Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 42
________________ त्रिषष्टिशलाकापुरुषचरितम् -गद्यात्मकसारोद्धारः निचिक्षिपुः । वाद्यमानेन तुर्येण प्रमुदितबन्धुभिर्वृता सा देवदिन्नेन स्वीकृता श्वशुरगृहं ययौ । स्वकं नूपुराकर्षणजनितं कलङ्कमुदतारयत्, तत्प्रभृति जनैर्नूपुरपण्डिताऽकथय । *** ७० "स्नुषया मत्या पराजितो देवदत्तस्तत्प्रभृति चिन्तया नष्टनिद्रो वारिबद्धगज इवाऽभवत् । राजा तं योगिनमिवाऽनिद्रं ज्ञात्वा यथाप्रार्थितां जीविकां दत्त्वा शुद्धान्तरक्षकं चकार । कस्याचिन्निश्येका राज्ञी तमन्तःपुररक्षकं शेते नवेति ज्ञातुं पुनः पुनरपश्यत् । सोऽचिन्तयत्-"किमपि कारणं मया न ज्ञायते यदुत्थाय मामेषा पुनः पुनर्निरीक्षते" । मयि सुप्ते किमियं कुर्यादिति ज्ञातुं स यामिकः कपटनिद्रया शिश्ये । शनैश्चौरवद् गवाक्षाभिमुखं गन्तुमारेभे । तस्य गवाक्षस्याऽधो देवराजगजसोदरो राजप्रियः सदामदो हस्ती निबद्ध आसीत् । सा तस्य गजस्य हस्तिपके नित्यानुरागिणी गवाक्षतः सञ्चारिदारुफलकमपसार्य बहिर्ययौ । नित्याभ्यासात् सुशिक्षितो गजः शुण्डेन तामादाय भूमौ मुमोच । ततस्तां दृष्ट्वा हस्तिपकोऽकुप्यत् । पुनः सोऽतिकाले किमायासीरित्युक्त्वाऽरुणेक्षणो हस्तिशृङ्खलया दासीमिव तां जघान । सोवाच - "हे हस्तिपक! मां मा ताडय, अद्य राज्ञा मुक्तः कोऽपि नवोऽन्तःपुररक्षको जागरूकः सन् मामवारुधत् । हे सुन्दर ! अहं कथमपि तस्य निद्राच्छिद्रं प्राप्याऽऽगताऽस्मि इति विज्ञाय मा कोपी, " इत्थं तया बोधितो हस्तिपकः कोपं त्यक्त्वा तया सह परिशिष्टपर्व द्वितीयः सर्गः यथारुचि रेमे । रात्रेः पश्चिमे भागे साहसमहानिधिः सा हस्तिना शुण्डमारोप्योदञ्चिता स्वावासं ययौ । ७१ स्वर्णकारोऽपि दध्यौ - " अहो ! स्त्रियाश्चरितं घोटकानां कुहकारावमिव को ज्ञातुमर्हति ? अहो ! यद्यसूर्यम्पश्यानामपि राजयोषितामेवं शीलभङ्गो भवति तर्ह्यन्यस्त्रीषु का कथा ? सामान्यगृहस्त्रीणां जलाहरणार्थं सञ्चरन्तीनां शीलरक्षणं कियच्चिरं भवितुमर्हति ?" इति स्वस्नुषाया दौ: शील्यकोपचिन्तां त्यक्त्वा शोधितर्णोऽधमर्ण इव तत्र निर्भरं सुष्वाप । स स्थविरः स्वर्णकारः प्रातरपि न जागराञ्चक्रे । ततो भृत्यास्तं तथास्थं राज्ञेऽकथयत् । राजाऽपि प्रोवाच - "केनाऽपि कारणेनाऽत्र भवितव्यं, तस्मादसौ यदा जागृयात् तदा तं मत्पार्श्वे समानयत", इत्यादिष्टा भृत्या ययुः । स्वर्णकारोऽपि चिरात् सप्तरात्रं निद्रासुखमन्वभूत् । सप्तरात्रे व्यतीते सोऽजागरीद् भृत्यैश्च स राजसमीपं नीतः । राज्ञैवमपृच्छ्यत- “हे स्थविर ! तव तु निद्रा कदाऽपि नाऽऽगमत् यथा दुर्भगस्य कामिनी नैति तथा, तत् किं सप्तरात्रं त्वं सुप्तः ? तव न किमपि भयं, यथार्थं ब्रूहि । सोऽपि हस्तिपकस्य राज्ञ्या गजस्य च रात्रिवृत्तान्तं यथादृष्टं राज्ञेऽचकथत् । ततो राज्ञा प्रसादं दत्त्वा स विसृष्टी निजगृहं ययौ । ततो दुःखः सुखपूर्वकमतिष्ठत् यतो जनो धैर्यं जनात् प्राप्नोति । ततो राज्ञा तां दुश्चारिणीं ज्ञातुं काष्ठहस्तिनं कारयित्वा सर्वा राज्ञीराज्ञापयत्, मया स्वप्नो दृष्टो यत् कैलञ्चोऽयं मतङ्गजः स भवतीभिर्ममाऽग्रे विवस्त्राभिरारोढव्यः । ता राज्यो राज्ञः पश्यतस्तथा चक्रिरे । परं चैका राज्ञी त्वेवमुवाच - "हे नाथ! अहमस्माद् गजाद् बिभेमि " ।

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128