Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 39
________________ ___ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सोज्ज्वलवस्त्रैः सर्वाङ्गस्वर्णभूषणैश्च मूर्ता जलदेवतेव भासमाना नदीतीरमलञ्चकार। कामदेवस्य दुर्गभूमिमिव स्तनद्वयं दर्शयन्ती सा पृथुलस्तनी कञ्चुकं शनैः शरीरादुत्तारयामास । सा कञ्चुकं चोत्तरीयं च सख्या: समर्प्य वस्त्रार्धेन कुचौ गोपयामास । निपुणसखीजनालापैर्विदग्धा सा जीवितकामदेवा मरालीव मन्दं मन्दं तटात् तटं विवेश । तां नदी दूरादप्युत्क्षिप्तैस्तरङ्गहस्तैश्चिराद् दृष्टां सखीमिव सर्वाङ्गे समालिलिङ्ग । सा चकितहरिणाक्षी जलेन रिरंसुररित्रदण्डाभ्यां नौरिव कराभ्यां जलमदारयत् । कुतूहलात् तस्याश्चिरं स्नान्त्या जलं विकिरन्त्याश्चलौ करौ नृत्यत्कमलविभ्रमौ रेजाते । सा श्लथैकवस्रा, विलुलितकेशपाशा, धवलदन्तावलीका, जलक्रीडापरा, रतोत्थितेवाऽलक्ष्यत । समुद्रे सुरीमिव नद्यां रममाणायां तां पर्यटन् दुःशीलः कोऽपि युवा नागरिको ददर्श । जलार्द्रसूक्ष्मैकवस्त्राच्छादितामपि सुदर्शसर्वावयवां तां दृष्ट्वा स नागरयुवा क्षोभादिदं पपाठ-"सुस्नातमिति नदी ते पृच्छति, अमी वृक्षाश्च पृच्छन्ति, त्वत्पादकमलयोनिपतन्नहमपि पृच्छामि" । साऽप्यपाठीत्-"नद्यै स्वस्त्यस्तु, वृक्षाश्च चिरं नन्दन्तु, सुस्नातप्रच्छकानां समीहितमहं करिष्यामि । स युवा मनोरथवृक्षोद्भवेऽमृतसेकोपमं तस्या वचनं श्रुत्वा नृपाज्ञयाऽवरुद्ध इव तथैवाऽस्थात् । स केयमिति चिन्तयन्नेकस्य वृक्षस्याऽध उच्चैर्मुखान् फलपाताभिकाङ्क्षिणो बालानपश्यत् । तत: स युवा लोष्टैस्तरुशाखाः प्रताडयन् फलानि चटरटेति भूतले पातयामास । स यथेष्टं तत्फललाभहृष्टान् बालानपृच्छत्-“हे बाला: ! नद्यामस्यां स्नानकी केयमस्ति ? अस्याश्च नार्याः क्व गृहम् ?" ते बालाः कथयामासुः परिशिष्टपर्व - द्वितीयः सर्गः "इयं स्वर्णकारस्य देवदत्तनाम्नः स्नुषा वर्तते, अस्या गृहमितोऽतिनिकटे वर्तते, दुर्गिलाऽप्येकचेतसा तं युवानं ध्यायन् स्नानक्रीडां विहाय तत्क्षणे स्वगृहं ययौ । कस्यां निशि, कस्मिन् दिने, क्वदेशे, क्वक्षणे आवां मिलिष्याव इति तौ दिवानिशं चिन्तयामासतुः । वियोगपीडितौ तौ युवानी परस्परसङ्गमकाक्षिणौ चक्रवाकाविव चिरमनुरागिणावतिष्ठताम् । अन्येद्युः स युवैकां तापसी पुंश्चलीकुलदेवतां भोजनद्रव्यादिभिः परितोष्य प्रार्थयामास-“हे तापसि ! त्वं देवदत्तस्नुषाया मम च परस्परानुरक्तयोः साक्षाद् नियतिदेवतेव शीघ्रं सङ्गमं कारय । हे तापसि ! मया स्वयं दूतीभूय सा सुन्दरी भाषिता, मम सङ्गमं सा स्वीकृतवत्यस्ति, अतस्तव सम्प्रति तत्सङ्गमः सुसाध्योऽस्ति । सा धीमती तापसी तद्वचनं स्वीकृत्य सद्यो देवदत्तस्य गृहं भिक्षाव्याजेन ययौ । स्थालीपरिष्कारे कृतव्यापारां स्वर्णकारवधू सा परिव्राजिकाऽद्राक्षीत्, तामिदं प्रोवाच-“हे वधु ! त्वामेको युवा मूर्तकामदेवो रिरंसुर्मन्मुखेन त्वां प्रार्थयते । हे विशालाक्षि ! मामुदासीनां मा कृथाः, मत्प्रार्थितं सफलीकुरु । रूपेण वयसा बुद्ध्या चातुर्याद्यन्यगुणैश्च स्वानुरूपं तं युवानमासाद्य यौवनं कृतार्थय । हे वधु ! यदवधि त्वामसौ नद्यां स्नान्तीमपश्यत् तदवधि त्वद्गुणोद्गानवातूलोऽन्यस्त्रीनामाऽपि न जानाति" । धीमती दुर्गिलाऽपि निजहृदयभावं गोप्तुं तां तापसीमेवं परुषाक्षरपूर्वकमतर्जयत्-“हे मुण्डे ! त्वं किं मद्यं पीतवत्यसि ? यदेवं प्रलपसि, किं कुलीनेषु जनेष्वकुलीना कुट्टिन्यसि ? आस्त्वं मम नेत्रयोरग्रं त्यज, लुब्वददर्शना भव, तव दर्शनेनाऽपि पापं,

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128