Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व - तृतीयः सर्गः
तृतीयः सर्गः अथ नभःसेना कृताञ्जलिः ऋषभनन्दनमुवाच-"त्वं स्थविरावद् मा भूः । स्थविरायाः कथा यथा
स्थविराकथा एकस्मिन् ग्रामे नामतो बुद्धिः सिद्धिश्च स्थविरे बभूवतुः । ते द्वे अपि परस्परसख्यौ नित्यमत्यन्तदुःस्थिते अभूताम् । तस्य ग्रामस्य बहिः प्रतिष्ठितः प्रसिद्धो भोलको नामाऽभीप्सितधनप्रदो यक्षोऽस्ति । तं यक्षं बुद्धिनाम्नी दीना स्थविरा प्रत्यहमाराधयामास । सा त्रिसन्ध्यमपि देवकुलं संमार्जयति स्म, यक्षाय च पूजनपुरस्सरं नैवेद्यमर्पयाञ्चक्रे । अन्यदा तुष्टो यक्षस्ते किं ददामीति जगाद, यत आराध्यमानः कपोतोऽपि प्रसीदति । ततो बुद्धिरुवाच"यदि त्वं तुष्टोऽसि तदा तद्देहि येन सुखसंतोषभागहं जीवामि" ।
यक्ष उवाच-“हे स्थविरे बुद्धे ! त्वं सुस्थिता भव, मम पादमूले दिने दिने त्वं दीनारं प्राप्स्यसि" । ततः सा तत्प्रभृति प्रत्यहं दीनारं लभमाना कृतकृत्याऽभूत् । स्वजनाज्जनपदाच्च सा वृद्धाऽधिकधनवत्यभूत् । या स्वप्नेऽपि सुन्दरवस्त्रादिसम्भारं नाऽपश्यत् सा प्रतिक्षणं नवं नवं वस्त्रं भूषणं च राजीव पर्यधात् । यस्याः पुनः काञ्जिकेच्छाऽपि नाऽपूर्यत, तस्याः सहस्रशः कुण्डोध्यो धेनवो बभूवुः । याऽऽजन्माऽपि जीर्णतृणकुटीरे न्यवसत्, सा वेदीमत्तगज
शोभितं प्रासादमकारयत् । या परगृहगोमयत्यागकर्मणाऽजीवत्, तस्याः स्तम्भलग्नाः पाञ्चाल्य इव दास्यः सेविका बभूवुः । या स्वग्रासचिन्ताकुलिता सदाऽभूत्, सा यक्षदत्तसम्पदा दीनानुद्धतुं प्रारेभे।
तत: सिद्धिनाम्नी स्थविरा तादृशीं बुद्धिसम्पदं दृष्ट्वा जातमत्सराऽचिन्तयत्-"अहो ! अस्याः कुत ईदृशी सम्पत् सम्पन्नाऽभूत् ? भवतु, अस्याः सदा सखीत्वेनाऽहं विश्वासभागस्मि, तस्मादिमामेव चाटुशतानि कृत्वा प्रक्ष्यामि" । एवं विचिन्त्य बुद्धिमती सिद्धिर्बुद्धि स्थविरामुपययौ ।
बुद्ध्या च प्रियसखीति सा सत्कृता सत्युवाच-“हे सखि ! बुद्धे ! तवेदृश्यचिन्तिता सम्पत् कुत आगात् ? तव सम्पद्दर्शनेन चिन्तामणिः प्राप्त इवाऽनुमीयते । अथवा किं ते कोऽपि राजा प्रासीदत् ? वा काऽपि देवता ? किं वा किमपि निधानं प्राप्तम् ? वा किं कोऽपि रसः साधितस्त्वया ? हे सखि ! सम्पद्वत्या त्वयाऽहमपि सम्पत्तिमत्यभूवम् । अद्य मया दारिद्रयदुःखाय जलाञ्जलिरदायि । अहं त्वं त्वमहं, प्रीत्या देहेऽप्यावयोर्न भेदोऽस्ति । आवयोः परस्परं किमपि नाऽकथनीयमतस्त्वं कथय-"इयं सम्पत् कुत आगमत्" । ततो बुद्धिस्थविरा तद्भावमबुध्यमाना यथातथमकथयत्, यथा मया यक्ष आराधितः, यथा च यक्षेण सम्पद् दत्ता, तथा साऽख्यात् ।
तत: सिद्धिस्तच्छ्रुत्वा दध्यौ-"साधु साधु ममाऽपि धनोपार्जनोपायो निरपायो भविष्यति । अहं सविशेषं यक्षमाराधयिष्यामि, यथा मे सविशेषा सम्पद् भविष्यति । अथ धनप्राप्तये सिद्धिस्थविरा बुद्धिदर्शितप्रकारेणाऽहनिशं यक्षमाराधयितुमारेभे ।

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128