Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व - पञ्चमः सर्गः
११५
PARMARArmananmannamanAAAAAAAAAAnan
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततः सूरिरुवाच-"अहं तव पितरं जानामि, स मे मित्रं वर्तते । हे आयुष्मन् ! शरीरेणाऽप्यभिन्नं तमिव मां जानीहि । हे शुभाशय ! तस्मात् त्वं मम सकाशे परिव्रज्यां गृहाण । पितृपितृव्ययोः को नामभेदो भवति ? ततः सूरिस्तं बालमादायोपाश्रयं जगाम । अद्य सचित्तो लाभोऽभूदिति स्वयमालोचयत् । सूरिस्तं बालं सर्वसावद्यविरतिपुरस्सरं व्रतमजिग्रहत् । सूरिरस्य कियदायुरित्युपयोगं ददौ । तत: षण्मासान् यावदस्तीति सद्योऽज्ञासीत् ।
तदा एवं शय्यम्भवमुनिश्चिन्तयामास-"अयं बालोऽत्यल्पायुरस्ति तत्कथं श्रुतधरो भवितुमर्हति ? "अपश्चिमो दशपूर्वी चतुर्दशपूर्वधरो वा केनाऽपि कारणेन श्रुतसारं समुद्धरेत्" । मणकप्रतिबोधेऽस्मिन् कारण उपस्थितेऽहमपि सिद्धान्तार्थसमुच्चयं तस्मादुद्धरामि । तदा शय्यम्भवाचार्यः सिद्धान्तसारमुद्धत्य दशवैकालिकं नाम श्रुतस्कन्धमुवाच । विकालसमये दशाध्ययनयुक्तं शास्त्रं कृतमत एव तद्दशवैकालिकमिति नाम्ना प्रसिद्धम् । निर्ग्रन्थश्रेष्ठो दयालुशिरोमणिः श्रीशय्यम्भवाचार्यवर्यस्तं मणकं तं ग्रन्थमध्यापयामास । सूरिभिराराधनादिकं कृत्यं स्वयं कारितोऽसौ मणकः षण्मासानन्तरं कालं कृत्वा दिवं जगाम ।
मणके पञ्चत्वं गते श्रीशय्यम्भवाचार्यः शारदमेघवद् नयनाभ्यामश्रुजलमवर्षत् । तदा दु:खितविस्मिता यशोभद्रादयः शिष्याः सूरि विज्ञपयामासुः-भगवन् ! किमिदं योग्यं वः ? कोऽत्र हेतुः? ततः सूरिस्तेभ्यः शिष्येभ्यः पुत्रसम्बन्धबन्धुरं मणकवृत्तान्तं जन्मत आरभ्य मरणपर्यन्तं प्रोवाच । उवाच च सूरिरिति"बालोऽयमल्पीयसा कालेनाऽपि पालितविमलचारित्रः समाधिना कालमकरोत् । अयं बालोऽपि चारित्रेणाऽबालोऽभूदिति हर्षादस्माकमश्रुपातोऽभूत्, यतः पुत्रस्नेहोऽतिदुस्त्यजो भवति ।
ततो यशोभद्रादयः शिष्या नमद्ग्रीवा ऊचुः"पूज्यवरैरादावपत्यसम्बन्धः किं नाऽस्माकं ज्ञापित: ? हे गुरो ! यद्ययं मणकक्षुल्लकोऽस्माकं पुत्र इति गुरुपादा अल्पमप्यज्ञापयिष्यंस्तदा 'गुरुवद् गुरुपुत्रेऽपि वर्तेतेति नीतिवचनं वयं तदीयसेवनात् सत्यमकरिष्यामः" । प्रहृष्टः सूरिरुवाच-"युष्मासु तपोवृद्धेषु वैयावृत्त्या श्रेष्ठं तपः तस्य सुगतिप्रदमभूत् । यदा ज्ञातास्मत्पुत्रसम्बन्धा यूयमुपासनां मणकान्नाऽकारयिष्यत, तदा स स्वार्थं व्यमोक्ष्यत । मयाऽमुं स्वल्पायुषं ज्ञात्वा श्रुतधरं कर्तुं सिद्धान्तसारमुद्धत्य दशवैकालिकं व्यरचि । मया मणकार्थं ग्रन्थः कृतस्तेन निस्तारितश्च, तस्मादिमं ग्रन्थं यथास्थाने निवेशादद्य संवृणोमि । तदा यशोभद्रादिमुनयः सवायेति न्यवेदयन्-"सूरिपादा दशवकालिकं ग्रन्थं संवरिष्यन्ति" ।
सङ्घोऽपि प्रमुदितः सूरिपादानभ्यर्थयामास-"भगवन् ! मणकार्थोऽप्ययं ग्रन्थः सर्वं जगदनुगृह्णातु । प्राणिनोऽत: परमल्पमेधसो भविष्यन्ति, अतस्ते त्वत्प्रसादाद् मणकवत् कृतार्था भवन्तु। अदो दशवैकालिकं श्रुतकमलस्य परागो वर्तते, तदनगारभृङ्गा आस्वादमास्वादं प्रमोदन्ताम्" । इति सङ्घोपरोधेन महात्मभिः श्रीशय्यम्भवसूरिभिर्दशवैकालिकग्रन्थो न संवने । श्रीमान् शय्यम्भवः सूरिर्महामुनि श्रुतसमुद्रपारङ्गतं श्रीयशोभद्रं स्वपदे प्रतिष्ठापयामास ।
अथ श्रीशय्यम्भवाचार्यः समाधिना कालं कृत्वोर्ध्वलोक मगात् । जगत्प्रदीपसमानाः श्रुतकेवलिन: स्वकीयेऽपि कार्ये किं मुह्यन्ति ? ॥ ५॥ इति परिशिष्टपर्वणि प्रभवदेवत्व-शय्यम्भवचरित्रवर्णनात्मकः
पञ्चमः सर्गः ॥५॥

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128