Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व - द्वितीयः सर्गः
७३
७२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो राजा कुपितः तां राज्ञी लीलाकमलनालेनाऽताडयत् । सा मूर्छानाटितकं कृत्वा भूमावपतत् ।
नृपोऽप्येवं दध्यौ-या स्थविरेणोक्ता सेयं कुलपांसिनी पापीयसी दुश्चारिणी मम राज्ञी वर्तते । तत्पृष्ठं निरूपयञ्छृङ्खलाघातदर्शनात् स्मयमानो नखाच्छोटनिकापूर्वकमिदमुवाच स राजा-“हे दुश्चरिते ! त्वं गजेन क्रीडसि, अस्माद् दारुहस्तिनो बिभेषि, पुनस्त्वं शृङ्खलाघाताद् मोदसे कमलघाताद् मूर्च्छसि च । राजा प्रदीप्तकोपप्राग्भारो वैभारगिरौ गत्वा तं हस्तिपकं हस्त्यारूढमाजूहवत् । ततस्तेन सह तां राजी गजासने समारोपयत् । उग्रशासनो राजा तं हस्तिपकाधम समादिशत्-"गजं विषमगिरिप्रदेशारूढं कृत्वा निपातयेः, तेन युवयोनिग्रहो भवतु ।
आधोरणस्तं हस्तिनं पर्वतशिखरे त्रिपद्योत्क्षिप्तैकपादं स्थिरं धारयामास । तदा जनो हाहाकुर्वन्नुवाच-"राजशिरोमणे ! आज्ञाकारिणः पशोर्गजेन्द्रस्य मारणं नोचितं भवति" । अनाकणितकं कृत्वा पातयेत्येवोपदिशति राज्ञि हस्तिपको गजं द्वाभ्यां पद्भ्यामधारयत् । पुनर्लोके “हाहाऽयं गजो न हन्तव्य" इति वदति सति राजा तूष्णीकोऽभूत् । हस्तिपकश्च तं गजमेकपादस्थं दधौ ।
लोको हस्तिरत्नस्य मारणं द्रष्टुमसमर्थो हाहाकुर्वन्नूर्ध्वस्थितैर्भुजै राजानमुवाच-“हे क्षितिवल्लभ ! अयमन्यगजासह्यः सुशिक्षितो दक्षिणावर्तवद् दुष्प्रापो वालनीयोऽस्ति" । राजन् ! त्वं प्रभुरसि तस्मादपराधिनोर्यदिच्छसि तत् करोषि; परन्त्वविवेकजमयशस्तव निरङ्कुशं स्यादिति विद्धि । हे स्वामिन् ! त्वया स्वयं कार्याकार्ये विचार्ये, ततः स्वयं विचार्य हस्तिरत्नं रक्ष, न: प्रसीद ।
राजाऽप्युवाच-"अस्त्वेवं, यूयं सर्वे मद्वचसेमं हस्तिपकं हस्तिरक्षणाय वदत" । ततो लोका ऊचुः-“हे आधोरणशिरोमणे ! इयती भूमिकां प्रापितं गजं निवर्तयितुं त्वं शक्नोषि ? स उवाच"यदि राजाऽऽवयोरभयं ददाति तदा सुखेनोत्तारयामि" । तदा राजलोकैविज्ञप्त:-“हे राजन् ! अनयोरभयं देहि । ततो हस्तिपकः शनैस्तं गजमुदतारयत् । ततो गजस्कन्धाद् राज्ञी-हस्तिपकावुत्तीर्णौ । मद्देशस्त्यज्यतामित्युक्तौ तो पलायाञ्चक्राते ।
तौ नश्यन्तौ सायंकाल एकं ग्रामं जग्मतुः । तत्रैकस्मिञ्छून्ये देवालये सहैव सुषुपतुः । एकश्चौरो ग्रामादर्धरात्रे तदारक्षकेभ्यो नंष्ट्वा तद्देवकुले प्राविशत् । तद्देवकुलं ग्रामारक्षकाः प्रातर्वयं चौरं ग्रहीष्याम इति वदन्तः पर्यवेष्टयन् । चौरोऽप्यन्धवत् कराभ्यां देवकुलं शोधयन् यत्र तौ शयानौ बभूवतुस्तत्र शनैर्ययौ । तस्करेण स्पृश्यमानोऽपि न हस्तिपकोऽजागरीत्, यतः श्रान्तस्य निद्रा वज्रलेपवत् सज्यते । परं चेषत्करस्पृष्टाऽपि राज्ञी शीघ्रमजागरीत् । तस्मिश्चौरे स्पर्शमात्रादनुरागिणी भूता सा त्वं कोऽसीत्युवाच च शनैः । सोऽपि तस्करः शनैरित्युवाच-"अहं चौरोऽस्मि" । अहं धावत्सु ग्रामरक्षकेषु प्राणत्राणार्थमत्र प्राविशम् । सानुरागाऽसतीब्रुवा सा चौरमब्रवीत्-"हे सुभग ! यदि मामिच्छसि तदा त्वं रक्षामि नाऽत्र संशयः" ।
चौर उवाच-“हे वरवणिनि ! मया कनकं सुगन्धश्च प्राप्तौ, यतो मम पत्नी भवसि जीवितं च रक्षसि । परं कोऽत्र प्रकारो येन मां रक्षसि तत् कथयित्वा हे धीमति ! मामाश्वासय" । सा प्रोवाच"हे सुभग ! ग्रामरक्षकेष्वागतेषु त्वां पति वक्ष्यामि" । सोऽब्रवीत्"एवमस्त्विति" । तदा प्रातःकाले शस्त्रपाणिभिः प्रविष्टैर्भूभङ्गभी

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128