Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१३२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः लेप्यमयावपि प्रतीहारिकावाकृष्टखड्गौ दधावतुः । ताभ्यां दुविनीतास्ते केचन सामन्ता निजघ्निरे । केऽप्यनाश्यन्त । तदनन्तरं नन्दोऽप्रतिहतशासनो बभूव । यदुक्तं-प्राय: श्लाध्येऽपि वंशे क्लीबं जन्म भवति । अत: पुण्यं पराक्रमश्च प्रमाणं, न कुलीनता ॥ ६ ॥
इति परिशिष्टपर्वणि यशोभद्रस्वर्गगमन-भद्रबाहुअन्निकापुत्रवृत्तान्त-पाटलीपुत्रप्रवेश-उदायिनृपमारक
नन्दराज्यलाभवर्णनात्मकः षष्ठः सर्गः ॥६॥
सप्तमः सर्गः
कल्पकवृतान्तः अथ तस्मिन्नेव नन्दनृपपालिते पाटलिपुत्रपुरे बहिर्भूमावेकः कपिलनामा ब्राह्मणो न्यवसत् । एकदा तद्गृहप्रान्ते संसारगजसिंहः कश्चिदाचार्यः सपरिवार आययौ । तदा समस्तगगनोल्लङ्घनखेदादिव सूर्यः पश्चिमसागरतरङ्गजलहस्तितामगमत् । ततश्च पश्चिमदिक् नवविकसितदाडिमीपुष्पवर्णवैभवमनोहरैः सायंमेघैः परिहितकोसुम्भवस्त्रेवाऽलक्षि । स्थाने स्थाने गृहाट्टदीपसमूहैर्भूमिराकाशस्पर्धया तारकितेवाऽभूत् । पक्षिणो विष्वगालोकजनकं सूर्यं 'कदा पुनर्द्रक्ष्यामी'ति कोलाहलव्याजादूचुरिव । अस्तं गतेन रविणा स्वतेजो वह्नौ न्यस्तमिति मन्ये । कथमन्यथा सूर्यास्तमनानन्तरं वह्निरतिप्रकाशशीलो भवेत् ? अञ्जनाभेन नीरन्ध्रेणाऽन्धकारेण तदाऽऽकाशं पातालविवरमिवाऽभूत् ।
तदा रात्रौ नगरप्रवेशो दुर्लभ इति सूरयस्तस्य ब्राह्मणस्य गृहाङ्गणं स्वपादैः पवित्रयामासुः । तथा निशि तं ब्राह्मणमनुज्ञाप्य तदीययज्ञशालायां न्यवात्सुः । स कपिल "इम आचार्याः किमपि जानन्ति न वेति" विपरीतधीराचार्यसमीपं निशि ययौ । तत: सूरिर्हदयान्त:समुल्लसितश्रुतसागरतरङ्गोपमैर्वचनैस्तस्याऽग्रे धर्म दिदेश । तेन च

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128