Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व - तृतीयः सर्गः
९९
९८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सत्यमस्ति?" ततः सा पुनरुवाच-“हे राजन् ! त्वं यानि कथानकानि शृणोषि तानि यदि सत्यानि तदा मयोक्तमप्येतत् सर्वं सत्यम् ?"
हे नाथ ! नागश्रिया यथैव राजा विस्मापितस्तथा त्वमपि मां कल्पितकथानकैः किं प्रतारयसि ! जम्बूरूचे-हे सर्वाः प्रियाः ! अहं ललिताङ्गवद् विषयलोलुपो नाऽस्मि ।
ललिताङ्गकथा वसन्तपुरं नाम नगरमस्ति । तत्र विभूतिमानिन्द्र इवाऽऽज्ञया कन्दर्प इव रूपवान् शतायुधो नाम राजाऽभूत् । तस्य ललिताकृतिर्देवीव ललितानाम्नी भार्या बभूव । सा सकलकलापूर्णाऽभूत् । सैकदा स्वनयने विनोदयितुं मत्तवारणमारुह्याऽधः सञ्चरन्तं जनं द्रष्टुमारेभे । विशालेन सुन्दरेण धम्मिल्लेन द्विमस्तकमिव कस्तूरीपङ्किलश्मश्रु समदं गजमिव वृषस्कन्धं विशालवक्षसं कमलतुल्यकरचरणं जात्यस्वर्णभूषितग्रीवापाणिपादं कर्पूरपूर्णताम्बूलस्फुरन्मुखसुगन्धि कामविजयपताकोपमं तिलकशोभितललाटमङ्गरागव्याजेन मूर्तमिव लावण्यं बिभ्रतं, धूपायितवस्त्रसुगन्धमेदुरीकृतपथं वपुःश्रिया लक्ष्मीदेव्या द्वितीयपुत्रमिव मार्गे गच्छन्तं युवानं कञ्चन पुरुष साऽपश्यत् । तद्रूपदर्शनोन्मत्तनयना सुनयना सा स्तब्धा तद्गतचित्ता चित्रलिखितैवाऽभूत् । सैवं दध्यौ-"यद्ययं पुमान् परस्परबाहुलताबन्धसुन्दरमालिङ्गयेत मया तदा मे स्त्रीजन्म सफलं भवेत् । यद्यहं पक्षिणी स्यां तदा स्वयं दूतीभूयोड्डीय गत्वाऽमुं भजे ।
ततस्तत्पार्श्वस्थैका चतुरा चेटी दध्यौ-"मम स्वामिन्या दृष्टिनमस्मिन् यूनि पुंसि रमते" । ऊचे सा-“हे स्वामिनि ! तव मानसमत्र यूनि रमते ? अत्र नाऽऽश्चर्य, कस्य नेत्रे चन्द्रो नाऽऽनन्दयति ? ललितोवाच-हे बुद्धिमति ! साधु साधु त्वं
मनोज्ञाऽसि । यद्यहमिमं मनोहरं नरं भजे तदा जीवामि । अयं कोऽस्तीति तावद् मां ज्ञापय । ततस्तथा कुरु, यथा सङ्गमय्याऽमुं मे वपुर्निर्वापयसि" ।
सा चेटी गत्वा तत्स्वरूपं ज्ञात्वा च धैर्यपूर्वकं शीघ्रं राज्यै व्यजिज्ञपत्-“हे स्वामिनि ! अत्रैव वास्तव्यो ललिताङ्गनामाऽयं समुद्रप्रियनाम्नः सार्थवाहस्य पुत्रोऽस्ति । अयं सौभाग्यकामदेवो द्वासप्ततिकलावान् कुलीनो युवा चेति सुपात्रे ते मनो रमते । अस्याऽऽकृत्यनुसारेण गुणानपि निश्चिनु । लोकेऽपि 'यत्राऽऽकृतिस्तत्र गुणा वसन्ति' इति गीयते । यथा त्वं नारीष्वेका गुणवत्यसि तथाऽयमपि नरेषु । तस्माद् द्वयोर्गुणिनोर्योगं घटयामि, मां समादिश" । एवं कुर्विति राज्युवाच । तदर्थं तस्या हस्ते प्रेमाङ्कुरमेघजलश्लोकाएं लेखमर्पयामास ।
सा दास्यपि दूतीकर्मकुशला शीघ्रं गत्वा ललितोक्तवाचिकं ललिताङ्गाय न्यवेदयत् । तद्रिरंसायां ललिताङ्गं चटूक्तिभिः प्रवर्त्य तन्मनः प्रसादयितुं तं लेखमदात् । स सद्यः पुष्पवान् कदम्ब इव उद्यत्पुलकः प्रेमप्रकाशकं तं लेखं वाचयामास । तद्यथा
हे सुभग ! यदवधि त्वामपश्यं तदादि वराकी त्वन्मयं सर्वं पश्यामि, तस्माद् मां स्वयोगेनाऽनुगृहाण । स इति तं लेखं वाचयित्वाऽवदत्-“हे चतुरे ! साऽन्तःपुरवासिनी क्व? कथं नौ योग: संभाव्यते ? न ह्येतद् हृदि धर्तुं शक्यते, ध्रियते चेत् तर्हि वक्तुं न शक्यते, यद् राजभार्यया रंस्ये । यदि भूमिस्थेन चन्द्रकला स्प्रष्टुं शक्यते, तदा राजपत्न्यप्यन्यपुरुषैर्भोक्तुं शक्यते" ।
दास्युवाच-"असहायस्य सर्वमपि दुष्करं, तव त्वहं सहायाऽस्मि । अतो हे सुन्दर ! चिन्तां मा कृथाः, त्वं

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128