Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१२२
त्रिषष्टिशलाकापुरुषचरितम् -गद्यात्मकसारोद्धारः
पुत्रः पुत्री चाऽभूताम् । तयोर्नाम पुष्पचूलः पुष्पचूला चेत्यभूत् । सहैव वर्धमानौ सहैव क्रीडन्तौ तौ परस्परं प्रीतिमन्तौ बभूवतुः । राजा दध्यौ - " यद्येतौ बालौ मिथः स्नेहलौ वियुज्येयातां तर्हि नूनं मनागपि न जीवेताम् । अहमप्यनयोर्वियोगं सोढुमशक्तोऽस्मि । तस्मादनयोर्विवाहमङ्गलमुचितम् " ॥
अथ राजा मित्राणि मन्त्रिणः पौरांश्च पप्रच्छ - "अन्तःपुरे यद् रत्नमुत्पन्नं तस्येश्वरः को भवितुमर्हति ?" ते जगदुः - "देशमध्येऽपि यद् रत्नमुत्पद्यते तस्येश्वरो राजा भवति, अन्तःपुर उत्पन्नस्य तस्य का कथा ? स्वदेशे यद् यद् रत्नमुत्पद्यते तद् तद् राजा विनियुञ्जीत । तस्य को बाधकोऽस्तु" । नृपो भावानभिज्ञानां तेषां वचनमालम्ब्य तयोः स्वबालयोः सम्बन्धं चक्रे । तस्य राज्ञी पुष्पवतीनाम्नी श्राविकाऽभूत् । तया तथा कुर्वन् स वार्यमाणोऽपि तामपि न गणयामास । ततः पुष्पचूलः पुष्पचूला च दम्पती नितान्तमनुरागिणौ गृहिधर्मं सिषेवाते । क्रमेण पुष्पकेतौ राज्ञि मृते सति विमलगुणै राजमानः पुष्पचूलो राजाऽभूत् ।
तदा तदकार्यं निवारयन्ती पुष्पवती राज्ञी पत्याऽपमानिता सती विरक्ता व्रतमग्रहीत् । सा व्रतप्रभावाद् देवोऽभूत् । यतः प्रव्रज्या यदि मोक्षाय न भवति स्वर्गाय भवत्येवेत्यत्र सन्देहो नाऽस्ति । स देवोऽवधिनाऽकृत्यविनियोजितां तां स्वकन्यामद्राक्षीत् । तत्स्नेहादित्यचिन्तयत्-“इयं कन्या मम पूर्वजन्मनि प्राणप्रिया दुहिताऽभूत्, तस्मात् तथाऽहं करवै यथेयं घोरनरके न पतेत्" । स देवः तस्याः स्वप्नमध्ये नरकावासदारुणांश्छेदभेदादिदुःखपीडितसंरटन्नारकिकाकुलान् पातकेनाऽन्धकारापदेशतः संरुद्धानिव दुर्दशान् सर्वान् नरकानदर्शयत् । श्येनमुक्ता वर्तिकेव, दवनिर्गता हरिणीव, परपुरुष
परिशिष्टपर्व षष्ठः सर्गः करस्पर्शपलायिता सतीव, आयाततपोऽतिचारविधुरीकृता सुसाध्वीव, दृष्टनरका सा भयेन प्रबुद्धाऽप्यकम्पत । सा नरकदर्शनाद् नरकं गतेव बिभ्यती सर्वं तं स्वप्नं पत्यग्रेऽकथयत् । पुष्पचूलोऽपि पुष्पचूलाया: क्षेमेच्छुः शान्तिः शान्तिकं कर्म सम्यक् कारयामास । सः पुष्पवतीजीवस्तत्कल्याणकामनया प्रतिरात्रि तादृशानेव नरकानदर्शयत् ।
१२३
अथ राजा सर्वान् पाखण्डिन आह्वयत्, अपृच्छच्च- "नरका: कीदृशा इति यूयं कथयत” । तेऽल्पमतयो गर्भवासो, गुप्तिवासो, दारिद्यं, पराधीनता, एते साक्षाद् नरका इत्यकथयन् । सा दुर्गन्धमाघ्रायेव मुखमोटनं कुर्वाणा स्वस्वप्नविरुद्धवादिनस्तानत्यजत् । ततो राजाऽन्निकापुत्रमाहूयाऽपृच्छत् नरकान् । स यथा तया दृष्टास्तथैव कथयामास । राज्ञ्युवाच- 'भगवन् ! भवद्भिरपि किं मयेव स्वप्नो दृष्टः ? अन्यथा कथमित्थं जानीथ ।
ततः सूरिरुवाच - "हे भद्रे ! स्वप्नदर्शनं विनाऽपि तद् नाऽस्ति यज्जिनागमाद् न ज्ञायेत" । पुष्पचूलाऽपि पप्रच्छ- "भगवन् ! प्राणिनः केन कर्मणेदृग्घोरान् नरकान् प्राप्नुवन्ति । अन्निकापुत्र उवाच-महारम्भपरिग्रहैर्गुरुद्रोहात् पञ्चेन्द्रियादिवधाद् मांसाहाराच्च प्राणिनः पापं कृत्वा एषु नरकेषु यान्ति, तत्र दुःखान्यनुभवन्ति च । ततस्तस्या जननीजीवदेवस्तत्प्रभृति स्वप्ने नरकानिव प्रचुरसौख्यान् स्वर्गान् दर्शयामास । प्रबुद्धा सा स्वप्नदर्शनं पतिं प्रति निवेदयामास ।
अथ राजा पाखण्डिनोऽपृच्छद् - ब्रूथ किं स्वर्गलक्षणम् ? तेष्वेकः कश्चिदुवाच-“स्वर्गस्वरूपं प्रियसङ्गमः” । अन्ये तु

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128