Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व - तृतीयः सर्गः
त्रिपाष्टशलाका
A
marnamannmaina
mnnnnnnnnnnnnnine
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः भिरैक्यवान् सर्वत्र मिलित आसीत् । तस्य पुनः पर्वमित्रनामाऽपरः सुहृदभूत् । स च पर्वस्वागतेष्वेव सन्मान्य आसीद् नाऽन्यदा । तस्य प्रणाममित्रनामा तृतीयः सुहृदभूत्, स यथादर्शनं वार्तालापकमात्रो बभूव ।
एकदा तस्य पुरोहितस्य कस्मिंश्चिदपराधे समागते भूपतिश्चण्डशासनस्तं निग्रहीतुमैच्छत् । दीन: पुरोधा राजाभिप्रायं विज्ञाय रात्रावेव सहमित्रनाममित्रस्य गृहं ययौ । अद्य मे राजा रुष्ट इत्युक्त्वा पुरोहितस्तमुवाच "हे मित्र ! त्वद्गृहेऽशुभामवस्थां गमयामी'ति । हे मित्र ! आपत्काले ह्युपस्थिते मित्रं ज्ञायते, तस्मात् त्वं स्वगृहे मां गोपयित्वा मित्रतां सफलीकुरु" । ततः सहमित्र उवाच-“हे मित्र ! आवयोः सम्प्रति मैत्री न भवितुमर्हति, यावद् राजभयं ते न तावदेव नौ मैत्री । मद्गृहे राजदूषितो वसंस्त्वं ममाऽप्यापदे स्याः, ज्वलदूर्णमूर्णायु को नाम गृहे क्षिपेत् ? अहं त्वत्कृते सकुटुम्बमात्मानं कथमनर्थे पातयिष्यामि, तस्मादन्यत्र याहि, तव कल्याणमस्तु" । एवं सहमित्रेणाऽनादृतः सोमदत्तः शीघ्रं पर्वमित्रस्य गृहं ययौ । तत्र स द्विजस्तदाश्रयमीप्सुस्तथैव राजकोपवृत्तान्तं न्यवेदयत् ।
पर्वमित्रोऽपि पर्वमैत्र्या निष्क्रयकाम्यया महाप्रतिपत्त्या तं दृष्ट्वोवाच-“हे सखे ! त्वयाऽनेकपर्वसु संभाषणादिभि: स्नेहप्रकारैर्मत्प्राणा अपि क्रीता । हे भ्रातर्यदि तव दु:खभागहं न भवामि तदा मम कुलीनस्य कुलीनता नाऽवतिष्ठते । त्वत्प्रेमाधीनोऽनर्थमपि सहे, किन्तु मे कुटुम्बमप्यनर्थं गच्छेदिति दुःसहं प्रतिभाति । हे सखे ! कुटुम्बमपि मेऽतिप्रियं त्वमपि प्रेयानसि, अत्र किं करोमि ? इतो व्याघ्र इतस्तटी वर्तते । सकीटकपलाशवदहं बालपरिवृतोऽस्मि, तस्मात् तेभ्यो बालेभ्योऽनुकम्पय । तव स्वस्त्यस्तु, त्वमन्यत्र याहि" ।
एवं सत्कृत्याऽपि तेन स पुरोधा दूरीकृतो निर्ययौ । यतो दैवे रुष्टे पुत्रोऽपि शत्रूयते । चत्वरपर्यन्तमनुगम्य परावृतः पर्वमित्रः ।
अथ दुष्प्रापरोधाः पुरोधा व्यसनवारिधिर्दध्यौ-"मया ययोरुपकृतं तयोः परिणामोऽयं तस्मात् कस्य सम्प्रति दीनोऽहं पारिपार्श्विको भवामि । अद्य प्रणाममित्रस्य मित्रस्य समीपं यामि । तत्राऽपि मे प्रत्याशा नास्ति, यतस्तस्मिन् वाङ्मयी प्रीतिरस्ति, यद् वा वितर्केणाऽलं; सोऽपि किञ्चिन्मित्रं वर्तते, तस्मात् तमपि पश्यामि, यतः कस्याऽपि कोऽप्युपकारको भवति । इति प्रणाममित्रस्य गृहं ययौ।
सोऽभ्यागतमात्रं तं कृताञ्जलिरभ्युत्तस्थौ, उवाच च-"तव स्वागतमस्तु, युष्माकं किमीदृशी दशा वर्तते ? मया कि प्रयोजनं, कथय, यदहं ते करवाणि" । ततः पुरोहितो राजवृत्तान्तमाख्याय तं प्रतीदमुवाच-"हे सखे ! अस्य राज्ञः सीमां त्यक्ष्यामि, मे सहायता
सोऽप्युवाच- "हे सखे ! प्रियालापैः तवाऽहमृणी वर्ते, अधुना ते साहाय्यं कृत्वाऽनृणी भविष्यामि । त्वं मा भयं कार्षीर्यतस्तेऽहं पृष्ठरक्षकोऽस्मि । मयि जीवति सति तव रोम्णोऽपि विप्रियं कर्तुं न कोऽपि शक्नोति" इत्युक्त्वा प्रणाममित्रः पृष्ठकृततूणीरोऽधिज्यीकृतचापो निःशङ्कः तं पुरोहितमग्रे चक्रे । पुरोधास्तेन सहेष्टं स्थानं ययौ । तत्र निःशङ्को वैषयिकं सुखमन्वभवत् ।
अत्र चाऽयमुपसंहारः-तत्र जीवः सोमदत्तसदृशोऽस्ति, सहमित्रमित्रस्य तुल्यो विग्रहो भवति, यतोऽयं विग्रहः सत्कृतोऽपि कर्मराजकृतायां मरणापदि जीवेन सह मनागपि नाऽऽगच्छति । सर्वे

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128