Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 66
________________ ११८ परिशिष्टपर्व - षष्ठः सर्गः त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तेऽप्युत्तरोत्तरान् प्रदेशान् सर्वत्र पश्यन्तो नेत्रविश्रामस्थाने सुन्दरगङ्गातीरे ययुः । तेऽपि तत्र गङ्गातटे पुष्पारुणं सपत्रं घनच्छायं पाटलिवृक्षं पृथिव्याच्छत्रमिवाऽपश्यत् । अहो ! उद्यानबाह्योऽप्ययं वृक्षः सकलापोऽस्ति । इत्थं चमत्कृते तत्र चाषपक्षिणं ददृशुः । वृक्षशाखोपविष्टः स खगो मुखं मुहुादात् । व्यादत्ते तन्मुखे कीटिकाः कवलीभवितुं स्वयमागत्य निरन्तरं निपेतुः । ते चिन्तयन् यथाऽत्र प्रदेशेऽस्य खगस्य मुखे कीटिका स्वयमागत्य निरन्तरं निपतन्ति तथाऽत्रोत्तमे स्थाने नगरेऽपि निवेशिते पुण्यात्मनोऽमुष्य राज्ञः सम्पदः स्वयमागमिष्यन्ति । इति निश्चित्य राज्ञस्तत्स्थानं नगरनिवेशयोग्यं चाषलक्षणं निमित्तं विवृण्वन्तस्ते व्यजिज्ञपन् । वदतां वर एको वृद्धनैमित्तिक उवाच-"ज्ञानिना पुरा कथितेयं पाटला न सामान्या । अन्निकापुत्रचरित्रम् तथाहि-दक्षिणोत्तरे समानसौन्दर्यगुणे युग्मजे भगिन्याविव द्वे मथुरे नगर्यो स्तः । तत्रोत्तरमथुरायां देवदत्ताभिधो वणिक्पुत्रो दक्षिणस्यां मथुरायां दिग्यात्रार्थं जगाम । तस्य वणिक्पुत्रजयसिंहेन मैत्री बभूव । तौ परस्परं रहस्यैकनिधानतां प्रापतुः । जयसिंहस्य भगिनी अनिकानाम्नी कुमारी रूपसम्पदा भूगता स्वर्गाङ्गनेव बभूव । अन्यदा जयसिंहोऽन्निकां स्वभगिनीं समादिदेश-हे भगिनि ! अद्य समित्रोऽहं भोक्ष्ये, ततो दिव्यां रसवती सम्पादय । इत्युक्त्वा जयसिंहेन देवदत्तसुहृन्निमन्त्रितः तद्गृहे भोक्तुमागमत् । ततो द्वावपि निषेदतुः। ततोऽनिका सुवेषधरा द्वयोरप्यष्टादश भक्ष्यभेदान् षड्रसास्वादसुन्दरान् परिवेषयामास । तौ पवनेन प्रीणयितुं मक्षिका दूरीकर्तुं च व्यजनं धुन्वती व्यर्थकारि कर्म चक्रे । ततो देवदत्तो व्यजनं दोलयन्तीं चन्द्रमुखीं तां पश्यन् कामवशोऽभूत् । स लावण्यजलदीर्घिकां तां बालां पश्यंस्तथा रिरंसुभॊज्यास्वादं नाऽज्ञासीत् । तस्य दृष्टिस्तस्यामापादतलमस्तकमारोहावरोही लतायां वानरीव चकार । अस्यां नयनमित्रताप्रत्यूहो मा भूदिति विज्ञः स स्थिरोऽपि गजेन्द्रलीलया स्थिरतरं बुभुजे । भोजनं कृत्वा स तां स्मरन् स्वस्थानं ययौ । देवदत्तोऽपि द्वितीयदिनेऽन्निकां याचितुं जयसिंहसमीपे सेवकान् प्रेषयामास । ते गत्वोचुः-"अमूमन्निकां यस्मै कस्मैचिद् यदि दास्यसि तहि देवदत्ताय देहि । यादृशोऽस्त्येष इति त्वं जानासि । स उवाच-"अयं कुलीन: कलाज्ञ: सुधीश्च युवा चाऽस्ति । कि बहूक्तेन ? इह सर्वे वरगुणाः सन्ति । किन्त्वहं तस्मै स्वभगिनीं दास्यामि यो मद्गृहात् क्वचिद् न गमिष्यति । अत्र स्थितं तमात्मवद् द्रक्ष्यामि । किन्तु सम्भाव्यते यदयं सुन्दरोऽप्यद्य श्वो वा यास्यति, 'विदेशस्थः प्रायेण गमिष्यतीति भवन्तः किं न शुश्रुवुः'। ममेयं भगिनी प्राणप्रिया लक्ष्मीरिव मद्गृहे वर्तते । तस्मादिमां विवोढुरपि गृहे न प्रेषयिष्यामि । यदि देवदत्तोऽपत्यजन्मपर्यन्तमेवं कर्तुं समर्थस्तदेमां मेऽन्निकां भगिनीं परिणेतुमर्हतु । ते देवदत्तानुज्ञया ओमिति स्वीचक्रुः । देवदत्तोऽपि शुभदिने तां कन्यां परिणिन्ये। एकदा तत्राऽनिकाप्रेमरज्जुबद्धस्य तिष्ठतस्तस्य समीपे तदीयपितृभ्यामुदग्मथुरास्थाभ्यामीदृशो लेख: प्रेषयाञ्चक्रे- "हे आयुष्मन् ! नेत्रहीनौ चतुरिन्द्रियतां गतौ जराजर्जरसर्वाङ्गावासन्नयमशासनौ आवां यदि जीवन्तौ दिदृक्षसे तहरैहि रुदतोरावयोनॆत्रे शीतलीकुरु च। स

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128