Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
८८
परिशिष्टपर्व - तृतीयः सर्गः
Anamnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn
sunnnnnnnn
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः विश्वासपात्रं प्रख्यातो जिनदासनामा श्रावको मम परमप्रियोऽस्ति । स च बुद्धिमान् स्वामिभक्तः प्रमादहीनश्चाऽस्ति । स एवेदृशाश्वस्य न्यासपात्रं भवितुमर्हति ।
अथ राजा जिनदासमाहूयाऽऽदिशत्-"अयमश्व आत्मेव त्वया रक्ष्यः" । ततो जिनदास "आदेशः प्रमाण"मित्युक्त्वा रक्षकयुतं तमश्वं गृहे निन्ये । स तस्याऽश्वकिशोरस्य स्थानं क्षिप्तकोमलवालुकं गङ्गापुलिनवत् सुखदं रचयामास । स तमश्वं रजोरहितानि पत्रलानि स्वादूनि हरितानि तृणानि स्वयमेव भोजयामास । स स्वयं तमश्वं वालुकामध्ये लोष्टकण्टकहीने भूप्रदेशे मुखरज्जौ धृत्वा वेल्लयामास ।
स स्वस्नानसमये सुगन्धिभिः स्नानीयैरेकतप्तै लैस्तमश्वं स्नपयामास । नीरोगोऽयं न वेति प्रत्यहं तमश्वं परीक्षितुं तस्य नेत्रपक्ष्मणी पर्यस्य पर्यस्य ददर्श । स्वयं तमारुह्य स प्रथमधारया सुखं वेल्लयन्ननुदिनं सरसि जलं पाययितुं नित्ये । तस्य गृहस्य सरोवरस्य चाऽन्तरे महज्जिनमन्दिरमासीत्, यत् संसारसागरस्याऽन्तरीपमिव कदाऽपि तेन नाऽऽक्रान्तमभूत् । अर्हन्मन्दिरानादरो मा भूदिति सोऽश्वारूढस्त्रि:प्रदक्षिणीकृत्य गमागमकाले प्रतिदिनं स्वं कृतार्थयन्नासीत् । स देवतत्त्वज्ञोऽश्वारूढोऽपि देवमवन्दिष्ट, प्रमादो मा भूदित्यश्वादुत्तीर्य न प्राविशत् । जिनदासस्तमश्वं तथाऽशिक्षयत् यथा स सरोगृहं चैत्यं च विहायाऽन्यत्र नाऽगच्छत् ।
यथा यथा शनैः शनैः सोऽश्वकिशोरो ववृधे तथा तथा राजगृहमध्ये सम्पदो ववृधिरे । तदश्वकिशोरप्रभावेण स राजा सर्वभूपतिमध्ये आज्ञाकारकेन्द्रोऽजायत । ते चाऽऽज्ञाकरणोद्विग्ना राजान एवं दध्यु:-"यदश्वप्रभावाद् वयं जिता: सोऽश्वो मारणीयो
ऽथवा हरणीयः" । तस्याऽश्वस्य तथाकर्तुमशक्तेषु राजस्वेकस्य सामन्तस्य बुद्धिमान् मन्त्री जगाद-"अहं केनाऽप्युपायेन तमश्वं हरिष्यामि, उपायस्य किं दुष्करम् ? यत उपायशक्तेर्मानं नास्ति' ।
स धीनिधिर्मन्त्री एवं कुर्विति सामन्तेनाऽऽदिष्टो मायया श्रावकीभूय वसन्तपुरपत्तनमगात् । स तत्र चैत्यानि वन्दित्वा सुविहितानपि मुनीन् वन्दित्वा जिनदासगृहं गत्वा तद्गृहचैत्यमवन्दत । श्रावकवन्दनेन जिनदासं धूर्ततया श्रावकत्वं दर्शयन् स ववन्दे । अथ साधर्मिकवत्सलो जिनदासस्तमभ्युत्थाय वन्दित्वा पर्यपृच्छत्-"महाशय ! कुत आगमत् ?" तत: कपटश्रावक उवाच"अहं निःसारे संसारे विरक्तोऽस्मि, अहं शीघ्रं प्रव्रजिष्यामि, मम गार्हस्थ्येनाऽलम्, अहं निष्कपटो धर्मबान्धवस्तीर्थयात्रां कृत्वा सुगुरोः पार्श्वे व्रतं ग्रहीष्यामि" ।
जिनदासोऽप्युवाच-“हे महात्मन् ! तव स्वागतमस्तु, समानशीलयोरावयोधर्मगोष्ठीसुखानि भवन्तु । धर्मिषु दानशौण्डः स तथेति स्वीकृतवन्तं तं मायाश्रावकं निजबन्धुमिव प्रेम्णा स्नपयामास । तस्य शिरसि स्नानेन निर्मलीकृतकेशान् कस्तूरीपङ्कमलिनांश्चकार । तस्य सामन्तमन्त्रिणो मूर्धनि आलेख्यालिखितसन्निभं पुष्पमाल्यगर्भ धम्मिल्लमबघ्नात् । सुगन्धिना तनीयसा चान्दनेन ज्योत्स्नासदृशेनाऽङ्गरागेण तस्याऽङ्गमचर्चयत् । स धर्ममतिः तं निर्दग्धागरु-कर्पूरकस्तूरीवासितानि वस्त्राणि पर्यधापयत् । जिनदासः क्षणेन तदर्थं लेह्य-चोष्यपेयास्वाद्यहृद्यां रसवतीमकारयत् । ततो जिनदासेन हंसरोमासनमध्यासितः व्यजनेन वीज्यमानः स मन्त्री विविधैर्भोज्यैरभोजि।

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128