Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व - तृतीयः सर्गः
८७
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सा सिद्धिर्विविधभक्तिभिः खटिकाधातुभिर्यक्षस्य मन्दिरं भूषयामास, तथा सोपानश्रेणि चाऽलञ्चकार । कर्तव्यभक्तिप्रकारांस्तन्निभान् गणयन्तीव सा स्वस्तिकरेखाभिर्यक्षाङ्गणं भूषयामास । सा स्वयं जलमानीय प्रत्यहं स्वीकृतोपासनानियमा यक्षं स्नपयामास । सा स्वयमाहृतैबिल्वदलकरवीरतुलसीकुब्जकादिभिर्यक्षं त्रिसन्ध्यं पूजयाञ्चकार । सा यक्षमन्दिरे यक्षाभियोग्यव्यन्तरीवैकभक्तोपवासादितत्पराऽहर्निशं न्यवसत् ।
तत एवमाराधितस्तुष्टो यक्ष उवाच-“हे महाभागे ! अहं तुष्टोऽस्मि । यदिच्छसि तत् प्रार्थयस्व" । अथ सा सिद्धिः पूर्णसम्पदं यक्षं प्रार्थयाञ्चकार-“हे यक्ष ! त्वया मत्सख्यै बुद्ध्यै यद् दत्तं तद्द्विगुणं मे देहि" । ततो भोलाख्यो यक्ष एवमस्त्वित्युक्त्वाऽन्तर्दधौ । तत: सिद्धिरपि क्रमेण बुद्धितोऽधिकसम्पत्तिभाक् समजनि ।
बुद्धिः सिद्धि द्विगुणसम्पत्तिलाभेनाऽधिकद्धि दृष्ट्वा पुनरपि यक्षमाराधयत् । यक्षोऽपि तुष्टस्तस्यै तद्विगुणं धनं ददौ । ततः सिद्धिस्तस्य: स्पर्धया पुनरपि यक्षमाराधयत् । ततस्तुष्टे यक्षे दुष्टात्मा सिद्धिश्चिन्तयामास-"अहं प्रसन्नाद् यक्षाद् यत् किञ्चित् प्रार्थयिष्ये तद्विगुणं द्रव्यं बुद्धिर्यक्षमाराध्य प्रार्थयिष्यति । तस्मादहं तद् याचे यद् द्विगुणमर्थितं बुद्धेरपकाराय जायेत, तदा मे बुद्धिः साधीयसी स्यात् । इति चिन्तयित्वा मे नेत्रमेकं काणीकुरु इत्ययाचत । यक्षेणैवमस्त्वित्युक्ते सद्यः सा काणा बभूव । ततो बुद्धिः पुनर्मम सख्यै यक्षः किमप्यधिकं ददाविति तद्विगुणकाङ्क्षिणी सती यक्षमाराधयामास ।
ततस्तुष्टाद् यक्षाद् बुद्धिरप्येतादृशं प्रार्थयामास-“हे यक्ष ! सिद्ध्यै यद् दत्तं तद्विगुणं मे देहि" । यक्ष एवमस्त्विति कथयित्वा
तिरोदधे । सा बुद्धिः सद्योऽन्धाऽभवत् । यतो देवतावचो मिथ्या न भवति, एवं बुद्धिस्थविरा पूर्वप्राप्तया सम्पदाऽतृप्ताऽतिलुब्धा स्वेनैव स्वं विनाशयामास । एवं मानुषश्रियं प्राप्याऽतिश्रियमिच्छंस्त्वमप्यन्धस्थविरावद् भविष्यसि । ततो जम्बूनामोवाच-"हे देवानांप्रिये! अहो ! अहं नोत्पथगाम्यस्मि, यथा जात्याश्वस्तथा । तस्य कथां शृणु
जात्याश्वकथा तथाहि-वसन्तपुरपत्तने प्रतापेन जितशत्रुरद्भुतलक्ष्म्या विराजमानो जितशत्रुनामा राजाऽभूत् । बुद्धिधनवतां श्रेष्ठः श्रेष्ठी जिनदासनामा विश्वासपात्रं मित्रं तस्य राज्ञोऽभूत् । एकदाऽश्वपालका लक्षणवन्तो रेवन्तपुत्रानिवाऽश्वकिशोरांस्तं राजानमदर्शयन् । तदा राजाऽश्वलक्षणविदामादिदेश-“के केऽश्वा: कै: कैर्लक्षणैः सम्पूर्णा इति कथयत" । ते च शास्त्रोक्ताश्वलक्षणसम्पन्नमेकं घोटककिशोरं राजानं न्यवेदयन् ।
असावश्वो वृत्तखुर: स्तब्धसन्धिर्जवाखुरमध्ये, निर्मासजानुजवास्यः कुञ्चितोन्नतकन्धरः स्निग्धरोमा कोकिलस्वरो मल्लिकाक्षो लघुस्तब्धश्रवणो लम्बकेसरः पञ्चभद्रो गूढवंशः स्कन्धादिसप्तके स्थूलः, उरस्यादिध्रुवावर्तदशकेन भूषितः, बुध्नावर्तादिदुष्टावर्तरहितः स्निग्धदन्तोऽयं किशोरः स्वामिनो लक्ष्मी पुष्टीकरोति" । स्वयं विज्ञो राजाऽपि तमश्वं लक्षणवन्तं विज्ञाय केसरयुतजलेन स्वयं सर्वाङ्गमानर्च ।
अथ राजा तस्याऽश्वस्य पुष्पवस्त्रैः पूजां विधाय लवणोत्तारणादिकां कारयामास । अचिन्तयच्च-एनमश्वं को रक्षितुं समर्थः ? प्रायेण भूतले रत्नानि विघ्नबहुलानि भवन्ति । अथवा मम

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128