Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 45
________________ परिशिष्टपर्व - द्वितीयः सर्गः ७७ RAA A Amainnnnnnnnine लि त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः किं पश्यसि ? तच्छ्रुत्वा सुष्ठ बिभ्यत्यास्तस्या: स व्यन्तरदेवो महद्धिकं स्वं रूपं दर्शयित्वैवमवोचत्-“हे पापे ! यद्यपि त्वं पापमेवाऽकृथास्तथाऽपि पापपङ्कजलप्लवं जिनधर्म समाश्रयः । हे मुग्धे ! यो हस्तिपकस्त्वया मारित: सोऽहमस्मि, जिनधर्मप्रभावात् देवत्वं प्राप्तोऽस्मि; मां पश्य । ततोऽहमपि जिनधर्मं प्रपत्स्य इति कृतनिर्णयां तां स साध्वीसन्निधौ नीत्वा परिव्रज्यामग्राहयत् । तस्मादस्माद् दृग्जनायोग्यान् प्रवर्तक-निवर्तकान् दृष्टान्ताननादृत्य त्वं वैषयिकं सुखं भुक्ष्व । ततो जम्बूनामाऽपि जगाद-"अहं विद्युन्माली खेचर इव रागग्रहिलो नाऽस्मि; तस्य चरितं त्वं शृणु" । विद्युन्मालिकथा इह भरतक्षेत्रे पक्षाभ्यां पक्षीव भरतार्धाभ्यां सम्पृक्तो वैताढ्यनामकः पर्वतोऽस्ति । तत्रोत्तरश्रेणिभूषणं गगनवल्लभनामकं पुरवरमस्ति यद्देवानामतिप्रियं विराजते । तस्मिन् पुरे मेघरथो विद्युन्माली चेति नामतो द्वौ प्रीतिमन्तौ तरुणौ विद्याधरौ सोदरावभूताम् । तौ विद्यां साधयितुं मन्त्रयामासतुः । भूगोचरसमीपे यामस्तत्रैवाऽऽवयोर्विद्या सेत्स्यति । तद्विद्यासाधनेऽयं विधिर्यत्अतिनीचकुलजाता कन्या विवाह्या, ततो वर्षपर्यन्तं ब्रह्मचर्य पालनीयमिति । ततो गुरूननुज्ञाप्याऽत्र दक्षिणे भरतार्धे द्वावपि तौ वसन्तपुरनगरमाजग्मतुः । ततश्चाण्डालावासं चाण्डालवेषेण गत्वा तौ बुद्धिप्रभावेण चाण्डालमाराधयाञ्चक्राते । ततश्चाण्डाला आराधिताः प्रसन्नाः सन्तः प्रोचुर्युवयोश्चिरागतयोः किमत्र प्रयोजनमस्ति ? तत् कथयतम् । तौ सद्भावं गोपयित्वोचतुः "हे हिताः ! आवां क्षितिप्रतिष्ठनगरादागतौ स्व:, आवां पितृभ्यां हि कुटुम्बमध्याद् बहिष्कृतौ, इति हेतोः क्रोधेन निर्यन्तौ भ्रमन्ताविहाऽऽगतौ स्वः" । ततश्चाण्डाला ऊचु:-"युवामस्मत्कन्ये परिणेष्यथस्तदाऽस्मत्कुलोचितं सर्वं करिष्यथ" । तावुचतु:-"आम्" इति । ततो मातङ्गास्ताभ्यां द्वे कन्ये काणदन्तुरे प्रादुः । विद्युन्माली तु कुरूपायामपि कन्यायां रक्तोऽभूत्, न विद्यामसाधयच्च । क्रमेण विद्युन्मालिभार्या गर्भवत्यभूत्, पूर्णे गर्भ च मेघरथो विद्यां साधयित्वा सिद्धविद्योऽजनि । ततो मेघरथो भ्रातृस्नेहाद् विद्युन्मालिनमुवाच-“हे भ्रात: ! वयं सिद्धविद्याः स्मः, चाण्डालकुलं त्यज । वैताढ्यसुखसम्पद्योग्यौ भवावः, अतस्त्वं चाण्डालकन्यां त्यज । वैताढ्ये खेचर्यः स्वयंवरा भाविन्यः सन्ति" । सलज्जो विद्युन्माल्यवदत्-“हे सुव्रत ! त्वं सिद्धविद्योऽस्यतो कृतकृत्यः सन् वैताढ्यं याहि । अहं तु नियमपादपं भग्नवांस्ततोऽधमः कथं नियमतरुजन्यं विद्यासिद्धिफलं प्राप्नुयाम् । हेऽनघ ! इमां वराकी जातगर्दा त्यक्तुं नाऽहं शक्नोमि । पुनरसिद्धविद्योऽहं त्वया सह गन्तुं जिहेमि । त्वं साधितविद्यो याहि, अहं पुनरसाधितविद्यो बन्धूनां मुखं कथं दर्शयिष्यामि ? अमुना प्रमत्तेन मयाऽऽत्मनैवाऽऽत्मा वञ्चितः । अहमिदानीमुद्योगतत्परो विद्या साधयिष्यामि, त्वं मां भ्रातरं हृदि धारयन् वर्षान्ते पुनरिहाऽऽगच्छे:, तदा त्वया सह साधितविद्योऽहं यामि" ।। ततो मेघरथश्चाण्डालीप्रेमपाशबद्धं विद्युन्मालिनं नेतुमशक्त एकाक्यपि वैताढ्यगिरिं ययौ । तत्र बन्धुभिः स पृष्टः-"त्वमेकाकी

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128