Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 52
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ भोजनानन्तरं जिनदासस्तेन दुरात्मना कपटश्रावकेण धर्मकथां प्रारेभे । तदा जिनदासस्यैकः स्वजनोऽभ्येत्योवाच- "हे बन्धो ! श्वः कल्याणकार्येण मम गृहमुपेहि; तत्र त्वया सकलमहोरात्रं स्थातव्यं, यतस्त्वं कल्याणकुशलोऽसि, त्वया विना कल्याणं किम् ?" ततो जिनदास आमित्युक्त्वा तं विसृज्याऽतिहारगी: सरलस्तं कपट श्रावकमुवाच - "हे अभ्यागत ! मया स्वजनगृहेऽवश्यं गन्तव्यं, मयि ते मद्गृहं त्वद्गृहमिति तद् रक्षणीयम्" । आमिति हसन् स स्वीचकार । ९० ततोऽस्मिन् दुर्मतौ जातविश्वासो जिनदासो जगाम । तस्मिन् दिने पुरे महान् कौमुद्युत्सवो हल्लीसपूर्वकं पुरवधूरासकलासकोऽभवत् । रात्रौ जनपदे कौमुदीमहमग्ने सति स मायाश्रावकस्तमश्वमादाय निर्जगाम । सोऽश्वोऽपि चैत्यस्य त्रिः प्रदक्षिणां कृत्वा वार्यमाणोऽपि तस्मिन् सरसि जगाम नाऽन्यत्र । ततः परावृत्तः सोऽश्वः पुनर्देवालयमगात्, देवालयाद् गृहं ययौ नाऽन्यत्र कुत्रचित् । स दुःसामन्तसचिवस्तमश्वमन्यत्र नेतुं शक्तो यावद् नाऽभूत् तावद् रात्रिः प्रकाशिताऽभूत् । स दुरात्मा पलायिष्ट । सूर्य उदगात्, तदा जिनदासोऽपि गृहं प्रति न्यवर्तत । आगच्छज्जिनदासो जनमुखादिदं शुश्राव - "तवाऽश्वः कौमुदीमहे सकलां रात्रिं वाहितः" । किमेतदिति चकितो जिनदासोऽपि गृहमगात् । तमश्वं श्रान्तं क्षामं स्वेदमलिनं च ददर्श । भाग्येनाऽयमश्वोऽस्ति, अहं तु धर्मच्छलेन वञ्चितोऽस्मि, इति स हर्षविषादौ प्राप । तत्प्रभृति स तमश्वं सविशेषमरक्षत् । स उत्पथं न जगामेति जिनदासस्याऽतीव प्रियोऽभूत् । तमश्वमिव मां कोऽप्युत्पथं नेतुं न शक्नोति । तस्मात् परलोकसुखदं पन्थानं न त्यक्ष्यामि । परिशिष्टपर्व - तृतीयः सर्गः ९१ अथ कनकश्रीः प्रेमबन्धुरं सहासमुवाच - "हे स्वामिन् ! ग्रामकूटसुत इव त्वं जडो मा भव" । ग्रामकूटसुतकथा एकस्मिन् ग्राम एको ग्रामकूटसुतोऽभूत् । स मृतपितृको - ऽत्यन्तदुःखितमातृको बभूव । रुदती माता तमुवाच - "हे पुत्र ! त्वं कापुरुषशिरोमणिरसि । तव परकथां विनाऽन्यत् कर्म नाऽस्ति । तव पिता व्यवसायी व्यवसायेनाऽजीवत् । आरब्धं व्यवसायं सदा निरवाहयत् । त्वं तु युवाऽपि व्यवसायं कदाऽपि नाऽऽरभसे । आरब्धव्यवसायस्य निर्वाहे कथैव का ? तव समानवयसः स्वेन कर्मणा जीवन्ति । त्वं ग्रामशण्ड इव भ्राम्यन् निष्कर्मा सन् न लज्जसे । मद्दारिद्र्येणेदमुदरं बिभर्षि । त्वमुदरे भृते कोशो भृत इति मन्यसे" । ततः पुत्र उवाच - "हे मातः ! अतः परमहमनर्गलो न भविष्यामि, धनोपार्जनोद्यमं करिष्यामि । हे मातर् ! यथा मे पितोत्साही प्रारब्धं व्यवसायं धनोपार्जनाय निरवाहयत् तथाऽहमपि करिष्यामि । एकदा ग्रामसभायामुपविष्टस्य पश्यतस्तस्य कस्यचित् कुम्भकारस्य गर्दभः पादबन्धनं त्रोटयित्वाऽनश्यत् ! पलायमानं तं गर्दभं कुम्भकारोऽप्यन्वधावत् । खरं धर्तुमशक्तः स इदमूर्ध्वबाहुरुवाच"भो भो ग्रामसभोपविष्टाः सर्वेऽपि ग्रामबालकाः ! युष्माकं मध्ये कोऽपि समर्थोऽस्ति यो मम खरं धृत्वा मेऽर्पयेत् । ततो ग्रामकूटसुतस्तस्मादर्थलाभं विचिन्तयन् धावित्वा तं खरं पुच्छे वृन्ते फलानीवाऽग्रहीत् । स लोकैर्वार्यमाणोऽपि यावत् तं खरं नाऽमुचत् तावत् तत्पादाघातेन भग्नदन्तः सन् भूतलेऽपतत् । तस्मात्

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128