Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 70
________________ परिशिष्टपर्व - षष्ठः सर्गः १२७ १२६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ "मिथ्या मे दुष्कृतम्" । "आशातितः केवली"ति वदन्नाचार्योऽचिन्तयत्-"अहं सेत्स्यामि न वा ?" केवल्यूचे"मुनिवरा: ! यूयं माऽधृति कृषीढ्वं, युष्माकं गङ्गानदीमुत्तरतां केवलं भविष्यति" । तत: सूरयो लोकेन सह गङ्गानदीमुत्तरीतुं नावमारुरुहुः, यत: के नरः स्वार्थं त्यजन्ति ? स आचार्यो नाव: यत्र यत्र प्रदेशे उपविवेश, नाव: स स प्रदेशो मक्तुमारेभे, तस्मिन्नाचार्यवरे नौमध्यमध्यासिते च नौका लौहवज्जले समन्ताद् मङ्क्तुमारेभे । तत: स सूरिर्लोकेन गङ्गाजले न्यक्षेपि । ___ ततश्च तं प्रवचनप्रत्यनीकामरी शूले न्यधात् । गङ्गामध्ये शूलप्रोतोऽपि च स सूरिरेवमचिन्तयत्-"अहो ! मम शरीरमनेक प्राण्युपद्रवनिमित्तं जातम्" । तदेवमप्कायादिदयासारं भृशं भावयन् स सूरिः क्षपकश्रेणिमारूढोऽन्तकृत् केवली बभूव । चतुर्थशुक्लध्यानस्थितश्च सद्यो मोक्षमाप । ततश्च तत्समीपस्था देवास्तस्य निर्वाणमहोत्सवमकार्षुः । देवैश्च तत्र तन्निर्वाणमहो व्यधायीति तत् तीर्थं त्रिभुवने "प्रयाग" इति नाम्ना पप्रथे । अथाऽन्निकापुत्रस्य मुण्डं मकरादिजलजन्तुभिस्त्रोटयमानं जलतरङ्गैर्नदीतटमानीयत । शुक्तिकेवेतस्ततो लुठत्तन्मुण्डं क्वाऽपि गुप्ते विषमप्रदेशे विलग्य तस्थौ । तन्मुण्डमध्ये च कदाचित् केनचिद् दैवयोगेन पाटलाबीजं न्यपतत् । कालक्रमाच्च तस्य दक्षिणचिबुकात् कर्परं भिन्दन् पाटलावृक्ष उदपद्यत । क्रमादयं विशालोऽभूत् । महामुनिमुण्डकपरेऽयमुत्पन्नः, मूलजीवश्चाऽस्यैकावतार इति विशेषतः पवित्रोऽयं पाटलावृक्षः, तस्मादत्राऽस्य वृक्षस्य प्रभावमाश्रित्य चाषनिमित्तं च दृष्ट्वा नगरं निवेश्यतामिति नृपः समादिशत् । तदा सर्वनैमित्तिकाज्ञया एको नैमित्तिक उवाच-"पुरनिवेशने उपक्रान्ते यत्रेयं शिवा रौति तदवधिसूत्रं दातव्यम्" । 'यूयं प्रमाणमि'त्युक्तवान् नृपः तान् नैमित्तिकान् नगरनिवेशे सूत्रपातार्थमादिशत् । ततश्च ते नैमित्तिका: पाटलावृक्षं पूर्वतः कृत्वा ततः पश्चिमां, तत उत्तरां, ततः पुन: पूर्वां, ततः शिवाशब्दावधि दक्षिणां गत्वा सूत्रमपातयन् । ततश्च तदा नगरस्य चतुरस्रः सन्निवेशोऽभूत् । पाटलिपुत्रवृत्तान्तः तत्राङ्किते भूप्रदेशे राजा नगरमरचयत् । तत् पाटलावृक्षनाम्ना पाटलिपुत्रनामकमभूत् । राजा तस्य पुरस्य मध्ये शाश्वतायतनतुल्यं श्रेष्ठं जिनमन्दिरमकारयत् । शुभदिने च महोत्सवपूर्वकं हस्त्यश्वशालाबहुलं राजप्रासादसुन्दरं विशालशालमुद्दामगोपुरहादिबन्धुरं पण्यसत्रपौषधादिशालाभूषितं तद् नगरमलञ्चक्रे । तत्र लक्ष्म्योदयभागुदायी राजा स्वं विक्रममखण्डं कुर्वाण इव जैनं धर्मं वितन्वन् राज्यमकरोत् । तस्य हृदये देवोऽर्हन्, गुरुः साधुः, धर्मश्चाऽऽर्हत इति देवतत्त्वं गुरुतत्त्वं धर्मतत्वं चाऽभूत् । महाशयः स चतुष्पा चतुर्थादितपसाऽऽत्मानं पवित्रीकुर्वन् पौषधशालायां पौषधमग्रहीत् । तथा धर्माबाधेन क्षात्रं तेजः प्रभावयन् चतुर्थोपायेन प्रतिपक्षनृपतीन् स्वसेवकानकार्षीत् । अथ ते सर्वे राजानोऽत्यन्तमाक्रान्ता अहरहरेवमचिन्तयन्अयमुदायी यावज्जीवति, तावदस्माकं राज्यसुखं न भविष्यति । इतश्चैकदा कस्यचित् राज्ञोऽपराधे जाते महाप्रतापिनोदायिना तस्य राज्यमुदच्छेदि । स च राजा छिन्नराज्यो नश्यन्नेव विपेदे । तत्पुत्रश्चैक: इतस्ततः परिभ्रमन्नुज्जयिनीं ययौ ।

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128