Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व - सप्तमः सर्गः
१३७
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः धार्मिकाणां दयालूनाममात्यव्यवहारो न निर्वहति, तस्माद् मेऽमात्यत्वेनाऽलम्", इत्युक्त्वा कल्पकस्तां राजाज्ञामवज्ञायैव ततो जगाम । तत्प्रभृति राजा तच्छिद्राण्यन्वेषयितुमुदयतत । नन्दस्तच्छिद्रं नित्यमन्वेषयन्नपि मनागपि न प्राप । यतो निरीहाणां महात्मनां छिद्रं दुर्लभं भवति ।
__ अन्यदा धीधनो राजा कल्पकगृहद्वारवीथीवासिनं स्वरजक माहूय पप्रच्छ "हे रजक ! यस्तव प्रातिवेश्मिकः कल्पको ब्राह्मणोऽस्ति, तस्य वस्त्रं त्वं प्रक्षालयसि न वा?" प्रक्षालयामीति रजकेनोक्ते नृपस्तमुवाच-"तदानीं तानि त्वया धर्तव्यानि, कल्पकाय पुनर्नाऽर्पय" । रजक “आदेशः प्रमाण"मित्युक्त्वा ययौ ।
इतश्च कौमुद्युत्सवसमय आययौ । ततः कल्पकस्त्री कल्पक मुवाच-“हे मनोरम ! इमानि सुवस्त्राणि राजरजकेनाऽद्य प्रक्षालय, यथाऽहं कौमुद्युत्सवदिनेऽतिशयितधवलानि सच्छायानि तानि वस्त्राणि धूपयित्वा परिदधे" । ततः कल्पकोऽचिन्तयत्-"अतिनिकटे पर्वदिने राजप्राप्तबलो रजकोऽन्यस्य भाटिलोभेन वरवस्त्राण्यर्पयेत्, मम पुनस्तानि स नाऽर्पयिष्यति, तस्माद् महाकष्टं पराभवं स्वहस्तेन न क्रेष्ये" इति । एवं विचिन्त्य प्रेक्षावतां वरः स कल्पकः स्त्रीवचनमुपैक्षिष्ट । यतो विद्वांसः स्त्रीप्रधाना न भवन्ति । किन्तु स्त्रियाऽत्यागृहीत: कल्पकस्तस्या वस्त्राणि रजकस्याऽर्पयत् । यत: स्त्र्याग्रहो बलवान् भवत्येव ।
अथ पर्वदिने समागते उपस्थितस्य कल्पकस्य वस्त्राणि राजशासनात् रजको नाऽऽर्पयत् । अद्य त्वं याहि, प्रातरागच्छेत्येवं मुहस्तं प्रतारयामास । यत: स रजको राजनियोगादभय आसीत् ।
तत्प्रभृति कल्पकोऽनुदिनं वस्त्रार्थं तस्य रजकस्य गृहमुत्तमर्णस्याऽधमर्ण इवाऽगात् । एवं वस्त्राणि मार्गयमाणस्य कल्पकस्य द्वे वर्षे व्यतीयतुः । यतोऽत्यन्तदर्शिता क्षमाऽभिभवायैव भवति । ततस्तृतीये वर्षे प्रवृत्ते कल्पकोऽवदत्-"अरे ! त्वं मम वस्त्रं जीर्णवान्, अत: महान् चौरोऽसि, रे ! रजकाधम ! यद्यहं स्ववस्त्राणि त्वच्छोणितेन रञ्जयित्वा न गृह्णामि, तदाऽहं कल्पको न भवामि" ।
अन्यदा कल्पको निशि रजकगृहं गन्तुं स्वगृहाद् विद्यां साधयितुं साहसीव निर्ययौ । चण्डिका-भृगुवेतालाद्यखिलमतनिपुण: स यमस्य देवतामिव क्षुरिकां दधार । ततश्चाऽतिकुपितः फालोद्गतो व्याघ्र इव भृकुटीकुटिलभूभीषणमुखो गत्वा रजकमुवाच-"रे दुष्ट ! तव गृहेऽहं द्वे वर्षे सेवक इव समागाम्, इदानीमपि मम वस्त्राणि ददासि न वेति ब्रूहि" । रजकस्तं क्षुधितं ब्रह्मराक्षसमिवाऽऽलोक्य क्षोभमुपागतः स्वस्त्रियमुवाच-"अस्य वस्त्राणि देहि" । रजक्यपि तथा चकार ।
अथ कल्पकः क्षुरिकां प्रकटीकृत्य सिंहो लाङ्गुलमिव तां नर्तयामास । अनन्तरं च स कल्पकः फालेन क्षेत्रमिव तया क्षुरिकया चटच्चटेति कुर्वाणं रजकस्योदरं विददार । सत्यप्रतिज्ञश्च स कल्पको निर्झराज्जलेनेव रजकतुन्दाद् निःसरता शोणितेन स्ववस्त्राणि रञ्जयामास ।
रजकी रुदती जगाद-"निरपराधमिमं कथं हंसि, अयं राजाज्ञयैव तव वस्त्राणि गृहे चिरमधारयत्" । कल्पकस्तदाकर्ण्य सम्भ्रान्त: समचिन्तयत्-"अहो ! राज्ञोऽयं प्रपञ्चोऽस्ति, यतस्तद्वचो मया नाऽकारि", तस्मादद्याऽहं यावद् रजकवधापराधाद् राजपुरुषैर्न

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128