Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 41
________________ ६८ परिशिष्टपर्व - द्वितीयः सर्गः त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm सा स्वर्णकारस्नुषा पादनुपुराकर्षणेनाऽजागरीत् । प्रायः सभयसुप्तानां निद्रा स्वल्पैव भयादिव भवति । साऽपि श्वशुरेणाऽऽकृष्टं पादनूपुरं ज्ञात्वा जारपुरुषमुत्थाप्य भयव्यग्रा जगाद-"शीघ्र पलायस्व, यत आवां दुरात्मना श्वशुरेण दृष्टौ स्वः, ममाऽनर्थे समागते सहायतायै त्वं यतेथाः" । स जार आमित्युक्त्वाऽर्धसंवीतवस्त्रो भयात् पलायाञ्चक्रे । पुंश्चल्यपि सा शीघ्रं गृहे गत्वा भर्तृपार्श्वेऽशेत । सा धृष्टतां नाटयन्ती बुद्धिमतीनां धुरन्धरा गाढालिङ्गनपूर्वकं स्वपति प्रबोधयाञ्चकार, पतिं चोवाच सा-“हे नाथ ! इह मां धर्मो बाधते, तत्पवनान्दोलितपल्लवामशोकवनिकामितश्चल" । स देवदिन्नोऽपि स्त्रीप्रधान उत्थाय सरलत्वादशोकवनिकां गत्वा कण्ठलग्नया दुर्गिलया सह जारस्थानेऽशेत । साऽपि तत्रैव निर्भरमालिङ्गयाऽशेत । तत्पतिस्तत्राऽपि सरलाशयो निद्रां प्राप, यतोऽक्षुद्रमनसां निद्रा सुलभैव भवति । अथ सा धूर्ता नटीव गोपिताकारा पतिमुवाच-"हे नाथ ! त्वत्कुले कोऽयमाचारो, यो वक्तुमपि न शक्यते । त्वामालिङ्ग्य प्रसुप्ताया आवरणरहितवक्षसो मे पादात् तव तातो नूपुरमाकृष्याऽग्रहीत् । पूज्यानां वध्वाः स्पर्शोऽपि नोचितः, रतवेश्मनि पत्या सह प्रसुप्तायास्तस्याः का कथा ?" "हे मनस्विनि ! प्रातरहं सोपालम्भं पितरं वक्ष्यामि त्वत्समक्षे" इति दुर्गिलां देवदिन्न आश्वासयामास । दुर्गिलोवाच-"अधुनैव त्वं पितरं कथयितुमर्हसि, अन्यथा प्रातर्मां परपुरुषेण शयितां कथयिष्यति । सोऽप्युवाच-"मम सुप्तस्य वध्वाः पादनूपुरमहार्षीदित्यहं पितरमाक्षिप्य वक्ष्यामि । तव पक्षेऽस्मि, किल त्वं निश्चिन्ता भव" । हे नाथ ! यथाऽधुना त्वं वदसि तथा प्रातरपि कथयेः" सा धूर्तेति स्वपति बहूञ्छपथान् कारयामास । ततः प्रभाते देवदिन्नः कुपित: स्वपितरं जगाद-"त्वं किं मम स्त्रिया: पादनूपुरमकर्षः" । स वृद्ध उवाच-"हे पुत्र ! इयं वधूः दुःशीलाऽस्ति, मयाऽशोकवने रात्रौ परपुरुषेण शयिता निरैक्षि, इयं दुःशीलेति तव विश्वासार्थमस्याः पादाद् नूपुरमाकर्षम्" । तदा पुत्र उवाच-“हे पितः ! तत्राऽहं सुप्तोऽपरः कोऽपि पुरुषो न शयितोऽभूत् । निर्लज्जेन त्वया किमीदृशं लज्जितोऽस्मि । वध्वा नूपुरमर्पय, त्वं न विगोपय तत्, मयि सुप्ते तत्त्वयाऽऽकृष्टं ममेयं स्त्री प्रकृष्टा सती वर्तते खलु" । स्थविर उवाच-"यदाऽहमस्या नुपूरमाकर्षं तदा गृहमागत्य त्वामपश्यं, त्वं गृहे शयित आसी: किल" । ततो दुर्गिलोवाच-"अहं स्वस्य दोषारोपणं न सहे, दैवी क्रियां कृत्वा पितरं प्रत्याययिष्यामि । मम कुलीनाया ईदृशं दोषारोपणं वाड्मात्रमपि न शोभते यथा धौतधवलवस्त्रे मषीबिन्दुः । इह शोभनयक्षस्य जयाभ्यन्तरे निःसराम्यहं, यत्तज्जवयोर्मध्येऽशुद्धो न गन्तुं शक्नोति । अथ सविकल्पेन पित्रा निर्विकल्पेन पुत्रेण प्रागल्भ्यमहानिधेस्तस्याः प्रतिज्ञा स्वीचक्रे । सा स्नात्वा धौतवस्त्रधरा धूपपुष्पोपहारपाणिः सर्वबन्धुसमक्षं यक्षं पूजयितुं जगाम । सङ्केतितः स जारः यक्षमर्चयन्त्यास्तस्याः कण्ठदेशे कवर्गवद् ग्रहिलीभूयाऽलगत् । जनैः स ग्रहिल इति गले धृत्वा दूरेऽपास्यत । सा पुनः स्नात्वा यक्षमचित्वैवं व्यजिज्ञपत्-"चेद् मया पति विना मत्कण्ठे प्रत्यक्षम, ग्रहिलं च विना कदाऽपि नाऽन्यः पुमानस्पर्शि तदा मे शुद्धिदो भूयाः, यतः सत्याः सत्यप्रियोऽसि" । किं करोमीति चिन्तया यावद् यक्षोऽप्याविष्टस्तावत् तज्जययोर्मध्ये साऽविलम्बेन निर्जगाम । शुद्धा शुद्धेति तुमुलकारिणि जने तस्या गले राजाध्यक्षाः पुष्पमाल्यं


Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128