Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१००
परिशिष्टपर्व - तृतीयः सर्गः
१०१
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मबुद्ध्याऽन्तःपुरमध्येऽपि पुष्पमध्ये स्थित इव सञ्चरिष्यसि, भयेनाऽलम्" । समये मामाह्वयेरिति तेनोक्ता चेटी सद्यो गत्वा हर्षोच्छसद्भुवे राज्य तदुवाच
तत्प्रभृति तत्सङ्गमं चिन्तयन्त्या ललिताया एकदा तत्र पुरे सुन्दरः कौमुद्युत्सवोऽभूत् । तदा राजा शस्यप्रशस्यक्षेत्रायां क्षीरधवलसरोजलायां बहि व्याखेटकलीलया ययौ । तदा परितो विजनीभूते राजवेश्मनि ललिता तयैव दास्या ललिताङ्गमाह्वयत् । सा चेटी राज्या विनोदमुद्दिश्य नवयक्षप्रतिमाच्छलेन तं नरमन्तःपुरे प्रावेशयत् । ललिता ललिताङ्गश्च तावुभौ चिराज्जातसङ्गमौ लतावृक्षाविव परस्परं गाढमालिलिङ्गतुः । ततोऽनुमानादिकुशला अन्त:पुरपालका निश्चितं कस्यचित् पुरुषस्य प्रवेशोऽन्तःपुरेऽभूदित्यज्ञासिषुः । अहो ! वयं वञ्चिताः स्म, इति तेषां चिन्तयतां राजाऽऽखेटकक्रीडां समाप्याऽऽययौ ।
ते राज्ञे निष्कपटमज्ञापयन्-“हे राजन् ! अस्माकमाशङ्केयमस्ति यदन्तःपुरे कोऽपि परपुरुषः प्रविष्टोऽस्ति । तस्माद् राजोपानही शब्दायमाने विहाय निःशब्दपादन्यासपूर्वकं चौर इव शुद्धान्ते प्रविवेश । सा चेटी द्वारदत्तदृष्टि रादागच्छन्तं राजानं दृष्ट्वा राज्य ज्ञापयाञ्चकार । दासी राज्ञी च तं जारमुपरितनमार्गेणाऽवकरराशिमिव शीघ्रं बहिश्चिक्षिपतुः । स जारो गृहात् पश्चात्तनप्रदेशे महावटे पपात । ततो गुहायामुलूक इव निलीय स तत्रैवाऽस्थात् । दुर्गन्धिमयेऽशुचौ तत्र कूपे नरकावास इव पूर्वसुखं स्मरन्नवातिष्ठत, सोऽचिन्तयच्च-"यदि कथञ्चिदस्मात् कूपादहं निःसरिष्यामि तदाऽहमीदृशपरिणामभोगं न करिष्यामि" ।
दासी राज्ञी च तत्र कूपे स्थिताय तस्मै कृपयोच्छिष्टं चिक्षिपतुः, तेनैव स जारोऽजीवत् । ततो वर्षासमये समागते गृहप्रस्रवणजलेन सकूप: पातकेन दुष्टधीरिव पूर्णोऽभूत् । स तेन परमवेगेन जलेन शबवद् वाहयित्वा वप्रद्वारिकया बाह्यपरिखायामनीयत । स जलपूरेण महदलाबुफलमिवाऽऽन्दोल्य परिखातीरेऽक्षेपि । ततः स जलेनाऽऽर्तो मुमूर्च्छ । दैवात् कुलदेवतयेवाऽऽगतया धात्र्या दृष्टः सङ्गोप्य गृहे नीतश्च । स कुटुम्बेन स्नानाभ्यङ्गभोजनादिभिः पाल्यमानश्छिन्नप्ररूढवृक्ष इव पुनर्नवीनोऽभूत् ।
अत्राऽयमुपनयः-यथा हि ललिताङ्गः कामभोगेषु समासक्तस्तथा देहिनां जीवः । यथा राज्ञीभोगस्तथा वैषयिकं सुखं, तदापातमधुरं परिणामातिदुःखदम् । गर्भ: कूपवाससमानः, मातृभुक्तान-पानाधैर्यद् गर्भपोषणं तदुच्छिष्टभोजनसदृशम् । यो मेघजलपूरिताद् विष्ठाकूपात् खालेन निर्गम: स पुद्गलोपचिताद् गर्भाद् योनितो निर्गमः । प्राकाराद् बहिस्थे परिखोत्सङ्गे यत् पतनं तत् सूतिकागृहे गर्भवासात् पतनम् । जलपूर्णपरिखातटस्थस्य या मूर्छा सा जरायुशोणितमयात् कोशाद् बहिःस्थस्य मूर्छा । या देहपालिका धात्री सा कर्मपरिणामसन्ततिस्त्वया ज्ञातव्या ।
हे प्रियाः ! यदि राज्ञी ललिताङ्गरूपमोहिता सती तं चेटीद्वाराऽन्तःपुरं पुन: प्रवेशयेत् तदा ललिताङ्गः किं तत्र प्रविशेत् ?" पत्न्य ऊचु:-"सोऽल्पधीरपि कथमनुभूतं विष्ठागर्तपातजं दुःखं स्मरन् राज्ञोऽन्तःपुरं प्रविशेत् ?" ततो जम्बूरुवाच "हे प्रियाः ! सोऽज्ञानवशेन प्रविशेदपि, अहं तु गर्भसङ्क्रान्तिहेतुं नाऽऽश्रयिष्यामि"।

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128