Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
६० nanamannmmmmmmmmmmmmmmmmmmmmmmmnnnnn
परिशिष्टपर्व - द्वितीयः सर्गः
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स गजोऽन्यदा शुष्कपर्वतनद्यां समुत्तरन् स्खलितपाद एकं गिरिकूटमिव भुवि पपात । स चोत्थातुमशक्तस्तत्रैव पादोपगमनं पालयन्निव तस्थौ । तथास्थितोऽसौ विपेदे । विपन्नस्य तस्याऽऽपानमांसं श्व-जम्बूक-नकुलादयो बुभुजिरे । तस्य गजस्य सकन्दरपर्वतोपमं विशालापानरन्ध्रशरीरं श्वापदैनिवासीकृतमभूत् । तदीयापानयज्ञशालायां मांसार्थिन: काका द्विजा इव विविशुर्निर्जग्मुश्च ।
तत्रैको वायसो मांसभोजनादतृप्त उत्पन्नविट्कृमिरिवाऽऽपानमध्य एव तस्थौ । तस्मिन् सारं प्राप्नुवन् स काष्ठमध्ये धुणवदधिकाधिकं मध्ये प्रविवेश । स्वशरीरेण परकाये प्रवेशलीलां कुर्वन् स काको योगीवाऽभूत् । स गजकायमांसं स्वच्छन्दं भुजानोऽत्यन्तमध्यगत: पूर्वापरविभागाज्ञो बभूव । तस्य गजस्य मुक्तविष्ठं गुदरन्धं रविकरैः पूर्ववत् सञ्चुकोच ।
ततः स काकस्तस्य करिणः सङ्कोचितापाने बद्धद्वारे करण्डे सर्प इव तत्रैव तस्थौ । स गजकायो वर्षौ प्रवहन्त्या नद्या तरङ्गकरैर्नर्मदायामनीयत । नर्मदया च नक्राणामुपायनमिव तद्गजशरीरं तरत्प्रवहणमिव समुद्रमध्येऽनीयत । तत्र तस्मिन् प्रविशता जलेन तत्कलेवरमार्दीभूतम् । जलेनैव कृतद्वारात् तस्मात् स काको बहिर्निर्जगाम । तस्य गजकायस्याऽन्तरीपोपमस्योपरिष्टाद् निषद्य स सम्यग् दिगङ्गणं ददर्श । अग्रत: पार्श्वतः पश्चाच्च स जलमयं दृष्ट्वा दध्यौ-"समुड्डीय समुद्रात् तीरं गमिष्यामीति" । स चोड्डीयोड्डीय समुद्रजलस्य प्रान्तं न प्राप, अपि तु तत्कलेवर एवोपविवेश । मीन-मकरादिभिराक्रम्यमाणं तत्कलेवरं सागरे भाराक्रान्ता नौरिव सद्यो ममज्ज । सोऽपि निराधारो वायसः समुद्रे निममज्ज, जलाप्लावनभीत्येव सद्यः पञ्चत्वं प्राप ।
तत: स्त्रियो मृतवन्यगजसदृश्यः सन्ति, संसारश्च सागरसदृशोऽस्ति, पुरुषश्व काकतुल्योऽस्ति । गजकायसदृशेषु युष्मासु रागवानहमस्मिन् भवसागरे न मड्क्ष्यामि ।
जम्बूकुमारं प्रति पद्मश्रीकथिता वानरकथा अथ पद्मश्रीः प्रोवाच-“हे नाथ ! त्वमस्मान् परित्यजन् वानर इवाऽत्यन्तं तापं प्राप्स्यसि । तथाहि-एकस्यामटव्यां परस्परमनुरागिणी वानरो वानरी चाऽऽस्ताम् । तौ सदा सहैव निवसन्तावभूताम् । वेलन्धरपर्वताविव तौ मिथो बुभुजाते । युगपदेव तौ वृक्षेषु स्पर्धमानाविवाऽऽरुरुहतुः । एकरज्ज्वाकृष्टाविव युगपद् दधावतुः । एकचित्ताविवाऽनिशं सर्वं कार्यं चक्रतुः ।
एकदा तौ गङ्गातीरवानीरे रेमाते । तत्र वानरः प्लवमानोऽनवधानो भुवि पपात । तस्य तीर्थस्य प्रभावात् स वानरो विद्याबलादिवाऽमरकुमारसदृशो मनुष्यो बभूव । वानरं मनुष्यरूपं दृष्ट्वा वानरी च मनुष्यदेहेच्छुर्वानरमार्गेण प्राणांस्तत्याज । सा वानरी शीघ्रं देवीसदृशी नारी बभूव, नारीभूता सा पुनर्नवीनेन स्नेहेन नरभूतं तमालिलिङ्ग । तौ च नरीभूतौ प्राग्जन्मवदवियुक्तौ निशाचन्द्राविवाऽनिशं विलेसतुश्च ।
एकदा नरीभूतो वानरो नारीमुवाच-"प्रिये ! यथा प्राङ् मल्भूतावावां तथा देवीभवावोऽद्य" । वानरी प्रोवाच-"स्वामिन् ! भूयसाऽसन्तोषेणाऽलं, मनुष्यरूपावेवाऽऽवां सर्वान् विषयानुपभुज्वहे, देवत्वेन किं ? देवत्वादधिकं नौ सुखमस्ति, यत एकत्रैव स्वच्छन्दं निर्विघ्नं रमावहे । एवं वानर्या वार्यमाणोऽपि स वानरवरो नरस्तत्रैव वानीरादुच्चैझम्पां पूर्ववद् ददौ ।।

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128