Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 53
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः हे नाथ ! त्वमप्येवमसद्ग्रहमनुत्सृजन् यत् फलं प्राप्स्यसि तद् मया न किमपि ज्ञायते । अथ जम्बूनामा हसन्नवाच-"स्वकार्यग्रहिल: सोल्लक इव नाऽहमस्मि । सोल्लककथा एकस्य भुक्तिपालस्यैकोत्तमा घोटिकाऽभूत्; तां स पुत्रीमिव स्वयमलालयदपालयच्च । सोऽश्वहृद्विदं सोल्लकं नामपुरुषं समादिश्य तां घृत-तैलौदनादिभिरसेवत । परं च सोल्लको घोटिका) दत्तं स्वादुस्वादुभोज्यं किञ्चित् तस्यै दत्वाऽधिकं स्वयमेव बुभुजे । सोल्लकोऽपि चिरं तया वञ्चनया घोटिकाजीवविषयमाभियोगिकं कर्माऽर्जयामास । स तेन वञ्चनकर्मणा कालधर्म प्राप्य वने मूढः पान्थ इव दीर्घकालं तिर्यग्गतौ भ्राम्यन्नेकदा क्षितिप्रतिष्ठनगरे सोमदत्तनामकब्राह्मणस्य सोमश्रीकुक्षिजः पुत्रो बभूव । साऽर्वती मृत्वा भवं भ्रान्त्वा तस्मिन्नेव पुरे कामपताकागणिकायाः पुत्रीत्वेनोत्पन्ना। स सोल्लकजीवोऽपि मातापितृभ्यां पोष्यमाणः कणभिक्षया क्रमेण यौवनं प्राप । धात्रिभिर्हरियष्टिवत् हृदयाग्रे धार्यमाणा साऽपि वेश्यापुत्री क्रमेण यौवनं प्राप । तस्याः वपुःपावनयो रूप-यौवनयोः परस्परं भूष्यभूषणताऽत्यन्तं समानवाऽभवत् । मालत्यां भ्रमरा इव तस्यां महाधनिका ग्रामतरुणाः परस्परं स्पर्धमाना अत्यन्तमनुरक्ता बभूवुः । सोऽपि ब्राह्मणपुत्रस्तस्यामासक्तः श्वेव तद्द्वारमशिश्रियत्, यत: काम: सर्वङ्कषो भवति । सा वेश्यापुत्री महाधनिभिभूपा-ऽमात्य-श्रेष्ठिपुत्रादिभिः सह रममाणा तं ब्राह्मणसुतं तिरश्चकार, परन्तु स तां दृष्ट्वैवाऽजीवत् । परिशिष्टपर्व - तृतीयः सर्गः सा तु तं दरिद्रं दृष्ट्याऽपि न सम्भावयामास । यतो वेश्यानामयं स्वभावोऽस्ति यद् धनिनि रागो भवति न तु दीने । स ब्राह्मणसुतः कामबाणपीडितस्तत्पावं त्यक्तुमसक्तस्तस्या दासत्वं स्वीचकार । स कृषिकर्माणि सारथ्यं जलवाहनं कणपेषणं च चक्रे । तस्य किमप्यकार्यं नाऽभूत्, स बहिष्क्रियमाणोऽपि तद्गृहाद् न बहिर्जगाम । तृषां बुभुक्षां भर्त्सनां ताडनाद्यपि सेहे । तस्माद् युष्मासु घोटिकासदृशीष्वहमाभियोगिकं कर्म नाऽर्जयिष्यामि यथा सोऽर्जयत् तथा, युष्माकं युक्तिकल्पनैरलम् । तत: कमलवत्युवाच-“हे नाथ ! मासाहसपक्षिवत् त्वं साहसिको मा भूः । मासाहसपक्षिकथा एकः पुमान् दुर्भिक्षपीडितः स्वजनं विहाय महता सार्थेन सह देशान्तरे चचाल । एकस्मिन् महावने सार्थ आवासिते सति स एकोऽपि तृणकाष्ठाद्यानेतुं निर्ययौ । तदा वनगह्वरे एकः पक्षी सुप्तव्याघ्रमुखाद् दन्तलग्नमांसखण्डान्यादाय वृक्षमारोहत् । मा साहसमिति पुनः पुनर्भणन् मांसखादकः सः पक्षी तेन पुरुषेण सविस्मयमगादि । मा साहसमिति भणसि व्याघ्रमुखाद् मांसं च खादसि, त्वं मूर्यो दृश्यसे, यतो वचनानुरूपं न करोषि" । तस्मात् साक्षाद् भवसुखं हित्वाऽदृष्टसुखेच्छया तपश्चिकीर्षुस्त्वमपि मासाहसपक्षिवदसि । ततो हसित्वा जम्बूरुवाच-"त्वद्वचसा नाऽहं मुह्यामि, मित्रत्रयकथां जानानोऽहं स्वार्थाद् न भ्रश्यामि" । मित्रत्रयकथा क्षितिप्रतिष्ठनगरे जितशत्रुभूपतेः सर्वत्राऽधिकारी सोमदत्तनामा पुरोहितोऽभूत् । तस्य सहमित्रनामैकः सुहृदभूत्, स भोजन-पानादि

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128