Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कम्पमानजङ्घौ चकितलोचनौ पुंश्चली-जारौ परावृत्त्य गृहीताधोवस्त्रावगृहीतोत्तरीयवसनौ नग्नकल्पौ स्खलच्चरणौ तं दृष्ट्वा कान्दिशीको बभूवतुः । महेश्वरश्च लुब्धको भल्लूकमिव केशेषु गृहीत्वा मान्त्रिको भूताविष्टमिव तं जारं चपेटाभिस्ताडयामास । तथा कुम्भकारो मृत्तिकापिण्डमिव पादप्रहारैश्च तं मर्दयामास, पुनर्गृहप्रविष्टं कुक्कुरमिव लकुटेन चाऽताडयत्, किं बहुना ? महेश्वरस्तं जारमर्धप्राणमिव चकार । "मनस्विनां हि चौरतोऽप्यधिक: कोपो जारे जायते" । कृतान्तस्य बन्धुना इव कुपितेन महेश्वरेणाऽर्धमारितः स जारः कथमपि पलायाञ्चक्रे । ____ अथ किञ्चिद् गत्वा पतित: स गाङ्गिलाजारः कण्ठगतप्राणेष्विदं व्यचारयत्-"धिङ् मां यन्मरणप्रदमनार्यकृत्यमहमकार्ष, तद्वाञ्छितदं तीर्थमिव मम मरणायाऽभूद्, इदं तद् युक्तमेव" । एवं चिन्तयन् स जारो विपद्य गाङ्गिलाकुक्षौ स्वाहितवीर्ये शीघ्रमेव पुत्रतां प्राप । ततः पूर्णसमये गाङ्गिला पुत्रमजीजनत् ।
अथ गाङ्गिलापतिर्महेश्वरस्तं जारजातमपि पुत्रं स्वोत्पन्नमिव मन्यमानः प्रेम्णा लालयाम्बभूव । ततो महेश्वरो जनिततनयाया गाङ्गिलाया आगतमपि व्यभिचारिणीदोषं पुत्रस्नेहाद् व्यस्मरत् । पुत्रीभूतस्य तस्य जारजीवस्य धात्रीकर्माणि कुर्वाणः प्रमोदभाग् महेश्वरो न ललज्जे । वर्धमानं कूर्चकेशाकर्षकं तं पुत्रं कृपणोऽर्थमिव स हृदयाग्रे सदा दधार च ।।
एकदा महेश्वरः स्वपितृमरणदिने प्राप्ते तं पितृजीवं महिषं तन्मांसेच्छयाऽषीत् । ततः पितृमरणतिथिमहेऽतिहर्षरोमाञ्चितो महेश्वरः स्वयं तं महिषमवधीत् । ततस्तन्महिषमांसं भुञ्जानो प्रमोदभाग् महेश्वरः क्रोडस्थाय तस्मै पुत्रायाऽपि तद् ददौ ।
परिशिष्टपर्व - द्वितीयः सर्गः महेश्वरस्य शुनीभूता माता च तन्मांसं लिप्सुस्तत्राऽऽगमत् । सोऽपि मांसखण्डयुतास्थीनि शुनीकृते चिक्षेप । सा शुनी पवनान्दोलितधूमशिखाग्रवन्नृत्यता पुच्छेन स्वपतिजीवकीकसानि जघास । एवं पितृजाङ्गलं भक्षतः समुद्रपुत्रस्य गृह एको मुनिर्मासक्षपणभिक्षार्थी तत्राऽऽजगाम । स मुनिमहेश्वरदत्तस्य तादृशं सर्वं वृत्तं ज्ञानप्रकर्षण व्यजानात् ।
तज्ज्ञात्वाऽसौ मुनिरचिन्तयत्-"अहो ! तपस्विनोऽस्याऽज्ञानं धिक्, यत् पितुर्मासं भुडक्ते, क्रोडे च शत्रु वहति । इयं शुनी स्वपतेरस्थियुतानि मांसानि प्रमुदितमना: खादति । "अहो संसार ईदृशोऽस्ति" । एवं सम्यग् ज्ञात्वा मुनिमहेश्वरगृहाद् निर्जगाम । तदा महेश्वरोऽपि धावित्वा तं वन्दित्वा च प्रोवाच-“हे भगवन् ! त्वमगृहीतभिक्षो मद्गृहात् किं निवृत्तोऽसि ? न ह्यहं भवतोऽभक्तोऽस्मि, तवाऽनादरं न व्यधां, त्वां दृष्ट्वा हर्षुलोऽस्मि च" । ततो मुनिरुवाच-"मांसभक्षकस्य गृहेऽहं न विहरे, तत एव भिक्षां नाऽऽदां, मम परमं वैराग्यं चाऽभूत्" । ततो महेश्वरोऽस्य निदानमपृच्छत् ।
ततो मुनिरादितो महिष-शुन्यादीनां कथां कथयामास । कोऽत्र प्रत्यय इति पृष्टो मुनिरुवाच-इमां शुनी किमपि प्राग्भूमौ निखातं पृच्छ; तथा पृष्टा शुनी जातिस्वभावतः क्षितिं शय्यार्थमिव पादेन निधानस्थानं चखान । ततो विश्वस्तो महेश्वरो भवोद्विग्नः पात्रेषु धनं दत्त्वा परिव्रज्यामग्रहीत् । तस्माद् वदतां शिरोमणे ! हे प्रभव ! को निश्चयो यत् दुर्गतिसरसः पुत्राः पितरौ तारयन्ते ? अत्राऽन्तरे समुद्रश्रीर्जम्बूनामानमुवाच-“हे नाथ ! त्वं पश्चात्तापं कर्षकवद् मा गाः।

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128