Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
Mammmmmmmmmmmmmmmmmmmmmmmminine भाषणेन का कथा ?" एवं निर्भत्सिताया गच्छन्त्यास्तापस्याः पृष्ठे दुर्गिला सौधकुड्य इव मषीमलिनकरं ददौ।
तदाशयमजानाना सा विलक्षा तपस्विनी दुःशीलपुरुषं गत्वा परुषाक्षरैरुवाच-“हे दुःशीलपुरुष ! त्वं मां मिथ्यैवमवादीर्यद् मय्यनुरागिणी साऽस्ति" | सा हि विशालसतीगर्वा मां शुनीमिवाऽतर्जयत् । हे मुग्ध ! मम दूत्यं तस्यां कुलाङ्गनायां व्यर्थमभूत्, यतः सुभित्तौ चित्ररचना चतुरस्य शोभते । गृहकर्मव्यग्रया कुपितया तया मषीमलिनकरेण चपेटया पृष्ठेऽहमाहताऽस्मि" इत्युक्त्वा सा तापसी दुर्गिलादत्तमषीमलिनकराङ्कितं स्वपृष्ठं धूर्तवरायाऽदर्शयत् ।
तदा स एवं व्यचारयत्-"कृष्णपञ्चम्यां ध्रुवं सा सङ्केतमदात्, यदस्याः पृष्ठे पञ्चाङ्गुलिर्मषीहस्तो न्यस्तः, अहो ! तस्याश्चातुरी काऽप्यपूर्वा या सङ्केतवासरं सूचयति । हे मनो ! अनया भङ्गयाऽऽश्वसिहि; अहो ! सा सङ्केतस्थानं तु केनाऽपि हेतुना न सूचयाञ्चक्रे । तदद्याऽपि तत्सङ्गमे विघ्नो वर्तते । पुनश्च स तापसीमुवाच-“हे तापसि ! तस्या आशयं त्वं न जानासि । सा मय्यनुरागिण्येवाऽतो भूयोऽपि तां प्रार्थय । हे मातः ! मत्प्रयोजने सर्वथाऽनुत्साहं मा कृथाः । भूयोऽपि त्वं गच्छ । यत उत्साहो लक्ष्मीलताया आदिमं मूलमस्ति" ।
साऽपि जगाद-"सा कुलीना तव नामाऽपि न सहते । स्थले जलारोपणमिव तवेप्सितं दुष्करं प्रतिभाति । त्वदर्थसिद्धिस्तु संदिग्धा, मम भर्त्सनं तु नि:संदिग्धमेव । तथाऽपि ह्यनाशां त्यक्त्वा शीघ्रं यास्यामि", इत्युक्त्वा तापसी पुनरपि दुर्गिलां गत्वाऽमृतद्रवसदृशैर्वचनैरुवाच-“हे दुर्गिले ! रूपेणाऽऽत्मानुरूपं तं युवानं प्राप्य तेन
परिशिष्टपर्व - द्वितीयः सर्गः रमस्व । यौवनफलं गृहाण । यतो यौवनस्येदं फलमस्ति" । दुर्गिला तां तापसीं भर्त्सनापूर्वकं गले धृत्वा रुष्टेवाऽशोकवनिकाप्रत्यग्द्वारेण निःसारयामास । सा तापसी लज्जावशाकृष्टोत्तरीया गोपितमुखी खेदभाग् द्रुतं गत्वा तस्य पुंसो दुर्गिलावृत्तं कथयामास-“हे पुमन् ! अहं तया प्राग्वद् भत्सिता गले धृता पश्चाद्वाराऽशोकवनान्तराद् निःसारिताऽस्मि ।
ततो धीमान् स पुमानेवं दध्यौ-"अशोकवनिकान्तरे त्वमागच्छेरिति सङ्केतस्तया दत्तो मम" । तामुवाच-“हे तापसि ! तया भर्त्सना कृता सा सोढव्या । अतः परं सा दुष्टा त्वया न किमपि वाच्या" । ततः स युवा कृष्णपञ्चम्यां सायंकालेऽशोकवनिकान्तरे पश्चिमद्वारेण जगाम । स युवा मार्ग पश्यन्तीं तामपश्यत्, साऽपि तमद्राक्षीत् । तयोविवाहवदस्खलितस्तारामेलकोऽभूत् । नयने इव परस्परं बाहू प्रसारयन्तौ तौ द्वौ रोमाञ्चोत्फुल्लसर्वाङ्गावधावताम् । तौ प्रागप्येकचित्तौ तदा त्वेकीभवत्कायौ समुद्र-नद्याविव दृढतरमालिलिङ्गतुः । प्रेमगर्भाभिर्वार्ताभिर्नवनवैः रतैः संभोगसमुद्रनिमग्नौ तौ रात्रेर्यामद्वयमतिनिन्यतुः । रतायासशालिनोर्भुजगण्डोपधानयोस्तयोनयनकमलनिशा निद्रा सञ्चक्राम ।।
इतश्च देवदत्तनामा स्वर्णकारः कायचिन्तार्थमुत्थितोऽशोक वनिकां ययौ । तौ शयानौ दृष्ट्वाऽचिन्तयच्च-"इयं मम स्नुषा पापीयसी, तां धिक्, यदियं परपुंसा सह रतश्रान्ता नितान्तं स्वपिति" । स वृद्धो जारश्चाऽयमिति निश्चेतुं गृहं गत्वा सुप्तं पुत्रं दृष्ट्वेति व्यचारयत्-"एतस्याश्चरणनूपुरमाकर्षामि शनैः, यथा मे पुत्रो विश्वसिति यदियं स्नुषाऽसती विद्यते" । इति ध्यात्वा चौर इव सद्यस्तत्पादनूपुरं शनैराकृष्य देवदत्तस्तेनैव मार्गेण स्वगृहमाययौ ।

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128