Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
श्रेष्ठिपुत्राभ्यां परमहर्षेण तयोः परस्परं विवाहोत्सवो व्यधायि । कलाकौशलशिक्षागुरुयौवनालिङ्गितयोस्तयोरङ्गे स्त्री-पुंसवाहनोऽनङ्ग
५०
आरोहत् ।
एकदा तयोर्वधू-वरयोः परस्परप्रवर्धमानप्रेमवारिनदी द्यूतक्रीडा प्रावर्तत । तत्र क्वाऽपि प्रस्तावे कुबेरदत्तस्य मुद्रिका सख्या कुबेरदत्तायाः करमध्ये न्यधीयत । कुबेरदत्ता तामूर्मिकां परीक्षणीयं नाणकमिव पुनः पुनः परित उत्क्षिपन्ती ददर्श । कुबेरदत्ता व्यचारयच्चेयं मुद्रिकोर्मिकान्तरदर्शनाद् विदेशघटिता प्रतिभाति ।
ततो भूयोभूयस्तामूर्मिकां स्वां च पश्यन्ती सा चिन्तावेशात् स्फुरत्काया मनस्येवं निश्चिकाय । " केनचिद् एकस्मिन् देशे घटिते तुलया समे समानाक्षरनाम्नी च सोदरसदृश्याविमे मुद्रिके स्तः । एकः कुबेरदत्तोऽपराऽहं चेमौ द्वावपि मुद्रिके इव समानरूपौ भ्रातृभाण्डे, न इत्यत्र संदेहोऽस्ति । आवां समानसर्वाङ्गौ खलु युग्मजातौ, अहो ! दैवेनेदृशमावां विवाहाकृत्यं कारितौ । पित्रा मात्रा वाऽऽवयोः समानापत्यवात्सल्येन समाने ऊर्मिके कारिते । "यत आवां सौदरौ स्वस्तत एवाऽस्मिन् मम पतिबुद्धिरस्य च मयि स्त्रीबुद्धिर्नोत्पद्यते " । एवं विचार्य कुबेरदत्ता तथेति कृतनिश्चया कुबेरदत्तस्य करे तन्मुद्रिकाद्वयं चिक्षेप | कुबेरदत्तोऽपि तन्मुद्रिकाद्वयं दृष्ट्वा चिन्ताकुलो विमलहृदयः परं विषीदति स्म ।
ततः सुधीः कुबेरदत्तस्तां मुद्रिकां कुबेरदत्तायै दत्त्वा मातरमुपेत्य सशपथमपृच्छत्-मातः ! औरसादिबहुविधपुत्रेषु कीदृशो - ऽहं ते पुत्रोऽस्मि ? औरसो वा पितृत्यक्तः केनचिद् दत्तः ? कृत्रिमोऽन्यो वा ? एवं कुबेरदत्तस्य परमाग्रहवशाद् माता पेटिकाप्राप्तित आरभ्य पूर्वोक्तां सर्वां कथां तस्मै कथयाम्बभूव ।
परिशिष्टपर्व द्वितीयः सर्गः
ततः कुबेरदत्तो जननीं प्रत्युवाच - "मातः ! आवां सौदरौ जानत्याऽपि त्वयाऽकर्तव्यं सोदरविवाहं किमनुष्ठितम् ? मम सैव माता श्रेष्ठा याऽवां परिपालयितुमसमर्था स्वभाग्यभाजनीकृत्य नदीप्रवाहे - मुञ्चत् । यतो नदीवेगो मरणाय स्यात् न त्वकर्तव्यकर्मकरणाय । तस्माद् मम मरणं वरं, नाऽकृत्याचरणं जीवनं वरम्" ।
५१
ततो मातोवाच - "हे पुत्र ! युवयोरतिमनोहरेण परस्परमनुरूपेण च रूपेण मन्दमतयो वयं मोहिता जाता: । तवाऽनुरूपा कन्या तां विना न काऽप्यदृश्यत न चाऽस्याः सदृशस्त्वामृते कोऽपि वरः, अत एवैतदकृत्यमप्यस्माभिः कृतम् । तथाऽपि न काऽपि क्षतिः, यतो युवयोर्विवाहातिरिक्तं स्त्रीपुरुषसंयोगजन्यं पापकर्म नाऽभूत् । अद्याऽपि त्वं कुमार एव, तथैवेयमपि कुमार्येव । अथ तस्यै स्वस्ति भूयात् । तां भ्रातृभाण्डकथां कथयित्वा परित्यज । सौम्य ! व्यापाराय दिग्यात्रां चिकीर्षुस्त्वं सकुशलं तां सम्पाद्य शीघ्रमागच्छे:, इत्यहं शुभाशिषं ददामि । हे पुत्र ! सकुशलं पुनरागतस्य तवाऽपरया कन्यया सार्धं विवाहं सोत्सवं कारयिष्ये ।
ततो धर्मधीः कुबेरदत्तोऽपि मातृवचनमङ्गीकृत्य कुबेरदत्तामुपेत्य तं निर्णयं निवेदयामासाऽवोचच्च - "हे भद्रे ! त्वं पितृगृहं याहि; त्वं भगिन्यसि, विवेकिन्यसि, दक्षाऽसि च तस्माद् यथोचितं कुर्या: । हे भगिनि ! आवां पितृभ्यां वञ्चितौ किं कुर्वहे ? अयं तयोर्न दोष:, "यत आवयोरीदृश्येव भवितव्यताऽऽसीत् । यतः पितरोऽपत्यं विक्रीणन्ति, मुञ्चन्ति, अकृत्येऽपि योजयन्ति तत्कर्मणामेव दोषः " ।
ततः कुबेरदत्तो भगिनीमेवमुक्त्वा विहाय च क्रयाणक भाण्डमादाय मथुरानगरीं प्रययौ । तत्र स व्यवहारेण पुष्कलं

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128