो महाशया आत्मकुक्षिम्भरित्वेन न संतुष्यन्ति" । ततो जम्बूनाम्नः पितरौ श्वशुरा बान्धवाश्चोचुः-“हे जम्बूः ! त्वं साधूक्तधर्माऽसि, अतः परमस्माकं परिव्रज्या भवतु । जम्बू-प्रभवयोः प्रव्रज्या ततः प्रभवनामकश्चौरोऽप्युवाच-“हे मित्र ! अहमपि शीघ्र पितृनापृच्छ्य तव परिव्रज्यासहायो भविष्यामीह न सन्देहः" । "हे सखे ! तवाऽविघ्नमस्तु, प्रतिबन्धं मा कृथाः" इति जम्बूकुमारोऽपि प्रभवं चौरं प्रत्युवाच । ततो महामना जम्बूकुमारः प्रातःकालेऽधिनिष्क्रमणोत्सवं स्वयमुच्चैश्चकार । कल्पवित् स स्नात्वा सर्वाङ्गीणं चाऽङ्गरागं कृत्वा रत्नमयानलङ्कारान् दधौ, अयं कल्पोऽस्तीति । ___ अथाऽनादृतेन देवेन कृतसन्निधिर्जम्बूनरसहस्रेणोद्वाह्यां शिबिकामारुरोह । निनन्दन्मङ्गलवाद्यः पठन्मङ्गलपाठक उत्तार्यमाणलवणः स्वकीयमानमङ्गलः कल्पतरुरिव विश्वजनहितं दानं कुर्वाणो लोकैः प्रशस्यमानः काश्यपगोत्रजातो जम्बूः सुधर्मस्वामिगणधरचरणकमलपूतं कल्याणसम्पदास्पदं तं वनोद्देशं जगाम । स निर्ममो गणधरशोभितारामद्वारदेशे संसारादिव शिबिकामध्यादुत्ततार । तत्राऽऽपदम्बुधितारकान् सुधर्मस्वामिपादान् पञ्चाङ्गस्पृष्टभूपृष्ठः सन् गणधरतो दीक्षामिच्छुर्व्यजिज्ञपत्-“हे परमेश्वर ! भवसागरतरी प्रव्रज्यां मम सस्वजनस्याऽप्यनुकम्प्य देहि" । तदा पञ्चमगणधरोऽप्येवं प्रार्थितः सपरिवाराय तस्मै यथाविधि दीक्षां ददौ । अन्येयुः

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128