Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 44
________________ परिशिष्टपर्व - द्वितीयः सर्गः ७५ ७४ ___ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः षणैामसुभटैस्त्रयोऽपि पृष्टाः-"युष्मासु कश्चौर इति"। ततः सा धूर्ता मूर्तमायेव तान् ग्रामपुरुषानुवाच-"चौरपुरुषमुद्दिश्याऽयं मे पतिरिति” । सा कृताञ्जलि: पुनरुवाच-“हे भ्रातरः ! आवां ग्रामान्तरे गच्छन्तौ दिनापगमेऽत्र देवालये न्यवात्स्व" । ते ग्रामीणा: सम्भूय पर्यालोच्यैवमूचुः-"चौरस्य गृह ईदृशं स्त्रीरत्नं न संभाव्यते । इयं ब्राह्मणी वाणिजी राजकन्या वा काऽप्यन्या भवेत् । इयं मूर्त्याऽपि पवित्रा, अस्याः पतिश्चौरो न भवेत् । इयं विचित्रवस्त्रभूषणा लक्ष्मीरिव वपुष्मती, यस्येयं स्त्री स चौर्येण न जीवितुमर्हति । पारिशेष्याद् हस्तिपकमेव दोषिणं मत्वा सद्यः शूलायां समारोपयाञ्चक्रुः । शूलाधिरोपितः स हस्तिपको मार्गे यं यं ददर्श तं तं मां जलं पायय पाययेति प्रार्थयामास । तं राजभीत्या कोऽपि जलं नाऽपाययत् । यतः सर्वोऽपि स्वरक्षापूर्वकं धर्ममाचरति। ततस्तेन मार्गेण गच्छन् जिनदासाख्यः श्रावकस्तेन चौरेण दृष्टो जलं याचितश्च । सोऽपि तं प्रत्येवमुवाच-“हे चौर ! तव पिपासामहं हरिष्यामि यदि मद्वचः करिष्यसि" । तावत् त्वं 'नमोऽर्हद्भय इति वदेर्यावदहं जलमानयामि । जलपिपासया स हस्तिपकस्तथा घोषयितुं प्रारेभे । ततः स श्रावकोऽपि तत्पिपासाशान्त्यर्थं राजपुरुषाज्ञया जलमानयत् । स हस्तिपक आनीयमानं जलं दृष्ट्वा नमोऽर्हद्भय इति समुच्चरन् प्राणैरमुच्यत । स त्वसंश्रुतशीलोऽपि शीलिताकामनिर्जरो नमस्कारप्रभावेण व्यन्तरदेवोऽभूत् । साऽपि पुंश्चली चौरेण सह मार्गे प्रययौ । मार्ग एकां नदी जलपूरेण दुस्तरां प्राप । चौरोऽपि पुंश्चलीं प्रत्युवाच-"त्वामहमेकसमयेनोत्तारयितुं न शक्नोमि यतस्ते वस्राभरणभारोऽस्ति । हे प्रिये ! प्रथमं त्वं वस्त्राभरणभारं मह्यं समर्पय । तं प्राग् नदीपारं नेष्यामि, ततस्त्वामप्यनायासेन पारं नेष्यामि । यावदहमायामि तावत् त्वं शरस्तम्बे तिरोभव । एकाकिन्यपि मा भैषीरहं शीघ्रमेष्यामि, तदा त्वां पृष्ठदेश आरोग्य जले तरन् पोत इव परस्मिस्तटे नेष्यामि । त्वं मद्वचनं कुरु" । शरस्तम्बे प्रविश्य सा पुंश्चल्यपि तथा चकार । स चौरो वस्त्राभरणानि नीत्वा परं तटं गत्वेत्यचिन्तयत्-"येयं पति मारयामास सा मय्यनुरक्ता क्षणरागा हरिदेव ममाऽप्यसौ विपदेऽवश्यं स्यात्, इति वस्त्राभरणानि गृहीत्वा स तस्करो वलत्कन्धरः पश्यन्नपि हरिणवद् ननाश । उद्धतकरा हस्तिनीव सद्योजातेव नग्ना सा गच्छन्तं तमालोक्योवाच-"हे प्रिय ! मां विहाय किं यासि ?" चौरोऽवदत्-"त्वामेकाकिनी शरवणस्थितां राक्षसीमिव दृष्ट्वा बिभेमि, अतस्त्वयाऽलम्" । एवं वदन् स पक्षीवोड्डीयाऽनश्यत् । सा पुंश्चली पतिद्वेषिणी तत्रैवोपविश्य तस्थौ।। स हस्तिपकजीवोऽपि देवत्वं प्राप्तः प्रयुक्तावधिज्ञानस्तां तपस्विनीं तथास्थितामपश्यत् । ततः स तां पूर्वजन्मस्त्रियं संबुबोधयिषुर्मुखाद् गृहीतमांसखण्डं शृगालं विचकार । इतश्च स तस्या नद्यास्तटे जलाद् बहिःस्थितं मत्स्यं भोक्तुं मांसपिण्डं त्यक्त्वाऽधावत्; तदा मीन: पुनरपि नदीनीरं प्राविशत् । तद्विकृतपक्षिण्या मांसपिण्डमग्रहीत् । ततः सा नग्निका शरवणोपविष्टा दुःखदीनाऽपि दृष्टकौतुका तं जम्बुकमुवाच-“हे शृगाल ! दुर्मते ! मांसपेशीं विहाय मीनं त्वमीहसे, मीनाद् मांसाच्च भ्रष्टः सन् किं त्वं पश्यसि ? जम्बुक उवाच-“हे नग्निके ! त्वं निजपतिं त्यक्त्वा पत्युर्जाराच्च भ्रष्टा सती

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128