Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
भवति-“श्रेष्ठिपुत्रगृहेऽहं तेन परिणीताऽस्मि, अतः पतिर्भवति सः १० | मम बालपिता पुत्र एवं घटते- "पतिस्त्री सपत्नी - कुबेरसेना तस्या: पुत्र: कुबेरदत्त इति पुत्रोऽपि स भवति ११ । देवरोऽयं बालस्तस्य कुबेरदत्तः पितेति देवरजनकत्वात् कुबेरदत्तः श्वशुरोऽपि भवितुमर्हति १२ ।
५४
एवं बालस्याऽस्य या माता सा ममाऽपि माताऽस्त्येव तदुत्पन्नत्वात् १३ । अस्य बालस्य माता मम पितामही चैवं घटते"पितृव्योऽयं बाल उक्तस्तस्य माता भवत्यतः पितृव्यमातृत्वात् पितामही सम्पनीपद्यते १४ । भ्रातृपत्नी बालमाताऽनेन प्रकारेण - "मम भ्राता कुबेरदत्तस्तस्य स्त्रीत्वेन सुतरां भ्रातृजाया भवति" १५ । बालकमाता वधूश्चैवं - " सपत्नीपुत्रभार्या यतो भवति एकपतित्वेन कुबेरसेना सपत्नी भवति, तस्याः पुत्रः कुबेरदत्तः, स च मम सपत्नीपुत्रत्वेन हेतुना पुत्रस्तस्य पुनः स्त्री कुबेरसेनेति पुत्रभार्या वधूर्भवत्येव १६" । बालस्येयं माता मम श्वश्रूरेवं- " मम पत्युः कुबेरदत्तस्य मातेति पतिमातृत्वेन श्वश्रूर्भवति १७” । बालकमाता सपत्नी ममैवं–“मम पतिः कुबेरदत्तस्तस्य द्वितीया पत्नीयं जात एकपतित्वात् सपत्नी युज्यते १८ इत्यष्टादशसम्बन्धघटना" ।
कुबेरदत्तार्येत्युक्त्वा स्वां मुद्रिकां विश्वासाय कुबेरदत्ताय ददौ । सोऽपि कुबेरदत्तस्तामूर्मिकामवलोक्य कुबेरदत्तार्याकथितं सर्वं सम्बन्धं जज्ञे । ततः कुबेरदत्तो विषण्णो भवादुद्विग्नः प्रव्रज्य तपस्तप्त्वा कालधर्मं कृत्वा स्वर्गमगमत् । अथ कुबेरसेना वेश्याऽपि तदा श्राविकात्वं प्रपन्ना | कुबेरदत्तार्या च पुनः प्रवर्तिनीसकाशमा
सादयामास ।
परिशिष्टपर्व द्वितीयः सर्गः
एवं च यो जन्तुः स्वयमपि कर्मणा बध्यते तस्मिन् शत्रुसदृशे परिजने मूर्खाणां शुक्तौ रजतधीरिव बन्धुबुद्धिर्जायते । वस्तुतः स क्षमाश्रमण एव बन्धुर्यः स्वयं बन्धुरहितोऽप्यपरेषां बन्धमोक्षको भवति । अन्ये तु नाममात्रेण बन्धवः ।
५५
ततः पुनरपि प्रभवो जम्बूमाह - " हे कुमार ! दुर्गतौ पततो निजान् पितॄन् रक्षितुं स्वं पुत्रं जनय । यतोऽपत्यरहिताः पितरो - ऽवश्यं नरकं गच्छन्ति; तस्मादपुत्रस्य तव पितॄणामृणात् कथं मुक्ति: स्यात् ?" ततो जम्बूरुवाच - "हे प्रभव ! अयं ते मोहोऽस्ति यत् पुत्रादेव पितॄणां दुर्गतेस्तारणं त्वया प्रतीयते । हे प्रिय ! अस्मिन् विषये महेश्वरदत्तसार्थवाहदृष्टान्तोऽस्ति" ।
प्रभवं प्रति जम्बूकुमारकथिता महेश्वरदत्तकथा
तथा हि- प्राक् ताम्रलिप्त्यां नगर्यां श्रीमान् महेश्वरदत्तनामा सार्थपतिरजायत । तस्य समुद्रनाम्ना प्रसिद्ध: पिता जलेषु समुद्र इव धनेष्वतृप्तोऽभूत् । तस्याऽतिमायाविनी बहुलानाम्नी जननी जज्ञे । लोभावकरगर्तोऽर्थोपचयव्यसनी तस्य पिता मृत्वा तस्मिन् देशे महिषो बभूव । पतिवियोगादार्तध्यानरता तस्य जननी तस्यैव गृहे शुनी बभूव । महेश्वरस्य पार्वतीव महेश्वरदत्तस्य पत्नी सौभाग्यवती गाङ्गिलानाम्नी जाता । सा च श्वश्रूश्वशुरहीना सती निजगृह एकाकिन्यवसत्, तस्माद् वने हरिणीव सा स्वच्छन्दचारिण्यभूत् । निजनाथं वञ्चयन्ती सा परपुरुषेण रेमे । एकाकिनीनां स्त्रीणां सतीत्वं न चिरं तिष्ठति । यतः कामदेव एकाकिनीरेकान्तस्था: स्त्रियो दृष्ट्वा निर्भय इव नितान्तं प्रहरति ।
एकदा स्वैरं परनरेण रममाणायां गाङ्गिलायां महेश्वरो हट्टाद् गृहमकस्मादाययौ । तदा तौ विस्रस्तकेशौ रमणप्रयाससञ्जातभयौ

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128