Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 47
________________ त्रिषष्टिशलाकापुरुषचरितम् -गद्यात्मकसारोद्धारः ग्रामपुरुषा गोधनं वालयितुकामा अग्रेऽप्याजग्मुः यदयं शङ्खनादोऽतिनिकटे भवति" । इति विचार्य ते चौरा गोधनं परित्यज्य प्रातस्तरुत्थखगवत् दिशो दिशं पलायाञ्चक्रिरे । ८० ततस्तत् क्षुभितं गोधनं शनैः शनैश्चरदरुणोदयसमये तत्क्षेत्रसमीपमागमत् । स कृषीवलो गोमुखाभिमुखं यावद् दधाव तावद् निर्मनुष्यं सर्वं दृष्ट्वैवमचिन्तयत् मम शङ्खशब्दं श्रुत्वा तस्करा गोधनं तत्यजुः तत्राऽभिशङ्कया, पापः सर्वत्र शङ्कते । निःशङ्कः स कृषीवलस्तद्गोधनं गृहीत्वा ग्रामे सर्वस्मै ददौ । स उवाच-‘“मह्यं देवतयाऽदो गोधनं दत्तं भवद्भिर्गृह्यतामिति । ततः स ग्रामवासिजनसमूहेन गोमान् कृतः । ग्रामस्तु तं ग्रामयक्षमिव मेने, यतो यो ददाति स देवता भवति । स कृषीवलो लब्धप्रसरो द्वितीयेऽपि वर्षे क्षेत्रं गत्वा तत्र निशि शङ्खं ध्मातुमारेभे । एकदा त एव चौरा अन्यस्माद् ग्रामाद् गोधनं हृत्वा तत्क्षेत्रस्य निकटे महानिशि समाजग्मुः । तस्य शङ्खधमस्य महान्तं शङ्खध्वनिं श्रुत्वा सुष्ठु सौष्ठवं समाश्रित्य परस्परं जगदुः- “अत्र प्रदेशेऽत्र क्षेत्रे पुरा शङ्खध्वनिर्यथा श्रुतस्तथाऽधुनाऽपि श्रूयते । ते गुहात एवाssवासाः सन्ति । कोऽप्ययं क्षेत्रपालकोऽस्ति, प्राणिभ्यः क्षेत्ररक्षार्थं शङ्खं नूनं धमति । वयं धिक् यत् पुरा शङ्खध्मानेन वञ्चिता अभूम " । ततस्ते तस्करा तूलवर्तिका इव हस्तान् घर्षयन्तो दन्तैरधरान् पीडयन्त यथा गोस्तनात् वत्सास्तथा हस्तिनः शुण्डादण्डानिव लकुटानुत्थापयन्तो क्षेत्रान्तर्गोवृषा इव शस्यान्यान्दोलयन्तश्चौरकुञ्जराः शङ्खनादानुसारेण गच्छन्तस्तं मञ्चरूढं शङ्खधमं नरं ददृशुः । परिशिष्टपर्व द्वितीयः सर्गः मञ्चकाष्ठान्यान्दोल्य मञ्चं भूतले न्यपातयन् । सोऽपि कृषीवलो निराधारो भुवि पपात, यतो निराधारं न किञ्चिदप्यवतिष्ठते । ८१ ततश्चौराः कणमूटकवत् तं लकुटैरताडयन् । स भुञ्जान इव मुखे पञ्चाङ्गुलीश्चिक्षेप । ते चौरास्तत्करौ संयोज्याऽस्थिनिर्मग्नबन्धं बद्ध्वा बद्धाञ्जलिमिव तमलक्षयन् । चौरास्तस्य गवादि - वस्त्रान्तं धनमग्रहीषुः । तदा क्षेत्रपालो नग्नः सन् क्षेत्रपाल इवाऽभवत् । ते चौराः शङ्खधमं तत्रैव मुक्त्वा ययुः । प्रातर्गोपास्तं पप्रच्छुः, सोऽपीदमचकथत्- "धमेद् धमेत्, परन्तु नाऽतिधमेत्, यतोऽतिध्मातेन यद् ध्मातोपार्जितधनं तद् मया हारितम् । हे नाथ! तस्मात् तवाऽप्यतिशयः कर्तुं नोचितः । अस्मानपि पाषाणकठोरस्त्वमवज्ञातुं नाऽर्हसि । ततो जम्बूरम्बुशीतलवाचोवाच"अहं यथा शैलेयवानरो बन्धनानभिज्ञस्तथा नास्ति । तथाहिशैलेयवानरकथा वनलक्ष्म्याऽवन्ध्यो विन्ध्यो नाम गिरिरस्ति । तत्रैको महावानरयूथपतिर्बभूव । विन्ध्याद्रिवनगह्वरे कुमार इव स यूथसम्भवान् सर्वान् वानरान् निराकरोत् । स एवैको महाबलो वानरीभिः सार्धं बहुवनिताराज्यसाम्राज्यसुखलीलां वितन्वन् रेमे । एकदा कश्चिद् युवा वानरो मदोद्धतो वानरीरागाद् वृषस्यन् तं वानरमनादृत्य कस्याश्चिद् वानर्या धवलदन्ताङ्कुरं पक्वारुणविकसद्दाडिमसन्निभं मुखं चुचुम्ब । कस्याश्चिन्मुखं केतकीपुष्पपरागेणाऽऽच्छादयामास । कस्याश्चिद् गले गुञ्जहारं स्वयं कृत्वा पर्यधापयत् । कस्यैचिद् बिल्वदलैर्वीटिकां कारं कारं समर्पयामास । कामपि निर्भरमालिङ्गय

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128