Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 46
________________ परिशिष्टपर्व - द्वितीयः सर्गः ७९ mannnnnnnnnnnnnnnnnnn ७८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः किं समागतोऽसि ? तव भ्राता क्वाऽस्ति ?" इति श्रुत्वा प्रोवाचाऽसौ विद्युन्मालिवृत्तान्तमादितः । अवसरे विद्युन्मालिनः सा चाण्डाली प्रिया पुत्रमजीजनत् । स विद्यासिद्धिमिव तां प्राप्याऽमोदत । स कुबुद्धिस्तस्यां म्लेच्छ्यां परमप्रेम्णाऽऽसक्त्या च विद्याधरसुखं व्यस्मरत् । सा काण-दन्तुरा चाण्डाली विद्युन्मालिना सह यथासुखं क्रीडन्ती पुनरपि गर्भ दधौ । इतश्च विद्यासम्पन्नो मेघरथस्तत्र वर्षान्ते जगाम भ्रातृस्नेहवशात् । सोऽचिन्तयदेवम्-"अहं स्वर्गाङ्गनासदृशविद्याधरवधूवृतोऽस्मि । स मे भ्राता काण-दन्तुरम्लेच्छीगार्हस्थ्यनरके स्थितः । अहं पुनः सप्तभूमे प्रासादे उद्यानशोभिते निवसामि, स तु श्मशानास्थिव्याप्ते चाण्डालकुटीरके वसति । अहं नानाविधविद्यद्धिभिः सिध्यमानमनोरथोऽस्मि, स तु जीर्णवस्त्रधारी कदन्नभुक् चाऽस्ति"। एवं विद्युन्मालिनि सौभ्रात्रानुरूपं चिन्तयन् मेघरथो वसन्तपुरपत्तनं जगाम । तत्र गत्वा भ्रातरमुवाच-“हे भ्रात: ! त्वं वैताढ्यगिरौ विद्याधरसुखैश्वर्यं महत्तरं कथं न भुङ्क्षे ?" ततो विद्युन्माली विलक्षं हसित्वेदमूचे-“हे भ्रातः ! इयं पत्नी मम बालवत्सा पुनर्गर्भवती विद्यते, तस्मादिमामनन्यशरणां सुपुत्रां गुविणीं वज्रहृदयस्त्वमिव नाऽहं त्यक्तुं शक्नोमि । हे भ्रातस्तस्माद् गच्छ, अन्यदा दर्शनं दद्याः, अहममुं समयमत्रैव यापयिष्यामि, त्वं मा क्रुध्य" । ततो मेघरथस्तं प्रबोधं प्रबोधमतिखिन्नः पुनस्ततो निरगमत्; यतोऽतिजडे नरे हितोऽपि जनः किं कर्तुं शक्नुयात् ? अथ विद्युन्माल्यपि द्वितीये पुढे जाते चाण्डालकुलं स्वर्गादप्यधिकं मुदाऽमन्यत । वस्त्र-भोज्यादिदौःस्थ्येऽपि स दुःखं न विदाञ्चकार । तौ चाण्डालीकुक्षिभवौ बालौ सलीलमुदलालयत् । स ताभ्यां क्रोडस्थाभ्यां पुन: पुनर्मूत्रयद्भयां गन्धोदकस्नानमिव मूत्रस्नानममन्यत । तं म्लेच्छ्यपि सुभगंमन्या पदे पदे ततर्ज; तथाऽपि तदासक्तः स चाण्डालकुलकिङ्करो बभूव । मेघरथः पुनर्भ्रातृस्नेहवशादागत्य गद्गदया वाचा विद्युन्मालिनमालिङ्गय जगाद-“हे कुलीन ! त्वं चाण्डालकुले मा तिष्ठ, तवाऽत्र काऽऽस्था ? हंसो मानसोत्पन्नः किं गृहस्रोतसि रमते ? यत्र कुले त्वमुत्पन्नोऽसि तत्कुलं न मलिनीकुरु । यथा धूमेनाऽग्निस्तथा त्वमनेन दुराचारेण मलिनो जातः" । एवं प्रबोध्यमानोऽपि स नाऽऽगन्तुमैच्छत् । ततो मेघरथो नाऽहमत्र पुनरागमिष्यामीत्युक्त्वा ततोऽगमत् । अथ मेघरथः पैत्र्यं राज्यं चिरमपालयत् । एवं मेघरथो बुद्धिमान् सुखराशि लेभे, विद्युन्माली तु भवसागरे बभ्राम । हे पद्मसेने ! विद्युन्मालीवोत्तरोत्तरसौख्यातिलम्पटो रागान्धो न भविष्यामि । ततः कनकसेनोवाच-“हे स्वामिन् ! किञ्चिन्मामपि मानय । शङ्खधमक इव त्वमतिशयं न कुरु । शङ्खधमककथा शालिग्रामे कश्चिदेकः कृषीवलो बभूव । स प्रातरारभ्य सायं यावद् नित्यं क्षेत्रं ररक्ष । स क्षेत्रसमुद्रे मञ्चपोतमारूढः शङ्खशब्देन दूरादागच्छतः सत्त्वान् पलाययामास । एकदा चौरा गोधनं चोरयित्वा क्षेत्रसमीपे समागताः शङ्खनादं श्रुत्वैवमचिन्तयन्-"अहो ! अमी

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128