Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
चतुर्थः सर्गः सुधर्मस्वामिगणधरस्य चम्पायामागमनम् एकदा गणधरः श्रीसुधर्मा जम्बूस्वाम्यादिशिष्ययुतो भुवि विहरंश्चम्पानगरी जगाम । उद्भूतधर्मकल्पतरुसमः परमेश्वरो गणधरः स नगरपरिसरारामे समवासरत् । ततस्तं वन्दितुं नगरलोका भक्त्या हर्षितहृदया गन्तुं प्रावृतन् । झणझणशब्दयुतनूपुरा काश्चित् नार्यः पादचारेण श्लथधम्मिल्लस्थपुष्पमाल्याः जग्मुः । काश्चिच्च नार्यः पतिभिः सह रथमारुह्य शीघ्रं शीघ्रं रथान् चालयामासुः । काश्चिच्छ्राविकास्त्यक्तान्यकर्माणो कपियुतवृक्षा इव कट्यारोपितबाला गृहाद् निर्जग्मुः । केऽपि महेभ्याश्चलत्कुण्डला अश्वारूढा धवलच्छत्रैदिवं पुण्डरीकिणीं कुर्वाणा निर्जग्मुः । शीघ्रं गच्छतां श्रीमतां परस्परसङ्घर्षताडनाद् निपतितैर्हारमुक्ताफलैर्मार्गभूमिर्दन्तुराऽभूत् । तदा तस्यां नगर्यां कूणिको नाम राजा गच्छतो लोकान् दृष्ट्वा वेत्रधरं पप्रच्छ
कूणिकनृपस्य वन्दनार्थं गमनम् "अद्य किं कस्याश्चिद् देव्या यात्रा पुरसमीपे वर्तते ? कस्याऽपि वा महाश्रेष्ठिन उद्यापनिकोत्सवोऽस्ति ? किं कौमुदीसमान: कोऽपि महानुत्सवः समागतः ? अथवोद्यानचैत्ये पूजाविशेषो वर्तते ?
परिशिष्टपर्व - चतुर्थः सर्गः
१०५ किं वा कोऽपि महात्मा जैनमुनिः समागमत् ? यदेषोऽखिलनगरीजन: शीघ्रं गच्छति" । तदैव वेत्रधारी विज्ञाय तवृत्तं राजानं व्यजिज्ञपत्-“हे राजन् ! इह श्रीसुधर्मस्वामी गणधरवरः समवसृतो विराजते, अयं सर्वः पुरजनस्तत्पदान् वन्दितुं याति, तवैकातपत्राद्धर्मराज्यं विजयते" ।
राजोवाच-“हे वेत्रिन् ! अयं पुरजनो धन्योऽस्ति, य: श्रीसुधर्मस्वामिवन्दने एवं त्वरते । अहो ! अहं जाग्रदवस्थोऽपि सुषुप्तावस्थतां प्रापम् । यतोऽहं गणधरदेवमपि नाऽज्ञासिषं, तस्मादहमपि गणभृच्चरणान् शीघ्रं गत्वा वन्दे । यतस्ते पवनवदप्रतिबद्धा एकत्र न तिष्ठन्ति, इति प्रफुल्लकमललोचनो राजोत्थाय चन्द्रकिरणैरिव निर्मिते धवलवस्त्रे पर्यधात् ।
अथ कर्णतलयोः स्वच्छमुक्ताकिरणसमूहपूरिते सुधाकुण्डे इव मौक्तिककुण्डले दधौ । पुनर्हदये लावण्यनदीतीरस्थां फेनरेखामिव विमलमौक्तिकं हारमालम्बयामास । भूभारधरोऽपरकल्पवृक्ष इव स राजाऽन्यान्यपि सर्वाङ्गरत्नालङ्करणानि बभार । पवनचञ्चलाञ्चलमाकाशस्फटिकधवलं तत्स्पर्शाद् नृत्यन्तमिव चोलकं पर्यधात् । सुगन्धिपुष्पमाल्यगभितं कज्जलकान्ति ग्रस्तचन्द्रवर्षतुमेघसमं धम्मिल्लं मस्तके बबन्ध ।
शत्रुवारणः स राजा भद्रकारणं भद्रवारणं सिंह इव पर्वतं निःश्रेणित आरोहत् । स भूमिवासवो गगने विद्युल्लेखामिव कराभ्यां सृणिं नर्तयन् पादाभ्यां हस्तिनं प्रेरयामास । मम निभरैः पादघातैः पृथ्वी भगुरा मा भूदिति स हस्ती कृपयेव मन्दं मन्दं गन्तुं प्रचक्रमे । ऊर्जितं गर्जन् मदजलं निरन्तरं वर्षन् स हस्ती जनेन

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128