Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व - तृतीयः सर्गः
wellinnnnnnnnnnnnnnnnnnmmmmmmmmmmmm
९६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्वजनबान्धवाः पर्वमित्रसमाना ज्ञेयाः, यतस्तेऽखिलाः श्मशानचत्वरं गत्वा निवर्तन्ते । शर्मनिबन्धनं धर्मस्तु प्रणाममित्रसदृशो ज्ञातव्यः, यो धर्मः परलोकेऽपि गच्छता जीवेन सह गच्छति । तस्माद् हे मनस्विनि ! अहमैहलौकिकसुखास्वादमूढः परलोकसुखं धर्म न त्यक्ष्यामि । ततो जयश्रीरुवाच-“हे नाथ ! बुद्धिमन् ! त्वं कूटकथानकैर्मी नागश्रीवत् परं मोहयसि ।
नागश्रीकथा रमणीयनामपुरे कथाप्रियो राजाऽभूत् । स वारं वारेण पौरेभ्यः प्रतिदिनं कथां कथयामास । तस्मिन् पुर एको ब्राह्मणो दैन्यपीडितः सम्पूर्णदिनं भ्रामं भ्रामं कणभिक्षयाऽजीवत् । एकदा निरक्षरवरस्य तस्य विप्रस्य कथानकदिनमभूत् । स चेतसि चिन्तयामास-"स्वनामकथनेऽपि मम जिह्वा सन्निपातवती सदा स्खलति चेत् तदा कथाकथने कथं समर्था भविष्यति ? यद्यहं कथां कथयितुं न जान इति वदामि तदाऽहं कारागारे नीये, ततः का गतिमें भविष्यति ?" तस्य विप्रस्य कुमारीकन्या तं चिन्तितमुखं दृष्ट्वा पप्रच्छ-"तव का चिन्ता ?" ततो विप्रश्चिन्ताकारणं कथयामास ।
तत: कन्योवाच-“हे पितस्त्वं चिन्तां मा कृथाः, त्वद्वारेऽहं राजसमीपं गत्वा कथां कथयिष्यामि" इति स्नात्वा श्वेतवस्त्र परिधाय राजसमीपं गत्वा जयाशिषं दत्त्वा सा राजानमुवाच-"राजंस्त्वं कथां शृणु" । राजाऽपि कन्यायास्तादृशधाष्ट्येन विस्मितो मृग उच्चैर्गीतिमिव कथां श्रोतुमुत्कर्णो बभूव । साऽपि कथयितुं प्रारेभे-"राजन् ! इहैव पुरे नागशर्माऽग्निहोत्री द्विजोऽस्ति । स च कणभिक्षकजीविको
ऽस्ति । तस्य सोमश्रीनाम्नी भार्याऽस्ति, तस्याः कन्याऽहमस्मि, मम नाम नागश्रीरिति । ___अहं क्रमेण यौवनं प्राप्ताऽस्मि । अहं पितृभ्यां द्विजपुत्राय चट्टनाम्ने दत्ताऽस्मि, यत: स्त्रीणां वरः सम्पदनुरूपो भवति । अन्यदा केनाऽप्यौताहिकेन कार्येण मां गृह एकाकिनी मुक्त्वा ग्रामान्तरं ययतुर्मे पितरौ । मम पितरौ यस्मिन्नेव दिने ग्रामान्तरमगमतां, तस्मिन्नेव दिने मद्गृहे चट्टाख्यो विप्र आगात् । तदा पितरौ विनाऽपि तस्य सम्पदनुसारेण स्नान-भोजनादिभिरहमातिथ्यमकार्षम् । दिनात्यये तस्य शयनाय स्वगृहसर्वस्वं खट्वाप्रस्तरणमेकमदाम् ।
ततो मया चिन्तितं-"यदस्य पर्यङ्कः समर्पितः, प्रसर्पत्सयां गृहभूमौ कथमहं शये? तद्भीताऽहमस्य शय्यायां शये, गाढान्धकारावृतरात्रौ मां कोऽपि न द्रक्ष्यति" । इति निर्विकारेण मनसा तत्रैवाऽहमस्वाप्सम् । ततश्चट्टो विप्रो मदङ्गस्पर्शेन कामातुरोऽभूत् । लज्जया क्षोभेण विषयनिरोधेन च तस्य सद्यः शूलरोग उदपद्यत । स तु तेन पञ्चत्वं प्राप।
तं गतप्राणं दृष्ट्वा भीताऽहमचिन्तयम्-"अयं द्विजो मम पापाया दोषेण मृत्यु प्राप, अद्य कस्य कथयामि ? अत्र क उपायः? किं करोमि ? अहमेकाकिनी तं गृहात् कथं निःसारयामि ? इत्यह तद्वपुः कूष्माण्डमिव खण्डशोऽकार्षम् । गत खनित्वा तत्रैव निधानमिव तं न्यधाम् । तं गर्तं पूरयित्वोपरि समतलं कृत्वाऽमार्जयमलिम्पं च, यथा हि तत् केनाऽपि न ज्ञायते । तत्स्थानं पुष्पगन्धधूपैर्वासितं मया । अधुना मम पितरौ ग्रामान्तरादागतौ स्तः। राजाऽप्युवाच-“हे कुमारि ! यदिदं त्वया कथितं तत् सर्वमपि कि

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128